इदमग्रे अस्याग्र इति षष्ठ्यर्थे द्वितीया
भाष्यम्
इदमग्रे अस्याग्र इति षष्ठ्यर्थे द्वितीया । अहम् अहेयं, ब्रह्म परिपूर्णम् । अस्मि सर्वदाऽस्तीति मेयमित्येतैर्विशेषणैरात्मानं स्वरूपमेवावेत् । यद्यहंशब्दोऽस्मच्छब्दार्थबाची अस्मिशब्दश्श्रोत्तमपुरुषे तदाऽऽत्मान- मिति व्यर्थं स्यात् । अतोऽहमस्मिशब्दायुक्तार्थावेव । अग्रे अनादि-कालत एव विद्यमानमात्मानं जानाति च तद् ब्रह्मेत्यर्थः । सर्वनियन्तृ-त्वेन सर्वगतत्वादहेयम् ।
भावबोधटिप्पणी
इदं त्वंपदलक्ष्यं चैतन्यं ब्रह्मैवाऽसीदिति व्याख्यानमसदिति भावेन व्याचष्टे- इदमग्र इति || इदमित्यस्य अस्येति व्याख्यानं कथमित्यत उक्तम्-- षष्ठ्यर्थ इति ।। ' तदाऽत्मानमेवावेदहं ब्रह्मास्मि' इत्यस्य तदधिकारिस्वरूपभूतं ब्रह्म आचार्योपदिष्टमात्मानम् अहं ब्रह्मास्मीत्यवेदिति व्याख्यानं दूषयितुम् अहं ब्रह्मास्मीत्यवेदित्येतद् व्याचष्टे -- अहमिति || मेयत्वे प्रकारप्रदर्शनाया- स्तीतिशब्दः । अन्यथा सर्वदाऽस्ति मेयमितीत्येव वक्तव्यम् । कुत एवं व्याख्येयं परोक्तरीत्या प्रसिद्धार्थावेवाहमस्मिशब्दौ किं न स्यातामित्यतस्तद् व्याख्यानं दूषयति- यदीति । अस्मच्छब्दार्थवाची प्रत्यगर्थवाची । अहं ब्रह्मास्मीत्यनेनैवाऽत्मानं ब्रह्मत्वेनावेदित्यस्यार्थस्य लाभात्किमिति कर्माकाङ्क्षाभावेन तद्वैयर्थ्यमिति भावः। विपर्यये पर्यवसानं सूचयन् स्वव्याख्यानं निगमयति– अत इति । अर्थान्तरस्यायोगादित्यर्थः । उक्तार्थावेव नत्वर्थान्तरपरौ । अहमस्मिंशब्दयोः अहेयत्वाद्यर्थकत्वे तु एतैर्विशेषणै: कमवेदिति कर्माकाङ्क्षा- निवर्तकत्वेनाऽत्मानमित्येतदावश्यकमिति भावः । किञ्चाऽचार्योपदेशोऽप्यश्रुत एव कल्पनीयः । तत्परित्यागे च बाधितार्थकत्वापत्तेः । नहि तादृशोपदेशाभावे अहं ब्रह्मास्मीति वेदनमस्ति । नन्वत एव तदध्याहारः क्रियत इति चेदन्यथोपपत्तेरुक्तत्वात् । ननु भवद्व्याख्यानेsपि 'ब्रह्म वा इदमग्र आसीद्' इति व्यर्थम् । किमु तद्ब्रह्मेत्यादिप्रश्नस्य तदात्मानमेवावेदित्यादिनैव परिहारात् । अतोऽस्मद्व्याख्यानमेवाऽश्रयणीयमित्यत आह- अग्र इति ।। अग्र आसीदि- त्युक्तानादिकालविद्यमानत्वसमुच्चयार्थो जानाति चेति चशब्दः । सर्वभवनसमुच्चयार्थो वा । ब्रह्मण एवानादित्वाभावेऽवेदित्यस्याभवदित्यस्य च सदातन- ज्ञानसदातनपूर्णभाववाचकत्वानुपपत्तिरिति शङ्कापरिहारार्थं ब्रह्मणोऽनादित्वमनेन कथ्यत इति भावः । नन्वहमहेयमित्यत्र स्वाहेयत्वं सर्वाहयत्वं वा । नाऽद्यः । सर्वसाधारण्येनावक्तव्यत्वात् । न द्वितीयः । विशेषहेत्वभावादित्यत आह- सर्वेति । अहेयं सर्वैरिति शेषः । सर्वनियन्तृराजादिवत्परिच्छिन्नत्वे सर्वाहयत्वं न सिद्ध्यतीत्यतः सर्वगतत्वादित्युक्तम् । सर्वगतत्वमात्रस्य हातुमशक्यत्वरूपायत्वे हेतुत्वं न सम्भवति । अप्रयोजकत्वादित्यतः सर्वनियन्तृत्वेनेत्युक्तम् । अनेन नियन्तृहाने व्यापारमात्रोच्छेद इति विपक्षे बाधकं सूचितम् ।