यदाहुर्ब्रह्मविज्ञानात्समग्रत्वं यियासवः

[ 'अहं ब्रह्मास्मि' इत्यस्य ऐक्यपरत्वाभावे प्रमाणानि ]

भाष्यम्

यदाहुर्ब्रह्मविज्ञानात्समग्रत्वं यियासवः ।

ब्रह्मज्ञानात्समग्रत्वं नान्यतश्चेति निश्चयात् ॥

तत्र केचिन्मनुष्यास्तु मन्यन्ते ब्रह्म किं मतेः ।

समग्रभावमगमदिति ब्रूयाच्च तानिति ॥

ब्रह्मापि सर्वदाऽऽत्मानमहेयं गुणबृंहितम् ।

सर्वदाऽस्तीति मेयं च विजानाति तथैव तु ॥

भावबोधटिप्पणी

एवं जीवब्रह्मैक्यस्याप्रामाणिकत्वात् प्रमाणविरुद्धत्वाच्च न तत्परत्वेन 'ब्रह्म वा इदमग्र आसीत् तदात्मानमेवावेदहं ब्रह्मास्मि' इति वाक्यं व्याख्येयमित्युक्तम् । इदानीं तद्व्याख्यानरूपप्रमाणविरुद्धत्वान्न तद्व्याख्यानं युक्तमित्याशयेनतदाहुर्यद्ब्रह्मविद्ययाइत्यादिखण्डव्याख्यानरूपं प्रमाणमुदाहरति--- यदाहुरित्यादिना ।। तत्र 'तदाहुर्यद् ब्रह्मविद्यया सर्वं भविष्यन्त' इति वाक्यमन्वयं दर्शयन् व्याचष्टेयदाहुरिति ॥ सर्वमित्यस्यार्थः- समग्रत्वमिति ॥ स्वयोग्यतापूर्णत्वमित्यर्थः । भविष्यन्त इत्येतस्य यियासव इति । किमाहुरित्याशङ्का- निवर्तकत्वेन 'ब्रह्मविद्यया सर्वम्' इत्येतदेव व्याचष्टे - ब्रह्मज्ञानादिति ।। समग्रत्वं स्वयोग्यतापूर्णत्वं प्राप्यत इति शेषः । ब्रह्मविद्ययेत्येतत्सावधारणमिति भावेनोक्तम्नान्यत इति ॥ निश्वयाद् यदाहुरिति सम्बन्धः । तदाहु तच्छब्दस्य मनुष्या मन्यन्त इत्यनेन सम्बन्धमभिप्रेत्य व्याचष्टे - तत्रेति ॥ किं मन्यन्त इत्याशङ्कानिवर्तकं ' किमु तद् ब्रह्मावेत्' इति वाक्यं व्याचष्टे - ब्रह्मेति || मतेः स्वात्मज्ञानादित्यर्थः । इति मन्यन्त इति सम्बन्धः ।तदात्मानमेवावेत्इत्यादेः परिहारपरत्वप्रतीत्यर्थमपेक्षितमध्याहरति- ब्रूयादिति ।। न केवलं स्वयमेव जानीयात् । किन्तु तान् प्रतीति वक्ष्यमाणप्रकारेण ब्रूयाच्च । चोऽवधारणे वा । इत्येवं ब्रूयादिति सम्बन्धः । तत्परिहारत्वेन ' तदात्मानमेवावेदहं ब्रह्मास्मि' इति वाक्यं व्याचष्टे - ब्रह्मापीति ॥ न केवलमधिकारी किन्तु ब्रह्मापीत्यर्थः । तथाशब्दः समुच्चये । गुणबृंहितं चेति सम्बन्धः । विजानात्येवेत्यन्वयः । अवेदिति प्रयोगाज्ज्ञानस्य कादाचित्कत्व- शङ्कापरिहाराय सर्वदा विजानातीत्युक्तम् ।

Load More