यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत् ..

[ भगवानेक एव सर्वज्ञ: ]

उपनिषत्

यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत् पश्येदन्योऽन्यज्जिघ्रेद- न्योऽन्यद् रसयेदन्योऽन्यद् वदेदन्योऽन्यच्छृणुयादन्योऽन्य- न्मन्वीतान्योऽन्यत् स्पृशेदन्योऽन्यद् विजानीयात् ॥ ३१ ॥

सलिल एको द्रष्टाऽद्वैतो भवत्येष ब्रह्मलोकः सम्राडिति हैनमनुशशास याज्ञवल्क्य एषाऽस्य परमा गतिरेषाऽस्य परमा सम्पदेषोऽस्य परमो लोक एषोऽस्य परम आनन्द एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति ॥ ३२ ॥

भाष्यम्

यदि जगदेव न स्यात् तदा कथं मोक्षेऽप्यन्यानि भूतानि मात्रामुपजीवन्तीति युज्यते? मोक्षप्रकरणं चैतत्।स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि' इति भगवद्वचनम्।

यदा हि सलिलत्वेन प्रकृतिर्व्याप्य तिष्ठति ।

तदा तस्यां परो विष्णुरेको द्रष्टा व्यवस्थितः ।

अविरोधादद्वितीय एकोऽसौ समवर्जनात् ।

बृहज्ज्ञानाद् ब्रह्मलोकः सदैव पुरुषोत्तमः ।

सर्वगत्वादस्य गतिः परा विष्णोः सदैव हि ।

पूर्णैश्चर्यादस्य सम्पत् परमा सम्प्रकीर्तिता ।

सार्वज्ञ्यात् परमो लोको विष्णोरानन्द एव च ।

स्वातन्त्र्यात् परमो ज्ञेयः स हि पूर्णः सदोदितः ।

प्रतिबिम्बरूपविप्लुट्कांस्तदानन्दस्य चाखिलाः।

मुक्ता ब्रह्मादयोऽश्रन्ति तारतम्येन नित्यदा ।

सलीलः सलिल इति वा ।

भावबोधटिप्पणी

यत्र वान्यदिव स्यादित्यस्यान्यदिव वस्त्वन्तरमिवाविद्याप्रत्युपस्थापितमिति व्याख्याने बाधकमाहयदीति । यदि भिन्नं जगदेव न स्यादाविद्यकं स्यादिति यावत् । तदाविद्यानिवृत्तिरूपे मोक्षेऽप्यन्यानि भूतानीति अन्येषां भूतानां सत्वोक्तिरयुक्ता स्यादित्यर्थः । स्यादेतत् यदीदं वाक्यं मोक्षपरमेव स्यात् । तदेव नास्ति । अस्य वाक्यस्य सुषुप्तिपरत्वादित्यत आह- मोक्षेति । सुषुप्तिप्रकरणत्वसमुच्चयार्थश्वशब्दः । कुत इति चेत् अत्र पिता पिता भवतीत्याद्ये तत्प्रकरणोपक्रमवाक्यस्य सुषुप्तिमोक्षोभयविषयकत्वस्य सूत्रकृता निर्णीतत्वादिति भावेन तत्सूत्रं पठति - स्वाप्ययेति ॥ ३१ ॥

'सलिल एको द्रष्टाऽद्वैतो भवति' इत्यस्य सलिलः सलिलवच्छुद्धो विजातीयभेद- रहितः एकः सजातीयभेदशून्योऽत एव द्रष्टाऽद्वैतः स्वगतभेदशून्य इति पर- व्याख्यानमसत् । भेदप्रतिपादकेन ततोऽन्यदिति पूर्ववाक्येनान्यानि भूतानी - त्युत्तरवाक्येन च विरोधात् । तद्व्याख्यानरूपप्रमाणविरोधाच्चेति भावेन तद् व्याचष्टे - यदा हीति ।। तस्यां सलिलरूपचेतनप्रकृतौ । ननु सलिलात्मकप्रकृतेरेव सत्वात्कथमेकोऽद्वैतश्चेत्यतस्तत्पदद्वयं व्याचष्टे- अविरोधादिति ।। विरोधिशून्यत्वादित्यर्थः । प्रकृतेश्च न विरोधः । नापि साम्यमिति भावः । एष जीवो ब्रह्मलोको ज्योतीरूपं ब्रह्मैवेति व्याख्याननिरासाय ब्रह्मलोकशब्दार्थमाह- बृहज्ज्ञान इति ।। बृहत्सर्वविषयं ज्ञानं यस्यासौ तथोक्तः । एषास्य परमा गतिरित्यस्यार्थमाह्सर्वगत्वादिति । अस्येत्यनुवादेन विष्णोरिति व्याख्यानं एषास्य परमा सम्पदित्येतद् व्याचष्टे - पूर्णेति ॥ एषोऽस्य परमो लोक इत्येतद् व्याचष्टेसार्वज्ञादिति || लोको ज्ञानम् । एषोऽस्य परम आनन्दः ' इति वाक्यं व्याचष्टे - आनन्द इति । विष्णोरिति वर्तते विष्णोरानन्दश्च परमो ज्ञेयः । कुतः हि यस्मात्स आनन्दः पूर्णः सदोदितः । तत्र हेतुः स्वातन्त्र्यादेवेति ।एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' इति वाक्यं विष्णुस्वरूपभूतानन्दैकदेशभोक्तृत्वमन्येषामुच्यत इति प्रतीतिनिरासाय व्याचष्टेप्रतिबिम्बरूपेति ।। मात्रामित्यस्यार्थो विप्लुट्कानिति । उक्तान्यथाप्रतीतिनिरासाय प्रतिबिम्बरूपेत्युक्तम् । स यो मनुष्याणामित्यादेस्तात्पर्यं तारतम्येनेति । पूर्वं सप्तम्यन्तत्वमङ्गीकृत्य सलिलपदं व्याख्यातम् । प्रथमान्तत्वमङ्गीकृत्यापि व्याचष्टे - सलिल इति ।। लीलया सहितः सलीलः इत्यर्थः । दीर्घलोपः छान्दस इति भावः ।। ३२ ।।