तदेतत् प्रेयः पुत्रात् प्रेयो वित्तात् प्रेयोऽन्यस्मात् ..

[सर्वप्रियो विष्णुरित्युपास्यः ]

उपनिषत्

तदेतत् प्रेयः पुत्रात् प्रेयो वित्तात् प्रेयोऽन्यस्मात् सर्वस्मादन्तरतरं यदयमात्मा स योऽन्यमात्मनः प्रियं ब्रुवाणं ब्रूयात् प्रियं रोत्स्यतीतीश्वरो ह तथैव स्यादात्मानमेव प्रियमुपासीत स य आत्मानमेव प्रियमुपास्ते न हास्य प्रियं प्रमायुतं भवति ॥ २ ॥

भाष्यम्

स एष विष्णुर्भगवान् पुत्राद् वित्तात्तथाऽऽत्मनः ।

अन्यस्मादपि सर्वस्मात् प्रेष्ठ एव स्वभावतः ॥

आत्मनोऽपि प्रियत्वं तु तेनैव कृतमञ्जसा ।

आत्मनो निरयायैव कुर्यात् कर्माणि नित्यशः ॥

यतोऽतः स्वात्मनश्चापि स्वाप्रियत्वमुदाहृतम् ।

स चेदप्रियकृद् विष्णुर्नाऽत्माऽपि प्रियतां ब्रजेत् ॥

अस्मिन् प्रिये प्रियं सर्वं तस्मादेकः प्रियो हरिः ।

स चाऽत्मशब्देनोद्दिष्टो यस्मादाप्तगुणः प्रभुः ।

अतो विष्णोः प्रियं ब्रूयाद् यः स्वात्माद्यं दुरात्मवान् ॥

प्रियरोधं करोषीति तं ब्रूयाद् वैष्णवो महान् ।

एवं वदन् वैष्णवस्तु समर्थः प्रियरोधने ॥

तस्य स्याच्च विशेषेण तदुक्त्यैवापि दुःखिनः ।

तस्मात्सर्वप्रियो विष्णुरित्युपास्ते सदा प्रियः ॥

नास्य प्रियमनित्यं स्यादस्य प्रीतिः सदा भवेत् ।

तस्मात्सर्वप्रियं विष्णुमुपासीतैव नित्यशः ॥

नित्यप्रियकरो विष्णुर्भवेत्तस्याप्यजः स्वयम् ॥ इत्यध्यात्मे ॥

भावबोधटिप्पणी

अथ भाष्यार्थः

तदेतत्प्रेयः' इत्येतद्वाक्यं स्वात्मनो जीवस्य प्रियत्वमुच्यत इति प्रतीतिं निवारयन् व्याचष्टे- स इति ।। स प्रलयाग्रवर्ती एषः सर्वत्र प्रविष्ट इत्यर्थः । अनेन तदेतदित्युक्तार्थम् । यद्यपि श्रुत्यनुसारेणान्यस्मादित्यनेनैवात्मनोऽपि सङ्ग्रहः तथाऽपि उत्तरग्रन्थोपक्षेपाय तथाऽऽत्मन इति पृथगुक्तम् । ननु पुत्रवित्तादीनामात्मार्थत्वेन स्वभावतः प्रेष्ठत्वाभावेऽपि स्वस्यैव स्वभावतः प्रेष्ठत्वाद् विष्णुः कथं स्वभावतः प्रेष्ठ इत्यत आह- आत्मनोऽपीति ॥ पुत्रादिभ्यः आत्मनः प्रियत्वे विशेषद्योतनार्थस्तुशब्दः । ननु स्वात्मनः प्रियत्वं तेन कृतमिति तदा स्यात् यद्यप्रियत्वं कदाचित्स्यादित्यपेक्षायामाहआत्मन इति ॥ कुर्यात्करोति स्वाप्रियत्वं चेति सम्बन्धः । निरयाय कर्माणि करोतीत्युक्त्या प्राप्तां स्वाप्रियत्वस्य स्वाधीनत्वशङ्कां परिहरति-- स चेदिति ॥ आत्मानमप्रियं करोतीत्यप्रियकृत् । नन्वेवं स्वात्मादेः प्रियत्वस्य विष्णुकृतत्वेनास्वाभाविकत्वेऽपि विष्णोः स्वभावतः प्रेष्ठत्वं कुत इत्यत आह- अस्मिन्निति । यस्मादिति शेषः । अस्मिन् हरौ एको मुख्यः स्वभावत इति शेषो वा । ननु अयमात्मेति मूलानुसारात् स एष आत्मा भगवानिति वक्तव्यं विष्णुरिति कथमुक्तमित्यत आह- स चेति || ' स योऽन्यमात्मनः ' इत्यादि व्याचष्टे - अत इति ॥ विष्णोरेव निरुपाधिकप्रियत्वादित्यर्थः । विष्णोरन्यमिति शेषः । प्रियरोधं त्वदीयसुखनाशम् । ईश्वरो हेत्येतदपेक्षितं पूरयन् व्याचष्टेएवमिति । ननु विष्ण्वन्यस्वात्मादिप्रियत्वोक्त्यैव नरकादिदुःखप्राप्तेः शापः किमर्थः इत्यत आह- तस्येति ॥ तदुत्यैव दुःखिनोऽपि तस्य तदुक्त्या वैष्णवशापरूपोत्त्या विशेषेण च दुःखं स्यादिति योजना । अनेन तथा स्यादित्येतदुक्तार्थम् ।स य आत्मानमेव प्रियमुपास्ते' इत्यादि वाक्यं व्याचष्टेतस्मादिति । हरेर्निरुपाधिकप्रियत्वात्प्रियः सन् । विष्णोरिति शेषः । इदानीं ' स य आत्मानमेव प्रियमुपास्ते' इति पूर्ववाक्यं

व्याचष्टे - तस्मादिति ॥ विष्णुमेवेति सम्बन्धः । अन्योऽपि फलार्थीति शेषः ।। २ ।।

खण्डार्थः

तर्हि तदा प्रलये तत्पूर्वोक्तमिदम् अव्याकृतं विकारशून्यं नारायणाख्यं परं ब्रह्म लक्ष्मीश्चाऽसीत् । हेति प्रसिद्धिमाह । तदव्यक्तं नामरूपाभ्यामेव व्याक्रियत हरिणा व्यक्तमकारि । तदेव विवृणोति - असौ नामेति ।। अयं ब्रह्मादिर्महत्तत्वादिश्व पदार्थ: । अदो हिरण्यगर्भो महानित्यादि नाम वाचकं यस्य स असौनामा । इदं चतुर्मुखत्वादि अहङ्काराद्यपेक्षया परिमाणविशेषोपेतत्वादिरूपं यस्य स इदंरूप इति व्याक्रियत इति सम्बन्धः । तत्तस्माद् विष्णुना ब्रह्मादेर्महदादेश्च नामरूपाभ्यामेव व्याकृतत्वादेव तर्ह्यपि इदानीमपि इदं देवदत्तघटादिवस्तु अदो देवदत्तो घट इत्यादिनाम यस्यासाबसौनामा इदंशिरःपाण्यादिकं पृथुबुध्नोदराकारादि रूपं यस्यासाविदंरूप इति नामरूपाभ्यामेव व्याक्रियते । स प्रलयाग्रवर्ती एष जगत्सर्जकः परमात्मा इह स्वसृष्टे देवादौ आनखाग्रेभ्यः, उपलक्षणमेतत् । आकेशात्सर्वशरीरादिकम् अभिव्याप्येति यावत् । प्रविष्टोऽन्तर्गतः यथा क्षुरः क्षुरधाने क्षुरस्तुके यथा विश्वम्भरो वायुः विश्वम्भरकुलाये स्ववासस्थले शरीरे अवहितः प्रविष्टः स्यात्तथा स एष इह प्रविष्ट इति सम्बन्धः । तं स्वशरीरप्रविष्टमपि न पश्यन्ति पृथग्जना इति शेषः । स प्रविष्टो हरिः अकृत्स्न इत्युच्यते हि भगवतोऽकृत्स्नत्ववचने निमित्तं वक्तुमाहप्राणन्नेवेति । प्राणनक्रियामात्रं कुर्वन्नित्यर्थः । एवमुत्तरत्रापि । तान्येतानि प्राण इत्यादिनामानि अस्य कर्मनामान्येव प्राणनादिकर्म- कर्तृत्वमात्रवाचकानि न सर्वगुणपरिपूर्णताभिधायकानि । ततः किमित्यतो भगवतो कृत्स्नत्वोक्तौ निमित्तं लब्धमित्याशयेनाऽह - स इति ॥ हि यस्मात्प्राणादिनामानि कर्मनामान्येव अतः एकैकेन प्राणादिनाम्ना तं य उपास्ते एष अकृत्स्नः अकृत्स्नोपासको भवति । कुतः ? यतः स प्रसिद्धो य एकैकं प्राणनादिकमेवोपास्ते सः साकल्येन न वेद अतोऽकृत्स्नोपासक इति सम्बन्धः । तथाचाकृत्स्नोपासकोपास्तिविषयत्वादकृत्स्रो हीत्युक्तमित्युक्तं भवति । तर्हि कः कृत्स्नोपासक इति जिज्ञासायामात्मत्वोपासक एवेति भावेनाऽहआत्मेतीति । प्राण इत्याद्युपासनाव्यावृत्त्यर्थमेवकारः । नन्वात्मशब्दस्यापि स्वामित्वमात्रार्थकत्वे प्राणादिशब्दसमानयोगक्षेमत्वात् तथैवोपास्तिः कुत इत्यत आह- अत्रेति । अत्र आत्मशब्दार्थे एते चिदानन्दादयो गुणाः प्राणनादिकर्माणि च एकं भवन्ति अन्तर्भवन्ति हि यस्मात्तस्मात्तथैवोपासीतेति सम्बन्धः । आत्मशब्दस्य सर्वगुणवाचकत्वेऽपि परमात्मनः सर्वगुणाभावे तथोपास्तिर्मिथ्योपास्तिः स्यादित्यत आह- तदेतदिति ॥ यदयं योऽयमुपास्यत्वेनोक्तः आत्मा तदेतदात्मरूपम् अस्य आत्मशब्दार्थस्य सर्वस्य गुणजातस्य पदनीयमाश्रयः कुतः सर्वगुणाश्रय इत्यत आह- अनेनेति ।। हि यस्मादनेनोपासितेन परमात्मना एतत् स्वयोग्यं सर्वं वेद आनन्दादिकं च प्राप्नोतीत्यपि ग्राह्यम् । तस्मात्सर्वगुणाश्रय इति । तात्पर्यद्योतनाय वेत्तुः फलमाहयथेति ।। यथापदेन तत्तत्साधनेन तत्तत्फलमनुविन्देत् प्राप्नुयादेवं योऽधिकारी एवं सर्वगुणयुक्तमात्मानं वेदोपास्ते स कीर्तिं शंलोकः श्लोकः तं परमानन्दं परमज्ञानं च विन्दते ॥ १ ॥ आत्मत्वेनोपासनं प्रेमयुक्तं चेत्पुरुषार्थहेतुरिति वक्तुमाह - तदेतदिति । तदेतदन्तरतरं शरीरान्तर्गत- जीवान्तःप्रविष्टं सर्वान्तःप्रविष्टं वा पुत्रात्प्रेयः अतिशयेन प्रियम् । अतिशयश्च निरुपाधिकत्वम्। अन्यस्मात्सर्वस्मात्स्वात्मादेः किं तत् यदयमात्मा यश्चासावयं चेति यदयम् आत्मा सर्वगुणवाचकात्मशब्दवाच्यः । यो वैष्णवः आत्मनः परमात्मनोऽन्यं स्वात्माद्यं प्रियं ब्रुवाणं दुरात्मानं प्रति प्रियं त्वदीयं सुखं रोत्स्यति नाशयति भवानिति ब्रूयात् । एवं ब्रुवन् स वैष्णवः तस्य प्रियरोधने ईश्वरो ह समर्थ एव । कुतः ? यतस्तदुक्तया तथैव स्यात् । यदर्थमेतदुक्तं तदाऽह - आत्मानमेवेति । प्रियत्वेनात्मोपासकस्य फलमाह स यः प्रसिद्ध इति । प्रमायुक्तं विनाशयुक्तम् ॥ २ ॥