यत्सप्तान्नानि मेधया तपसाऽजनयत् पितैकमस्य साधारणं द्वे देवानभाजयत्

अथ सप्तान्नब्राह्मणम्

[ भगवता सृष्टं सप्तविधान्नम् ]

उपनिषत्

यत्सप्तान्नानि मेधया तपसाऽजनयत् पितैकमस्य साधारणं द्वे देवानभाजयत् । त्रीण्यात्मनेऽकुरुत पशुभ्य एकं प्रायच्छत् तस्मिन् सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न कस्मात् तानि न क्षीयन्तेऽद्यमानानि सर्वदा । यो वै तामक्षितिं वेद । सोऽन्नमत्ति प्रतीकेन स देवानपि गच्छति स ऊर्जमुपजीवतीति श्लोकाः ॥ १ ॥

भाष्यम्

पिता विष्णुः । यत् यदा । तपसा प्राणिनां कर्मभिः । मेधया स्वेच्छया । 'स हीदमन्नं धिया धिया जनयते कर्मभिः ' ॥ इति वचनात् ॥

भावबोधटिप्पणी

एवं चतुर्मुखादिदेवतास्रष्टृत्वेन प्रकृतस्य परमात्मनः सप्तान्नस्रष्टृत्वरूपं महिमान्तरमाह- यत्सप्तेत्यादिना ॥ अयं मन्त्रः पिता क्षेत्रज्ञो ज्ञानकर्माधिकारी मेधया तपसा पाङ्क्ङ्केन कर्मणा । सप्तान्नानि यत्प्रसिद्धमन्नमजनयत् । तन्मध्ये एकमस्य साधारणमिति परेण व्याख्यातः । तदसदिति भावेन तावत्पितृशब्दार्थमाह- पितेति ।यो नः पिता' इति श्रुतेः । देवतास्रष्टृत्वेन परमात्मन एव प्रकृततया पितृशब्देन तस्यैव ग्राह्यत्वाच्च न तद्व्याख्यानं युक्तमिति भावः । यदित्यस्य यत्प्रसिद्धमिति व्याख्यानमप्यसत् । एकवचनान्तयच्छब्दस्य बहुवचनान्तान्नशब्दसामानाधिकरण्यायोगादिति भावेन तदर्थमाह-- यदिति ।। तपसेत्यस्य सन्तापार्थकताप्रतीतिनिरासाय तपःशब्दार्थमाह- तपसेति ॥ यद्वा, पाङ्केन कर्मणेत्यपि व्याख्यानमसत् । प्राणिनां कर्ममात्रस्य सप्तान्नोत्पत्तौ निमितत्वेन तद्विशेषोपादाने नियामकाभावाद् इति भावेन तपसेत्यस्यार्थमाह-तपसेति ॥ मेधयेत्यस्य ज्ञानकर्माधिकारिमेधयेत्यपि व्याख्यानमसत् । मेधाशब्दस्य कर्मार्थत्वे तपसेत्यनेन पौनरुक्त्यापातात् । पाङ्कोपासनयेत्यर्थ इति न युक्तम् । नहि ज्ञानकर्माधिकारिणो जीवस्य पाङ्कोपासनं सप्तान्नोत्पत्तौ कारणमित्यत्र नियामकमस्तीति भावेन मेधाशब्दार्थमाह- मेधयेति ॥ तपो मेधाशब्दयोरुक्तार्थत्वं कुत इत्यतः उत्तरब्राह्मणेनैव तथा व्याख्यानादिति भावेनाऽह - स हीति ।। धिया स्वेच्छया ॥

Load More