तद्यत्तत्सत्यमसौ स आदित्यो य एष ..
[दक्षिणाक्षणि सूर्यमण्डले च सत्यनामकः वासुदेवः]
उपनिषत्
तद्यत्तत्सत्यमसौ स आदित्यो य एष एतस्मिन् मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन् पुरुषस्तावेतावन्योन्यस्मिन् प्रतिष्ठितौ रश्मिभिरेषोऽस्मिन् प्रतिष्ठितः प्राणैरयममुष्मिन् स यदोत्क्र-मिष्यन् भवति शुद्धमेवैतन्मण्डलं पश्यति नैनमेते रश्मयः प्रत्यायन्ति ॥ १ ॥
भाष्यम्
स वासुदेवो भगवानादित्यस्थो जनार्दनः ।
आदित्यनामा सम्प्रोक्तो आदानाद्धविषां सदा ।
स एव दक्षिणाक्षिस्थस्तच्च रूपद्वयं हरेः ।
अन्योऽन्यस्मिन्स्थितं नित्यं प्राणैश्च सह रश्मिभिः ॥
दक्षिणाक्षिस्थितो विष्णुर्यदाऽस्मादुत्क्रमिष्यति ।
तंदैव म्रियमाणस्तु जीवः पश्येद्विरश्मिकम् ॥
सूर्यस्य मण्डलं नास्य प्रतीयन्ते हि रश्मयः ।
तत्क्षणे नियमेनैव केषाञ्चित्सप्तभिर्दिनैः ।
भावबोधटिप्पणी
तस्यैव वासुदेवस्योपासनास्थानमाह - तदिति ब्राह्मणेन ॥ तत्र सत्याख्यस्य वासुदेवस्यादित्याभेद उच्यत इति प्रतीतिनिरासाय तद्वचाचष्टे – स इति ।। तत्र निमित्तमाह– आदानादिति ।। यश्चायं दक्षिणेऽक्षन्पुरुष इत्येतद्व्याचष्टे - स एवेति ॥ तावेतावन्योन्यस्मिन्प्रतिष्ठितौ इति वाक्यं व्याचष्टे - तच्चेति ॥ ननु दक्षिणाक्षिस्थं रूपमादित्ये आदित्यस्थं रूपं दक्षिणाक्षिणि तिष्ठतीत्येतदसम्भावित-मित्यत उक्तमुपनिषदि रश्मिभिरिति, तस्यार्थमाह- प्राणैरिति ।। स यदोत्क्रमिष्यन् भवतीत्यादि व्याचष्टे-- दक्षिणेति । शुद्धमित्यस्यार्थो विरश्मिकमिति । किं रइम्यभावादेव विरश्मिकं नेत्याह- नास्येति ।। तदैवेत्युक्तं विवृणोति- तत्क्षण इति ।। सप्तभिर्दिनैः सप्तदिनात्पूर्वम् ।।
खण्डार्थः
तत्प्रसिद्धं यत्सत्यं वासुदेवाख्यं पूर्वोक्तं तदसौ असौ कः एतस्मिन्परिदृश्यमाने मण्डले य एष पुरुषो वर्तते स आदित्यः आदित्यस्थो विषामादानाद् आदित्यनामा योऽयं दक्षिणेऽक्षन् अक्षणि पुरुषो वर्तते स चेति योजना । न केवलमादित्यस्थं वासुदेवस्य रूपमादित्य एवाक्षिस्थं रूपं अक्षण्येव वर्तते किन्तु तावेतावादित्या- क्षिस्थौ परमात्मानावन्योन्यस्मिन्प्रतिष्ठितौ आदित्यस्थश्चक्षुषि चक्षुःस्थश्च आदित्ये वर्तत इत्यर्थः । नन्वेतदसम्भावितमित्यत आह- रश्मिभिरिति । एष आदित्यस्थो हरी रश्मिभिः सहास्मिन् चक्षुषि प्रतिष्ठितः आदित्यरश्मयश्चक्षुषः उपकारकतया चक्षुष्यपि तिष्ठन्तीति आदित्यस्थश्चक्षुष्यपि तिष्ठतीत्यर्थः । अयं दक्षिणाक्षिस्थः परमात्मा प्राणैश्चक्षुरादिभि: सहामुष्मिन्नादित्ये प्रतिष्ठितः चक्षुरादयः प्राणाः सूर्यमण्डलमपि प्रकाशयंस्तस्मिंस्तिष्ठन्तीति अयममुष्मिन् प्रतिष्ठित इत्यर्थः । दक्षिणाक्षिस्थस्यैवादित्यस्थत्वे हेतुमाह - स इति || दक्षिणाक्षिस्थो भगवान् यदास्माद्देहादुत्क्रमिष्यनुत्क्रन्तीच्छुर्भवति तदैव तत्क्षण एव तत्सप्तदिनात्पूर्वं वा म्रियमाणो जीव एतत्सूर्यमण्डलं शुद्धमेव विरश्मिकमेव पश्यति । रश्म्यभवा- द्विरश्मिकं पश्यति किन्नेत्याह- नैनमिति । एते विद्यमाना अपि रश्मयः एनं म्रियमाणं न प्रत्याययन्ति नास्य प्रतीयन्त इत्यर्थः ॥
इति षष्ठं ब्राह्मणम् ।। ७.६ ।।