अथ सम्पदः याज्ञवल्क्येति होवाच

 [देवपदवीप्राप्त्युपायः ]

उपनिषत्

अथ सम्पदः याज्ञवल्क्येति होवाच । कतिभिरयमद्यर्ग्भिर्होता अस्मिन् यज्ञे करिष्यतीति तिसृभिरिति कतमास्तास्तिस्रः इति पुरोनुवाक्या च याज्या च शस्यैव तृतीया किं ताभिर्यजतीति यत्किञ्चेदं प्राणभृदिति ॥ ७ ॥

भाष्यम्

याज्याशस्यापुरोवाक्यसंस्थितं यो हरिं स्मरेत् ।।

सर्वप्राणभृतामीशः स भवेन्नात्र संशयः ।

भावबोधटिप्पणी

किं ताभिर्जयतीत्यस्य प्रश्नस्य यत्किञ्चेदं प्राणभृदिति यत्परिहारवाक्यं तद् ऋचामेव फलसाधनत्वप्रतीतिनिरासाय व्याचष्टे - याज्येति ॥

Load More