वाचाऽऽरम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्

[वाचारम्भणवाक्यं जगत्सत्यत्वबाधकं न भवति ]

भाष्यम्

'वाचाऽऽरम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्' इत्यादि प्रधानपरिज्ञाने गुणभूतं परिज्ञातमिव भवतीत्यत्र दृष्टान्तान्तरम् । वाचा नाम्ना आरम्भणं विकारः । विविधत्वेन कर्तुं योग्यमिति विकारः । सत्यं सर्वदा विद्यमानं नामधेयं मृत्तिकेत्येव । सङ्केतरूपेण नानाविधानि नामानि कर्तुं शक्यन्ते ।

तथापि शास्त्रप्रयोगसिद्धमृत्तिकादिनामपरिज्ञानात् तत्तन्नामविद् भवति ।

एवं नित्यासाम्यातिशयसर्वगुणपरिपूर्णपरमेश्वरपरिज्ञानात्सर्वविद् भवतीति ।

भावबोधटिप्पणी

नन्वेतद्दृष्टान्तत्रयोपपादनाय त्रयाणामपि वाक्यानां शेषाः सन्ति । 'वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् । वाचारम्भणं विकारो नामधेयं लोहमणिरित्येव सत्यम् । वाचारम्भणं विकारो नामधेयं कार्ष्णायसमित्येव सत्यम्' इति । तत्र विकारस्य मिथ्यात्वमुच्यते । वाचारम्भणं वागालम्बनं विकारो नामधेयं नामैव केवलम् । न विकारो नाम वस्त्वस्ति परमार्थतो मृत्तिकेत्येव मृत्तिकैव सत्यं वस्तु । अतः कारणव्यतिरिक्तस्य कार्यस्य मिथ्यात्वाद् यथा सोम्येत्युक्तमुपपन्नमिति । एवं श्रुत्या स्वयमेव विकार- मिथ्यात्वस्यैकविज्ञानेन सर्वविज्ञानहेतुत्वेनोक्तत्वात् कथं सादृश्यादेर्हेतुत्व- मुच्यते । श्रुत्यभिप्राये निश्विते पदवैयर्थ्यादिकं न दोष इत्यतस्तद्वाक्यत्रय-तात्पर्यमाहवाचारम्भणमिति || प्रधाने परिज्ञाते गुणभूतं सर्वं विज्ञातं भवतीत्यनुपपन्नम् । प्रधानभूतराजादिपरिज्ञानेऽपि भृत्यादीनामविज्ञानादित्यत उक्तम्- ज्ञातमिवेति ॥ ज्ञातफलकं भवतीति भावः । ' यथा सोम्य' इति दृष्टान्तस्योक्तत्वाद् दृष्टान्तान्तरमित्युक्तम् । दृष्टान्तान्तरप्रतिपादकमित्यर्थः । ननु कथमुक्तार्थे दृष्टान्तप्रतिपादकमिदं वाक्यम् अप्रतीतेः इत्यत उपलक्षणत्वेन प्रथमवाक्यं व्याचष्टे - वाचेति || वाचा वागिन्द्रियेण नाम्नां संस्कृतातिरिक्तानां यदारम्भणमुत्पादनं तद् विकारः । विकारशब्दार्थमाऽह - विविधत्वेनेति ॥ साङ्केतिकनामोत्पादनस्य पुरुषेच्छाधीनत्वादिति भावः । तत एव साङ्केतिकनाम्नां विनाशश्चेति लभ्यते । सत्यशब्दार्थं वदन् नामधेयं मृत्तिकेत्येव सत्यमित्येतद् योजयति- सत्यमिति ॥ नन्वस्तु साङ्केतिकनाम्नामुत्पत्तिविनाशवत्त्वं संस्कृत- नाम्नामनादिनित्यत्वं च । तथाऽपि कथमेतद्वाक्यं प्रधानविज्ञाने दृष्टान्ता- न्तरप्रतिपादकमित्यत आह- सङ्केतरूपेणेति । शक्यन्त इत्यनन्तरं तथाच नानाविधतत्तन्नामपरिज्ञानाद् विद्वद्व्यवहारगोचरत्वादिकं भवति यद्यपीति वाक्यशेषः । तथाऽपीत्यनन्तरं साङ्केतिकनामापरिज्ञानेऽपि यथेति शेषः । तत्तन्नामविद्भवति तत्तन्नामवेदनप्रयोजनवान् भवतीत्यर्थः । प्राधान्योपपादनार्थं नित्यासाम्येत्यादि । सर्ववित्सर्वज्ञानफलवान् । अत एव वक्ष्यति सर्वं ज्ञातमिवेति । अनेन श्रुतौ यथा सोम्य तेन तद्विज्ञातं स्यादिति प्रकृतमनुवर्तनीय- मित्युक्तं भवति । तथाचाप्राकृतत्वादनित्यत्वाच्च परापेक्षत्वेन साङ्केतिकं नाम अप्रधानम् । अनादिनित्यत्वात्परानपेक्षत्वेन संस्कृतं प्रधानम् । तत्र यथा प्राधान्यात्संस्कृतज्ञानमात्रेण साङ्केतिकं ज्ञातफलं भवति । एवमनित्यत्वादिना प्रधानस्य देवताकर्मादिमिश्रस्य सकलस्यापि जगतो ज्ञाने यत्फलं तत्समस्तमपि नित्यत्वादिना प्रधानस्य परमात्मनो ज्ञानाल्लभ्यते तत्फलेऽन्तर्भवतीति भावः ।।

Load More