तौ यत्र विहीयेते' इत्यत्रापि परमात्मैव

[ स यश्वायमशरीरः' इति वाक्यमपि न जीवेश्वराभेदे प्रमाणम् ]  

भाष्यम्

'तौ यत्र विहीयेते' इत्यत्रापि परमात्मैव ।

'शरीरानभिमानी यो हृदि संस्थो जनार्दनः ।

अभिमानवतो देहे जीवस्य स नियामकः ॥

स एव सूर्यसंस्थश्च हंसः सोऽहमिति श्रुतः ।

हन्तृत्वाद्धंसनामाऽसौ सोऽहं चासावहेयतः ॥

स एव सूर्यसंस्थेन रूपेणैवाक्षिणि स्थितः ।

सूर्यसंस्थाद्धि रूपात्स विभक्तोऽक्षिणि संस्थितः ॥

गच्छतो म्रियमाणस्य तावुभावपि देहतः ।

तयोर्देहविहाने तु भवेतारिष्टदर्शनम् ॥'

तदा सञ्चिन्तयेद्देवं तमेव पुरुषोत्तमम् । इत्यादि हरिवंशेषु ॥

भावबोधटिप्पणी

यदुक्तं जीवेशाभेदे प्रमाणाभाव इति तदसत् । ' स यश्चायमशरीरः प्रज्ञात्मा यश्चासावादित्ये एकमेतदित्यवोचाम' इत्यभेदे प्रमाणस्य सत्वात् । नचेदमपि शरीरसूर्यान्तर्गतविष्णोरेवाभेदप्रतिपादकमिति वाच्यम् । तथात्वे तौ यत्र विहीयेते इति द्विवचनानुपपत्तेरित्यतः तदुदाहृत्य तात्पर्यमाह - ताविति || परमात्मैव द्विरूपः परामृश्यत इति शेषः । कुत इत्यतः स यश्चायमित्यादिश्रुत्यर्थनिश्चायिकां स्मृतिं पठति - शरीरेति । हृदिसंस्थश्वेत्कथम् अशरीर इत्यत उक्तम्शरीरानभिमानीति । प्रज्ञात्मेत्यस्यार्थः- अभिमानवत इति । अनेन प्रज्ञस्य शरीराभिमानवत आत्मेति व्याख्यातम् । यश्वासावादित्ये एकमित्येतद्व्याचष्टे - स एवेति । य इत्युक्तः । ' तद्योऽहं सोऽसौ ' इति पूर्ववाक्योक्तत्वं दर्शयति-- हंस इति । तस्यैक्यपरत्वशङ्काव्युदासायैवं पदच्छेदः प्रदर्शितः । हंसः सोऽहमिति पदद्वयस्यार्थमाह - हन्तृत्वादिति ॥ सारत्वादित्यपि ग्राह्यम् । ननु सूर्यगतरूपस्य देहगतत्वाभावेन ततो विहानायोगात्कथं तौ यत्र विहीयेते इत्युक्तमित्यत आह- स एवेति ॥ सूर्यसंस्थितेनैव रूपेणात्रावस्थानं कथं इत्यत आह- सूर्यसंस्थादिति । एवं च तयोर्देहाद्गमनमुपपन्नमित्याह- गच्छत इति || 'तौ यत्र विहीयेते चन्द्रमा इवाऽदित्यो दृश्यते' इत्यादेस्तात्पर्यमाह - तयोरिति || ' स यत्करणीयं मन्येत तत्कुर्वीत' इत्यस्य तात्पर्यमाह - तदेति ||

Load More