आत्मैवेदमग्र आसीदेक एव सोऽकामयत ..

[भगवता नानावतारेषु आचरिताः गृहस्थधर्माः]

उपनिषत्

आत्मैवेदमग्र आसीदेक एव सोऽकामयत जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीयेत्येतावान् वै कामो नेच्छंश्च नातो भूयो विन्देत् तस्मादप्येतर्ह्येकाकी कामयते जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीयेति स यावदप्येतेषामेकैकं न प्राप्नोत्यकृत्स्न एव तावन्मन्यते तस्योकृत्स्नता मन एवास्यात्मा वाग्जाया प्राणः प्रजा चक्षुर्मानुषं वित्तं चक्षुषा हि तद्विन्दते श्रोत्रं दैवं श्रोत्रेण हि तच्छ्रुणोत्यात्मैवास्य कर्मात्मना हि कर्म करोति स एष पाङ्क्तो यज्ञः पाङ्क्तः पशुः पाङ्क्तः पुरुषः पाङ्क्तमिदं सर्वं यदिदं किञ्च तदिदं सर्वमाप्नोति य एवं वेद ॥११॥ ॥ इति अव्याकृतब्राह्मणम् ॥

भाष्यम्

एको नारायणः पूर्वमासीज्जायां स ऐच्छत ।

विद्यमानामपि सदा भोगार्थं पुरुषोत्तमः ॥

नित्यत्वेऽप्युभयोर्देवोऽवियुक्तस्तु तया यदा ।

एक इत्युच्यते देव्या रममाणः सुतं विभुः ॥

ऐच्छद् ब्रह्मा ततो जज्ञे ततो देवांश्च सर्वशः ।

जाते पुत्रे वित्तमैच्छद्भूतान्यण्डं ततोऽभवत् ॥

अण्डस्यान्तस्त्विमे लोकाः कुर्यां कर्मेति चैच्छत ।

ततस्तु कृतवान्यज्ञं स्वस्मै स पुरुषोत्तमः ॥

आहुरात्मेति तं देवं पूर्णत्वाद् विष्णुमव्ययम् ।

तस्मादद्यापि यः कामी स ह्येतावन्तमिच्छति ॥

दैवं वित्तं सुखाद्यं हि मित्राद्यं मानुषं तु यत् ।

इदानीमपि तस्माद्धि कामयेदेवमेव तु ॥

यः कश्चित्पुरुषो वाऽपि तद्वैकल्यादकृत्स्रवान् ॥

भावबोधटिप्पणी

नन्वथो अयं वेत्यादेर्भगवान् मूलरूपेण यज्ञादिकर्तृत्वाद् देवाद्याश्रय इति व्याख्यानं तदा स्याद् यदि मूलरूपस्य भगवतो गृहस्थत्वं यज्ञादिकर्तृत्वं च प्रामाणिकं स्यात् । तदेव कुत इत्याशङ्कानिरासाय प्रवृत्तंआत्मैवेदमग्र आसीत्इति खण्डं भगवतो गार्हस्थ्ययज्ञादिकर्तृत्वप्रतिपादकतया प्रमाणेन व्याचष्टे - एक इति । अनेनाऽत्मशब्देन ब्रह्मचारी कथ्यत इति परव्याख्यानं प्रमाणविरुद्धमित्युक्तं भवति । 'सोऽकामयत जाया मे स्यात्' इति वाक्यं व्याचष्टे - जायामिति ॥ नन्वविद्यमानस्येच्छा दृष्टा । नहि नारायणस्य जायाऽविद्यमाना । महालक्ष्म्याः सदा विद्यमानत्वादित्यत आह- विद्यमाना- पीति || स्वरमणस्य तस्य तया भोगः कादाचित्क इति भावः । एवं तर्ह्यत्मैवेदमग्र आसीदेक एवेति कथम् ? । नारायणवत्तज्जायाया अपि अनादिनित्यत्वादित्यत आह- नित्यत्वेऽपीति ॥ यदा यस्मात्तया वियुक्तः तस्मादेक इत्युच्यत इत्यर्थ: । 'अथ प्रजायेय' इति वाक्यं व्याचष्टे - देव्येति ॥ अन्येच्छावद् विष्णोरिच्छा न मोघेति भावेन वाक्यशेषमाह - ब्रह्मेति ॥ 'अथ वित्तं मे स्यात्' इति वाक्यं व्याचष्टे - जात इति ॥ पूर्ववदत्रापि वाक्यशेषमाह-- भृतानीति । 'अथ कर्म कुर्वीय' इत्येतद् व्याचष्टे - कुर्यामिति । अत्रापि वाक्यशेषमाह । ततस्त्विति ।। जायादिकामनया यज्ञकरणेन च प्राप्तापूर्णत्वशङ्कानिरासायाऽत्मशब्दं नारायणे निर्वक्ति - आहुरिति ॥तस्मादप्येतर्हिइत्यादिवाक्यं व्याचष्टे - तस्मादिति । नारायणेन कामितत्वादित्यर्थः । एतावन्तं जायादिचतुष्टयम् । नात्र वित्तशब्देन पूर्ववद्भूतादिकं विवक्षितम्। तस्याधुनातनपुरुषाकाम्यत्वादिति भावेनाऽह - दैवमिति । सु सम्यक् खं ज्ञानम् आद्यशब्देन वेदादिशास्त्रम् । यद्वा सुखस्याऽद्यं सुखसाधनं वेदादिशास्त्रमित्यर्थः । मित्राद्यं मित्राद्यशब्देन हिरण्यादिग्रहणम् ।स यावदप्येतेषाम्' इति वाक्यं स इति तच्छब्देनाऽत्मपरामर्श इति भ्रान्तिनिरासाय व्याचष्टेइदानीमपीति । तस्मान्नारायणेन जायादिचतुष्टयस्य कामितत्वादिदानी - मपि यः कश्चिदपि पुरुषः एवमेव नारायणवदेव जायादिचतुष्टयं कामयेत् । तत्र यदि कामितवैकल्यं तदाऽकृत्स्रवानपूर्णो हीत्यर्थः ॥

Load More