स्वरूपेषु विशेषो यः स्वरूपं तस्य सोऽपि तु
[ भगवतः क्रियाः नित्या:]
भाष्यम्
स्वरूपेषु विशेषो यः स्वरूपं तस्य सोऽपि तु ॥
क्रियाणां च न नाशोऽस्ति तच्छक्तेः पूर्वकालतः ।
विशेष एवोपरतिः क्रियायाः समुदीरिता ॥
भावबोधटिप्पणी
ननु विष्णोः स्वरूपादिषु विद्यमानस्य विशेषस्य तदभिन्नत्वे विशेषविशेषिभाव- व्यवहारानुपपत्तेस्तद्भेदो वाच्यः । अतः कथं केवलाभेद आत्मनीत्युक्तमित्यत आह-- स्वरूपेष्विति ॥ नन्वथापि केवलाभेद आत्मनीत्ययुक्तम् । विष्णोः स्वक्रियादिभिरत्यन्ताभेदायोगात् । विष्णोर्नित्यत्वात्तत्क्रियाणां चानित्यत्वात् । नित्यानित्ययोश्च केवलाभेदायोगात् । तथाच तत्र भेद एवाङ्गीकार्य इति न क्वापीति कथमुक्तम् इत्यत आह- क्रियाणां चेति ॥ विष्णुसमुच्चयार्थश्चशब्दः । विष्णुक्रियाणामित्यर्थः । नन्वीश्वरस्य परिस्पन्दरूपक्रियाया एवाभावेन तदनित्यत्वशङ्का तत्परिहारश्चेति द्वावप्यनुपपन्नौ । नन्च ज्ञानादिरूपधात्वर्थक्रियाणां बिनाशाभावः साधनीयः । ईश्वरज्ञानादिनित्यत्वस्य परेणाप्यभ्युपगतत्वादिति चेन्न । ईश्वरस्य परिस्पन्दाभावे प्रमाणाभावात् । परममहत्परिमाणेन तत्साधनस्याणुमध्यमपरिमाणाभ्यां सत्प्रतिपक्षत्वात् । असिद्धिशङ्काया उभयत्रापि साम्यात् । ‘महतो महीयान्’' इति श्रुतत्वान्नासिद्धिरिति चेत् । ‘अणोरणीयान्’ इतीतरस्यापि श्रुतत्वात् । अणोरणीयस्त्वम् अप्रत्यक्षत्वोपलक्षकमिति चेत् । महतो महत्त्वमपि पूज्यत्वमिति किं न स्यात् । विरोधादुभयाङ्गीकारो नोचित इति चेत् । तर्हि प्रथमप्राप्तत्वाद् अणुत्वमेव ग्राह्यम् । परिहरिष्यते चायं विरोधः पञ्चमाध्याये । ननु ईश्वरक्रियाणां कुतो न विनाश इति चेत्, प्रमाणाभावात् । न तावत्तत्र प्रत्यक्षमस्ति । ईश्वरतत्क्रिययोरप्रत्यक्षत्वात् । नाप्यनुमानम् । लिङ्गाभावात् । क्रियात्वं लिङ्गमिति चेत्तद्यदि धात्वर्थत्वं तदा ज्ञानेच्छाप्रयत्नैः सत्तया च व्यभिचारात् । यदि च परिस्पन्दत्वं तदानी - मीश्वरपरिस्पन्दानामपि नित्यत्वेन व्यभिचारात् । विपक्षे बाधकाभावेनाप्रयो- जकत्वाच्च । अन्यथा ज्ञानत्वादिना ज्ञानाद्यनित्यतासाधनसौलभ्यात् । नच ज्ञानानित्यत्वे धर्मिग्राहकप्रमाणबाधः । केवलानुमानस्य तस्याप्रामाण्यात् । आगमस्य तत्रापि साम्यात् । कार्यत्वस्योपाधित्वाच्च । नच पक्षेऽपि तत्साधनीयम् । तदकार्यत्वस्य श्रुत्यादिसिद्धत्वेन बाधात् । ईश्वरक्रिया अनित्या असत्यावरणादौ प्रागूर्ध्वमनुलभ्यमानत्वात् । कदाचिदेवोलभ्यमानत्वाद्वा घटादिवदिति चेन्न । प्रत्यक्षेणानुपलम्भस्य आकाशादौ व्यभिचारात् । योग्यतया विशेषणेऽसिद्धेः । प्रमाणमात्रेणानुलम्भस्यासिद्धत्वात् । आगमादिनोपालम्भात् । अत एव द्वितीयहेतुरप्यसिद्धः । वर्णनित्यत्ववादेऽनैकान्तिकश्च । नाप्यागमः । तदभावात् । ‘स इमाँ लोकानसृजत' इत्यादेः 'स ऐक्षत' इत्यादिवाक्यसमानयोगक्षेमत्वात् नन्वथापि ईश्वरक्रियाविनाशाभावो न युक्तः । बाधकसद्भावात् । तथाहि । यदि सृष्टिसमये संहारादिक्रिया विद्येत तदा तथैव श्रुत्यादावुपलभ्येत । जननविनाशौ च घटस्य युगपत्स्याताम् । क्रियायाः संयोगविभागौ प्रति अनपेक्षकारणत्वेन तदुत्पत्तिसातत्यप्रसङ्गश्चेत्यत आह- तच्छतेरिति । क्रियाशक्तेः पूर्वकालमारभ्य सत्वात् । अस्त्येव सृष्टिसमयेऽपि संहारक्रिया संहारसमयेऽपि सृष्टिक्रिया | नवोक्तदोषः । तत्कार्यजननशक्तेरेव क्रियात्वात् । तस्याश्च पूर्वकालमारभ्य सदा सत्वात् । अभिव्यक्ताया एव तस्यास्तत्तद्- व्यवहारविषयत्वतत्तत्कार्यजनकत्वाद्यङ्गीकारात् । तथाच संहारसमये सर्जनक्रिया- शक्तिसद्भावेऽपि न श्रुत्यादौ तथोपलम्भप्रसङ्गः । व्यक्तिरूपेणैव व्यवहारा-लम्बनत्वात् । व्यक्त्यवस्थाया एव शक्तेर्जनकत्वेन जननविनाशयौगपद्यासम्भवः । अत एव न संयोगविभागसातत्यप्रसङ्गश्वेति भावः । ननु केयं शक्तेर्व्यक्तिर्नाम | न तावत्प्रतीतिः । ईश्वरापेक्षया नित्यसिद्धत्वेनोक्तदोषानुषक्तेः । परापेक्षया कदाऽप्यभावात् । भावेऽपि च कार्योत्पादनस्य तदनपेक्षत्वात् । अत एब नाऽवरणनिवृत्तिर्व्यक्तिरिति । मैवम् । व्यक्तिशब्देन शक्तेरेबावस्थाविशेषस्य विवक्षितत्वात् । ननु अभिव्यक्तायाः सर्जनक्रियाशक्तेः संहारसमये किमुपरतिरस्ति न वा । नो चेद् उक्तदोषानिस्तारः । आद्ये तु कथं क्रियाविनाशाभावः । उपरतेर्विनाशरूपत्वात् । नच व्यक्तेर्विनाशेऽपि क्रियाशक्तिनाशो नास्तीति वाच्यम् । तयोरभेदस्य वक्ष्यमाणत्वात् । लाघवेन क्रियाया एवानित्यत्व- स्वीकारोपपत्तेश्च । ‘केवलाभेद आत्मनि' इत्युक्तव्याघाताच्चेत्यत आह- विशेष एवेति ॥ तच्छक्तेः पूर्वकालत इति अत्राप्यनुवर्तते । अस्त्येवाभिव्यक्तायाः सर्जनादिक्रियाया उपरतिः नचैवमुक्तदोषः । यत उपरतिर्नामावस्थाविशेष एव । न विनाश इत्यङ्गीकारादित्यर्थः ।