तस्मै स्वलोकं भगवान् सभाजितः सन्दर्शयामास
[भेदस्य मोक्षेsपि नियतत्वात् सत्यत्वम् ]
भाष्यम्
‘तस्मै स्वलोकं भगवान् सभाजितः सन्दर्शयामास' ॥ इत्युक्त्वा
'न वर्तते यत्र रजस्तमस्तयोः
सत्त्वं च मिश्रं नच कालविक्रमः ।
न यत्र माया किमुतापरे हरे-
रनुव्रता यत्र सुरासुरार्चिताः ' ॥ इति च भागवते ॥
अदर्शयत् स्वकं लोकं ब्रह्मणे विष्णुरव्ययः ।
यस्मात् पदात् परं नास्ति यत्र मुक्ता उपासते ।। इति हरिवंशेषु ॥ अत: ‘परं न यत्पदम्’ इत्यत्रापि यच्छब्दस्य यस्मादित्यर्थः। ‘यत्तदि-त्यादयः शब्दाः पञ्चम्यर्थाश्व कीर्तिताः' इति च ।
भावबोधटिप्पणी
ननु भेदश्रुतीनामाविद्यकभेदपरत्वान्न तद्विरोधेन 'अहं ब्रह्मास्मि' 'तद्योऽहम्’ इत्यादीनाम् अद्वैतश्रुतीनाम् अन्यार्थता व्याख्येयेत्यतो न भेदस्याऽविद्यकत्वं मुक्तावप्यनुवर्तमानत्वोक्तेरित्याह- तस्मा इति ।। यत्रेत्यस्य मुक्तस्थानपरत्व- प्रदर्शनायोक्त्वेत्यन्तम् उक्तम् । नच समानकर्तृकत्वाभावः । भागवते उक्तत्वादि- त्यध्याहारात् । ‘यत्र’ लोके, सत्वशब्दोऽनेकार्थः क्वचित्प्रकृतिपरिणामविशेषस्य वाचकः ं ‘क्वचित्साधुभावस्य' तत्र सत्वं च न विद्यत इत्युक्ते न ज्ञायते कस्य प्रतिषेध इति । अतस्तयो रजस्तमसोर्मिश्रं सहचरितमित्युक्तम् । रजआदिप्रकरणाद् ज्ञास्यत इति चेत्, श्रुत्यभावे प्रकरणाद्यन्वेषणात् । रजःप्रभृतीनामप्रवृत्तिर्नाम प्रतिबन्धकतया व्यापाराभावः । कालविक्रमः कालसामर्थ्यकृतो भावविकारः । माया प्रकृतिः । अपरे महदादयो न वर्तन्ते इति किमु वक्तव्यं हरेरनुव्रता यत्र वर्तन्ते । असुराः साधवः सन्ति । एवम्भूतं लोकं सन्दर्शयामासेति पूर्वेणान्वयः । अत्र ‘हरेरनुव्रताः' इति जीवेशभेदोक्तिः । ननु ‘तस्मै स्वलोकम्' इत्यस्य यत्परमुत्तमं नेति वाक्यशेषबलेन गौणमोक्षपरत्वप्रतीतेः कथं नु परममुक्तौ भेदसद्भाव इति प्रतिपादनाय तद्वाक्योदाहरणमित्यतः समाख्यारूपप्रमाणमुदाहृत्य वाक्यशेषं व्याचष्टे– अदर्शयदिति ।। हरिवंशेषु उक्तं यत इति शेषः । यदित्यस्य यस्मादित्यर्थत्वे अभिधानं च वक्ति- यत्तदिति ॥ न केवलं प्रथमार्थाः पञ्चम्यर्थाश्च ।