आत्मैवेदमग्र आसीत् पुरुषविधः..

बृहदारण्यकोपनिषद्भाष्यम्

प्रजापतिब्राह्मणम्

आत्मैवेदमग्र आसीत् पुरुषविधः सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत् सोऽहमस्मीत्यग्रे व्याहरत् ततोऽहं नामाऽभवत् तस्मादप्येतर्ह्यामंत्रितोऽहमयमित्येवाग्र उक्त्वाऽथान्यन्नाम प्रब्रूते यदस्य भवति स यत्पूर्वोऽस्मात् सर्वस्मात् सर्वान् पाप्मन औषत् तस्मात् पुरुष ओषति ह वै स तं योऽस्मात् पूर्वो बुभूषति य एवं वेद ॥ १ ॥

इदमग्रे एतस्याग्रे परमात्मैवासीत् । ततः पुरुषविधो ब्रह्माऽऽसीत् । पुरुषो विष्णुस्तद्विधत्वात् पुरुषविधः ।

एतस्य जगतो ह्यग्र आसीन्नारायणः परः । एक एव श्रिया सार्धं तमात्मा पुरुषेत्यपि ॥ आहुस्तस्मात् पुरुषविधो ब्रह्मा समभवद्विभोः । ब्रह्मादेश्च श्रियश्चैव नित्यं विष्णुर्गुणाधिकः ॥ यथा तथैव रुद्रादेर्ब्रह्मा यस्माद् गुणाधिकः । एतस्मात् पुरुषविधता ब्रह्मणः सम्प्रकीर्तिता ॥ स तु सर्वा दिशो दृष्ट्वा नान्यद् दृष्ट्वा पितामहः । अब्रवीदहमस्मीति स्वाहेयत्वमनुस्मरन् ॥ हातुं शक्यमिदं सर्वमासीदेकोऽभवं यतः । ओयत्वं स्वरूपस्य स एवं समचिन्तयत् ॥ ततोऽभवदहंनामा स चाभूत् पुरुषाभिधः । ओषणात् सर्वपापानां पूर्वं पुरुष उच्यते ॥ नारायणप्रसादेन य एवं पुरुषाभिधम् । वेद स्वाभिमतं यस्तु पूर्वं प्राप्तुमभीप्सति ॥ ओषेत् स्वयमनुष्टः सन् ब्रह्मविष्णुप्रसादतः ॥ १ ॥

सोऽबिभेत् तस्मादेकाकी बिभेति सहायमीक्षाञ्चक्रे यन्मदन्यन्नास्ति कस्मान्नु बिभेमीति तत एवास्य भयं वीयाय कस्माद्ध्यभैष्यत् द्वितीयाद्वै भयं भवति ॥ २ ॥

तस्य त्वेकस्य सहसा यतो भीः समजायत । तस्मादद्यापि चैकस्य निर्विवेकं भयं भवेत् ॥ विममर्श ततो ब्रह्मा यस्मान्मद्बाधको न हि । मया सृज्या यतः सर्वे इतः पश्चात्तनो हरः ॥ अतः कस्माद्बिभेमीति तस्य भीतिरपोहिता । विष्णोरतिप्रियत्वात्तु तदन्येषां पितृत्वतः ॥ कस्माद्भयं भवेत् तस्य समानाद्धि भयं भवेत् । विरोधिनोऽधिकाद्वापि हीनाद्वा पारवश्यतः ॥ हीनमेव यतस्तस्य सर्वमेव जगद्वशे । न च जातं तदा सर्वं हरिरेव यतः परः ॥ २ ॥

स वै नैव रेमे तस्मादेकाकी न रमते स द्वितीयमैच्छत् स हैतावानास यथा स्त्रीपुमांसौ सम्परिष्वक्तौ स इममेवात्मानं द्वेधाऽपातयत् ततः पतिश्च पत्नी चाभवतां तस्मादिदमर्धबृगलमिव स्व इति ह स्माह याज्ञवल्क्यस्तस्मादयमाकाशः स्त्रिया पूर्यत एव तां समभवत् ततो मनुष्या अजायन्त ॥ ३ ॥

न रेमे स ततो ब्रह्मा तस्मादेकस्य नो रतिः । अथापि पत्नीमैच्छच्च स स्थूलत्वमुपागतः ॥ दम्पती सहितौ यावद्ब्रह्मा चैव सरस्वती । तावद्देहोऽभवद्ब्रह्मा तदा देहं द्विधाऽकरोत् ॥ पातनात् पतिपत्नीत्वशब्द एनोरजायत । तस्मात् तयोरेकसुखं भवत्येवार्धपात्रवत् ॥ ततस्तस्यामुमेशादीन् देवान् सर्वान् मनूनपि । जनयामास बोधस्य प्राधान्यं हि मनुष्यता ॥ ३ ॥

सोहेयमीक्षाञ्चक्रे कथं नु माऽऽत्मन एव जनयित्वा सम्भवति हन्त तिरोऽसानीति सा गौरभवदृषभ इतरस्तां समेवाभवत् । ततो गावो अजायन्त बडवेतराऽभवदश्ववृष इतरो गर्दभीतरा गर्दभ इतरस्तां समेवाभवत् तत एकशफमजायताऽजेतराभवद् वस्त इतरोऽविरितरा मेष इतरस्तां समेवाभवत् ततोऽजावयोऽजायन्तैवमेव यदिदं किञ्च मिथुनमा पिपीलिकाभ्यस्तत्सर्वमसृजत ॥ ४ ॥

सोऽवेदहं वाच सृष्टिरस्म्यहं हीदं सर्वमसृक्षीति ततः सृष्टिरभवत् सृष्ट्यां हास्यैतस्यां भवति य एवं वेद ॥ ५ ॥

सर्वज्ञाऽपि तु सा देवी विरिञ्चे भक्तिमत्यपि । तद्भार्यतामात्मनश्च नितरां धर्ममीक्षती ॥ अनाद्यनन्तसम्बन्धमुभयोरपि जानती । स्त्रीस्वभावं दर्शयन्ती साऽधर्ममिव चैक्षत ॥ नानासृष्टिप्रसिद्ध्यर्थं सा गोत्वादिकमाव्रजत् । वृषादिरूपतां सोऽपि प्राप्य सृष्ट्वेदमञ्जसा ॥ सर्जनात् सृष्टिनामाऽभूत् तद्वित्तत्पुत्रतां व्रजेत् । पिपीलिकान्तरुद्रादौ यथायोग्यत्वमात्मनः ॥

अथेत्यभ्यमन्थत् स मुखाच्च योनेर्हस्ताभ्यां चाग्निमसृजत । तस्मादेतदुभयमलोमकमन्तरतोऽलोमका हि योनिरन्तरतस्तद्यदिदमाहुरमुं यजामुं यजेत्येकैकं देवमेतस्यैव सा विसृष्टिरेष उ ह्येव सर्वे देवा अथ यत्किञ्चेदमार्द्रं तद्रेतसोऽसृजत तदु सोम एतावद्वा इदमन्नं चैवान्नादश्च सोम एवान्नमग्निरन्नादः सैषा ब्रह्मणोऽतिसृष्टिर्यच्छ्रेयसो देवानसृजताथ यन्मर्त्यः सन्नमृतानसृजत तस्मादतिसृष्टिरतिसृष्ट्यां हास्यैतस्यां भवति य एवं वेद ॥ ६ ॥

अथान्नादमथाप्यन्नं स्रक्ष्यामीति विचिन्तयन् । ओष्ठद्वयं ममन्थान्तर्हस्तौ चैव परस्परम् ॥ तन्मुखाच्चैव हस्ताभ्यामन्तरग्निरजायत । एवं सर्वस्य हेतुत्वात् सर्वस्यापि पतित्वतः ॥ सर्वे देवा एष एवेत्याहुर्वेदविदो जनाः । स्वतन्त्रेषु यतः शब्दा वर्तेयुः सर्व एव च ॥ स रेतसः पुनः सोममसृजद्ब्रह्मविद्धरः । सर्वाधिकोऽपि योग्यत्वान्मर्त्यधर्मतया पुरा ॥ अवमो योग्यताहीनानप्यायुर्मात्रतोऽधिकान् । यतोऽस्रागतिसृष्टिस्तं देवं यो वेद पूरुषः ॥ विष्णोः प्रसादतः सृष्टिं देवलोके स जायते । आत्मयोग्यानुसारेण सुखज्ञानादियुक्तता ॥ इति ब्रह्मतर्के ।