एष प्रजापतिर्यद्धृदयमेतद् ब्रह्मैतत् सत्यं ..

[विष्णुचतुभुखयोः हृदयमिति नाम]

उपनिषत्

एष प्रजापतिर्यद्धृदयमेतद् ब्रह्मैतत् सत्यं तदेतत् त्र्यक्षरं हृदयमिति हृ इत्येकमक्षरमभिहरन्त्यस्मै स्वाश्चान्ये च य एवं वेद द इत्येकमक्षरं ददत्यस्मै स्वाश्चान्ये च य एवं वेद यमित्येकमक्षरमेति स्वर्गं लोकं य एवं वेद ।

इति तृतीयं ब्राह्मणम्

भाष्यम्

हरणाद् यज्ञभागादेर्ज्ञानादेर्दानतस्तथा ।

यानादव्यवधानेन परस्य ब्रह्मणस्तथा ॥

ब्रह्मा हृदय इत्युक्तस्तस्यैवंविदपि ध्रुवम् ।

हृतिदानस्वर्गयानपात्रं स्यात्तत्प्रसादतः ।

हृत्वैवास्मै ददत्यद्धा स्वकीयाश्चान्य एव च ॥ इति निर्णये ॥

परमात्मा च प्रजापतिः ॥

इति तृतीयं ब्राह्मणम्

भावबोधटिप्पणी

पूर्वप्रकृतचतुर्मुखस्यैव स्वरूपमाह - एष प्रजापतिरिति । तत्र प्रजापतिशब्द- वाच्यस्य चतुर्मुखस्य हृदयशब्दवाच्यत्वमुक्तम् । तत्र किं निमित्तमित्यतः अभि- हरन्तीति ददतीति एतीति फलवाक्यानुसारेण तन्निमित्तं वदन् ब्राह्मणं व्याचष्टे- हरणादिति ॥ हरणात् हृ, दानतो दः, अव्यवधानेनान्यद्द्वारमन्तरेण परस्य ब्रह्मणो यानात्प्राप्तेर्यःअभिहरन्त्यस्मै स्वाश्चान्ये च य एवं वेद' 'ददत्यस्मै स्वाश्चान्ये च य एवं वेद' ‘एति स्वर्गं लोकं य एवं वेद' इति फलवाक्यत्रयं व्याचष्टे - तस्येति ॥ अभिहरन्ति ददतीत्यनयोरेकार्थत्वप्रतीतिं निराकुर्वन् हृति दानेत्युक्तं विवृणोति- हृत्यैवेति ।। अन्यस्मादिति शेषः । न केवलमेतावद्ब्राह्मणे पूर्वब्राह्मणप्रकृतचतुर्मुख एवैष प्रजापतिरिति प्रजापतिशब्देनोच्यते किन्तु परमात्मा चेत्याह- परमात्मा चेति ।। अन्यथा एतत् ब्रह्मैतत्सत्यमित्यस्य चतुर्मुखे मुख्यतोऽनुपपत्तेरिति भावः ।। इति तृतीयं ब्राह्मणम् ॥ ७.३ ॥