तद्धेदं तर्ह्यव्याकृतमासीत्
[ सर्वगुणानां आत्मशब्दार्थे अन्तर्भावाद् आत्मनाम्ना सर्वगुणपूर्णत्वोपासनं कार्यम् ]
अथ अव्याकृतब्राह्मणम्
उपनिषत्
तद्धेदं तर्ह्यव्याकृतमासीत् । तन्नामरूपाभ्यामेव व्याक्रियतासौ नामाऽयमिदं रूप इति । तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियतेऽसौ नामायमिदं रूप इति स एष इह प्रविष्ट आनखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः स्यात् विश्वम्भरो वा विश्वम्भरकुलाये तं न पश्यन्त्यकृत्स्नो हि स प्राणन्नेव प्राणनामा भवति वदन्वाक्पश्यंश्चक्षुः शृण्वन् श्रोत्रं मन्वानो मनस्तान्यस्यैतानि कर्मनामान्येव स योऽत एकैकमुपास्ते न स वेद । अकृत्स्नो ह्येषोऽत एकैकेन भवत्यात्मेत्येवोपासीतात्र ह्येते सर्व एकं भवन्ति तदेतत्पदनीयमस्य सर्वस्य यदयमात्माऽनेन ह्येतत्सर्वं वेद यथा ह वै पदेनानुविन्देदेवं कीर्तिं श्लोकं विन्दते य एवं वेद ॥ १ ॥
भाष्यम्
विश्वम्भरो वायुः । ‘अकृत्स्रो हि स ' इत्यस्याभिप्राय: 'स यो त एकैक- मुपास्ते न स वेद' इत्यादि । प्राण इत्यादिनामानि परमेश्वरस्य न सर्वगुणसम्पूर्णतां वदन्ति । किन्तु प्राणनादिकर्मकर्तृत्वमेव वदन्ति । आत्मशब्द एव सर्वगुणपरिपूर्णत्वं वदति । अस्य सर्वस्य गुणजातस्यायमाऽत्मैव पदनीय आश्रयो यस्मादतस्तं सर्वगुणवाचकेनाऽत्मशब्देनैवोपासीत । अनेन ह्येतत्सर्व वेद यस्मात्सर्वज्ञानप्रदस्तस्मा- त्सर्वगुणसम्पूर्णः इत्येवोपासनं तस्य युक्तम् । तदुपासनादेव सर्वज्ञत्वादयो भवन्ति किमु तस्येति । पद्यते अनेनेति पदं साधनम् । यथा तत्तत्साधनेन तत्तत्फलं प्राप्नुयादेवं सर्वगुणयुक्तत्वेन भगवदुपासनात्कीर्ति श्लोकं च विन्दते । शं लोकः श्लोकः परमानन्दं परमं ज्ञानं चेत्यर्थः । लुक् प्रकाश इति धातोः ।
भावबोधटिप्पणी
अथ भाष्यार्थः
‘आत्मैवेदमग्र आसीत्’इत्युक्तस्य आत्मनः तद्यदिदमाहुरित्यनेन या उपासना उक्ता तस्याः प्रकारं दर्शयन् प्रागुक्तां चतुर्मुखात्सृष्टिं प्रपञ्चयत्यनेनाव्याकृतब्राह्मणेन अत्र विश्वम्भर इत्येतद् विश्वम्भरोऽग्निः जाठरत्वेन सर्वम्भरणादित्यग्निपरत्वेन परैर्व्याख्यातं तदसत् । अग्नेर्जाठरत्वेन पाचकत्वेऽपि भरणहेतुत्वाभावात् । वायोस्तु ‘सप्तस्कन्धगतो लोकान् यो बिभर्ति महाबलः' । ‘बायुना वै गौतम सूत्रेण' इत्यादिश्रुत्या भरणहेतुत्वस्य प्रमितत्वादिति भावेनाऽह- विश्वम्भर इति । एतेन विश्वम्भरशब्दस्य भगवति प्रसिद्धत्वात्कथं तस्यैव ‘स एष इह प्रविष्टः' इत्यत्र दृष्टान्तत्वमुच्यते अभेदादित्येतदपि परास्तम् । ननु शरीरान्तः प्रविष्टस्य भगवतो पूर्णत्वाभावात्कथम् 'अकृत्स्नो हि सः ' इत्युक्तमित्याशङ्कापरिहारकत्वेन ' स योऽतः' इत्येतद्वाक्यं प्रवृत्तमित्याह- अकृत्स्न इति ॥ इत्यादि वाक्यम् । अभिप्रायः अभिप्रायप्रदर्शकम् । तथाच प्राणनाद्येकैकभागमात्रोपासकस्याकृत्स्नोपासकत्वेन तदुपासनाविषयत्वा- भिप्रायेणैव ‘अकृत्स्रो हि सः' इत्युक्तम्, नत्वपूर्णत्वाभिप्रायेणेति भावः । तान्येतान्यस्याऽत्मनः कर्मनामान्येव नतु वस्तुमात्रविषयाणीति परेषां व्याख्यानमसत्। आत्मशब्दस्यापि वस्तुमात्रविषयकत्वाभावाद् इत्यभिप्रायेण ‘तान्यस्यैतानि कर्मनामान्येव' इति वाक्य एवकारव्यावर्त्यं प्रदर्शयन् व्याचष्टे— प्राण इत्यादीति ॥ कस्तर्हि गुणसम्पूर्णत्ववाचक इत्यतोऽत्र ह्येत इति वाक्यतात्पर्यमाह आत्मशब्द एवेति ॥ आत्मेत्येवेत्यादिवाक्यस्य आत्मेत्येवोपासीत न केनचिद्विशेषणेन विशिष्टतया । तत्र हेतुमाह- अत्रेति ॥ अत्रास्मिन्निरुपाधिके आत्मनि एते सर्वे प्राणाद्युपाधिकृता विशेषाः एकमभिन्ना भवन्ति तस्मादात्मेत्येवोपासीत । अनात्मनोऽपि विद्यमानत्वात्कथमात्मोपासने नियमविधानमित्यत आह- तदेतदिति । तदेतत् तदेव पदनीयं गमनीयं किन्तत् अस्य सर्वस्य निर्धारणे षष्ठी । अनात्मपदार्थेषु यदयमात्मेति परेषां व्याख्यानमसत् । ब्रह्मणो निर्विशेषत्वस्य एकीभावस्य च निराकरिष्यमाणत्वादिति भावेन तद्वाक्यत्रयं व्याचष्टे - अस्येति । ननु आत्मशब्दस्य गुणसम्पूर्णत्ववाचकत्वेऽपि तेन शब्देन परमात्मोपास्तिः कुतः? अन्योपास्तिः कुतो न स्यादित्यत उक्तम् - अस्येति ।। आत्मनः सर्वगुणाश्रयत्वेऽपि आत्मशब्देनैव तदुपासनं कुतः ? प्राणादिशब्देन कुतो नेत्यत उक्तम्- सर्वगुणवाचकेनेति । अत्र हीति वाक्यार्थस्य हेतुत्वेनानुवादोऽयम् । 'अनेन ह्येतत्सर्वं वेद' इति वाक्यं तस्यैव पदनीयत्वे हेतुमाह । अनेनाऽत्मज्ञानेन हि यस्मादेतत्सर्वम् अनात्मजातं वेद जानातीति परेषां व्याख्यानं तदसत् । एकविज्ञानेन सर्वविज्ञानस्य तदभिप्रेतस्य दृष्यमाणत्वाद् इति भावेन तद्वाक्यम् अनूद्य पूर्ववाक्यार्थे हेतुत्वेन व्याचष्टे - अनेनेति ।। हिशब्दार्थः- यस्मादिति || उपासकस्येति शेषः । यस्मात्सर्वज्ञानप्रदः तस्मात्सर्वगुणः यस्मात्सर्वगुणः तस्मात्सर्वगुण इत्येवोपासनं तस्य युक्तमिति योज्यम् । ननु भगवतः सर्वज्ञानप्रदत्वेऽपि सर्वगुणवत्त्वं कुतः ? तेन सर्वज्ञमात्रलाभेऽपीत्तरगुणाना- मलाभादित्यतो हेतुहेतुमद्भावं स्पष्टयति - तदुपासनादेवेति । अनेनोत्तरफल- वाक्यानुसारेण श्रुतौ ‘सर्वं वेद' इत्येतदुपलक्षणमित्युक्तं भवति । यथा ह वै लोके पदेन गवादिखुराङ्कितेन देशेनान्विष्यमाणो नष्टं विवक्षितं गोसुवर्णादिवस्तु विन्देत् लभेत एवं श्रुत्यादिनाऽऽत्मनि लब्धे तु सर्वं लभेत इति 'यथा ह वै पदेन' इति वाक्यं पूर्ववाक्यान्वितत्वेन परैर्व्याख्यातम् । तदसत् । यथैवंशब्दाभ्यां यथेत्यादेः फलवाक्येनान्वयस्य स्पष्टं प्रतीतेः पदशब्दस्य खुराङ्कितप्रदेशार्थकत्वे लाक्षणिकत्वापत्तेश्चेति भावेन पदशब्दस्यार्थं वदन् यथेत्यादिवाक्यं व्याचष्टे पद्यत इति । एवं वेदेत्यत्र ज्ञानमात्रं विवक्षितम् आत्मेत्येवोपासीतेत्युपक्रमानानुगुण्यादिति भावेनोक्तम् - भगवदुपासनादिति ॥ पुनरुक्तिपरिहाराय श्लोकमिष्टैः सह सङ्घातमिति श्लोकशब्दो व्याख्यातः । तदसत् । अपदार्थत्वादिति भावेन विग्रहप्रदर्शनपूर्वकं श्लोकशब्दार्थमाह- शमिति ।। शकारस्थाकारलोपो निर्वचनत्वात् । सुखज्ञानयोरात्मानुपासकानामपि सत्त्वात्कथं तत्फलमित्यत उक्तम्- परमेति । लोकशब्दस्य ज्ञानार्थत्वे धातुं पठति - लुगिति ॥ धातोर्धातुव्याख्यानात् ।