स यत्रायमात्मा बल्यं न्येत्य ..
अथ शारीरब्राह्मणम्
[मरणकाले मोहः ]
उपनिषत्
स यत्रायमात्मा बल्यं न्येत्य सम्मोहमिव न्येत्यथैनमेते प्राणा अभिसमयन्ति स एतास्तेजोमात्रा: समभ्याददानो हृदयमेवान्ववक्रामति स यत्रैव चाक्षुषः पुरुषः पराङ् पर्यावर्ततेऽथारूपज्ञो भवति ॥ १ ॥
भाष्यम्
सर्वेषां बलकारित्वाद् बल्यो विष्णुः प्रकीर्तितः ।
तं यदा प्राप्य जीवात्मा मृतेः पूर्वं विमुग्धताम् ॥
याति विष्णुं तदा देवा यान्ति तेजः स्वरूपिणः ।
तानादाय हरिश्चक्षुस्थानाद्धृदयमाव्रजेत् ॥
तदा न किञ्चिज्जानाति जीवो ब्रह्मसमाश्रितः ॥ इति च ॥
एनं बल्यमभिसमायान्ति । पराक् स्थितश्चाक्षुषो भगवान् प्रत्यक् परावर्तते । इन्धो ह वै नामैष योऽयं दक्षिणेऽक्षन् पुरुषः ॥ इत्यादि श्रुतेः ॥
भावबोधटिप्पणी
'तद्यथाऽन' इत्यादिना निरूपितमन्त्यमरणप्रकारमेव विविच्य दर्शयति- स यत्रेत्यादिना ।। स यत्रायमात्मा बल्यं न्येत्यत्राबल्यमबलभावं दौर्बल्यमिति व्याख्यानमसत् प्रमाणविरुद्धत्वादिति भावेन प्रमाणेन बल्यशब्दार्थमाह- सर्वेषामिति ।। बलसम्बन्धी बल्यः सम्बन्धश्च तत्कारित्वमित्यभिप्रेत्य बलकारित्वादित्युक्तं सङ्कोचे कारणाभावात्सर्वेषामिति ॥ नन्वेवं स आत्मा बल्यं न्येत्यसम्मोहमिव न्येतीत्यनुपपन्नं जीवस्य विष्णुप्राप्तेरेव मरणरूपत्वेन तदनन्तरं सम्मोहप्राप्त्यसम्भवात् । दौर्बल्यप्राप्त्यनन्तरं सम्मोहप्राप्तेश्च सम्भावितत्वादित्याशङ्कां परिहरन् स यत्रायमित्यादि प्राणा अभिसमायन्तीत्यन्तं वाक्यं व्याचष्टे - तं यदेति । यत्रेत्यस्यार्थो यदेति न्येत्यस्यार्थः प्राप्येति श्रौतात्मशब्दस्य विष्णुपरत्वे सम्मोहप्राप्त्यादेरसम्भवादाह— जीवात्मेति ।। उक्तशङ्कापरिहाराय मृतेः पूर्वमिति शेषोक्तिः । न्येतीत्यस्यार्थो यातीति एनमित्यस्यार्थो विष्णुमिति अथेत्यस्यार्थस्तदेति एते प्राणा इत्यस्यार्थो देवा इति स एतास्तेजोमात्रा इत्युत्तरत्रानुवादादाह - तेज:स्वरूपिण इति ॥ स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामतीति वाक्यं व्याचष्टे- तानादायेति ।। स यत्रैव चाक्षुष इत्युत्तरत्रानुवादाच्चक्षुःस्थानादित्युक्तम् । अथारूपज्ञो भवतीत्युक्तरूपाज्ञत्वं प्रकृतचाक्षुषपुरुषस्य विष्णोरुच्यत इति प्रतीतिं परिहरन् अथारूपज्ञो भवतीत्येतद् व्याचष्टे– तदेति ।। अनेन तदा कस्यापि ज्ञानाभावेनारूपज्ञ इति विशिष्योक्तिः कथमिति शङ्का परिहृता । रूपशब्दस्योपलक्षकत्वाङ्गीकारात् । ब्रह्मसमाश्रित इत्युक्त्या जीवस्याप्रकृतत्वशङ्का निरस्ता । बल्यं न्येत्येति ब्रह्मसमाश्रितत्वेन प्रकृतत्वात् । ननु अथैनमेते प्राणा इत्यत्रैनमिति पूर्वप्रकृतजीवपरामर्शप्रतीतेः कथं विष्णुमिति व्याख्यानमित्यत आह- एनमिति । जीवपरत्वे प्राणानां तदभिगमनं न स्यादिति बाधकसूचनायाभिसमायन्तीत्यनुवादः । स चाक्षुषः पुरुषो जीवो यत्र यदा पराक् बहिः पर्यावर्तते तदा अरूपज्ञो भवतीति प्रतीतिनिरासाय किञ्चिदध्याहारेण तद् व्याचष्टे- पराक्स्थित इति । बहिर्व्यापारं कुर्वन् स्थित इत्यर्थः । प्रत्यक् अन्तर्हृदयस्थानम् । अन्यथा यथाश्रुतार्थाङ्गीकारे उक्तानुवादरूपत्वानुपपत्तेः । चक्षुषो भगवानित्युक्त्या भगवतश्चक्षुःस्थत्वमुक्तं तत्र प्रमाणमाह – इन्ध इति || १ ||