एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनीयान्
[भगवान् कर्मलेपरहितः ]
उपनिषत्
तदेतदृचाभ्युक्तम् ।
एष नित्यो महिमा ब्राह्मणस्य
न कर्मणा वर्धते नो कनीयान् ।
तस्यैव स्यात् पदं वित्तं विदित्वा
न लिप्यते कर्मणा पापकेनेति ॥ २३ ॥
तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवात्मानं पश्यति सर्वमात्मानं पश्यति नैनं पाप्मा तरति सर्वं पाप्मानं तरति नैनं पाप्मा तपति सर्वं पाप्मानं तपति विपापो विरजोऽविचिकित्सो ब्राह्मणो भवत्येष ब्रह्मलोकः सम्राळिति होवाच याज्ञवल्क्यः सोऽहं भगवते विदेहान् ददामि मां चापि सह दास्यायेति ॥ २४ ॥
भाष्यम्
शान्तिस्तु भगवन्निष्ठा दमो मदविनिग्रहः ।
हृदिस्थविष्णौ सन्तोषः सदैवोपरमः स्मृतः ।
तितिक्षा द्वन्द्वसहता क्षमा क्रोधासमुत्थितिः । इति शब्दनिर्णये ॥
सर्वः पूर्णः समुद्दिष्टस्तथा ज्ञेयो जनार्दनः ।
रागसन्देहपापानि तथा जानंस्तरिष्यति ।
नित्यं हि रागपापादेर्मुक्तो यत् पुरुषोत्तमः ।
वेदाख्यब्रह्मणाऽण्यत्वाद् विष्णुर्ब्राह्मण उच्यते ।
पूर्णत्वाज्ज्ञानरूपत्वाद् ब्रह्मलोकश्च स प्रभुः ।
भावबोधटिप्पणी
तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वेत्युक्तशान्त्या - दिपदार्थानाह - शान्तिस्त्विति । सर्वमात्मानं पश्यतीति वाक्यमैक्यमुच्यत इति प्रतीतिनिरासाय व्याचष्टे - सर्व इति ।। नैनं पाप्मा तरति सर्वं पाप्मानं तरतीत्यादिपापतरणोक्तिरूपलक्षणम् । विपापो विरजो विचिकित्स इति परमात्मनो रागसन्देहाभावयोरप्युक्तेरिति भावेनाह - रागेति ॥ विपापो विरजो विचिकित्स इति वाक्यस्य ज्ञानिपरत्वे पुनरुक्तिप्रसङ्गात्तत्र हेतुप्रतिपादकतया व्याचष्टे– नित्यं हीति || आदिशब्देन सन्देहग्रहणम् । ननु वर्णशून्यत्वाद् विष्णोः कथं ब्राह्मणो भवतीत्युक्तमित्यत आह- बेदाख्येत ।। स्वरव्यत्यासस्त्वाधिक्यार्थ इति भावः । नित्यं हीत्यस्यात्रापि सम्बन्धः । अण्यत्वाद्गम्यत्वात् । अण पण गताविति धातोः । एष ब्रह्मलोक इत्येतत् षष्ठीसमासप्रतीतिनिरासाय व्याचष्टे - पूर्णत्वादिति ॥ २३-२४ ॥