अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति ..
[ प्राणस्य असुरावेशाभाव: ]
अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्य एष प्राण उदगायत् ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति। तदभिद्रुत्य पाप्मनाऽविध्यन्। स यथाऽश्मानमृत्वा लोष्टो विध्वंसेतैवं हैव विध्वंसमाना विश्वञ्चो विनेशुः । ततो देवा अभवन् परासुरा भवत्यात्मना परास्य द्विषन् पाप्मा भ्रातृव्यो भवति। य एवं वेद ॥७॥
भाष्यम्
औद्गात्रेऽग्निमुखाः सर्वे इन्द्ररुद्रौ च वेधितौ ॥
असुरैः पापपूगेन मुख्यवायुं ततोऽब्रुवन् ।
दैत्यास्तं वेद्धुमीप्सन्तो ध्वस्ता नेशुश्च सर्वशः ॥
पांसुपिण्डो यथा वज्रशिलां प्राप्यैव नश्यति ।
तस्मादखण्डशक्तिः स मुख्यवायुरुदाहृतः ॥
शापैरथ वरैर्वापि नास्य प्रतिहतिर्भवेत् ।
स्वेच्छयैवानुसारेण विना कुत्रापि पुत्रक ॥
एवंविदपि पापेभ्यः शत्रुभ्योऽपि प्रमुच्यते ।
भावबोधटिप्पणी
अथ भाष्यार्थः
खण्डपञ्चकगतस्य ‘तमभिद्रुत्य पाप्मनाऽविध्यन्' इति वाक्यपञ्चकस्यार्थमाह-अग्निमुखा इति ।। सर्वे इन्द्रियाभिमानिनः । ननु अग्निनासिक्यवायुदिक्पालादित्य- चन्द्राणामसुरैः पापविद्धत्वेऽपि दिक्पेषु श्रेष्ठस्येन्द्रस्य मनसो मुख्याभिमानिनो रुद्रस्य च न वेध इत्यत आह- इन्द्ररुद्रौ चेति || ' अथ हेममासन्यं प्राणमूचुः' इति वाक्यं व्याचष्टे - मुख्यवायुमिति || ' तमभिद्रुत्य' इत्यादि 'विष्वञ्चो विनेशुः' इत्यन्तं वाक्यं व्याचष्टे - दैत्या इति ॥ नश्यत्येवेति एवशब्दसम्बन्धः। ‘स यथाश्मानम्' इति दृष्टान्तोत्त्या सूचितमर्थमाह- तस्मादिति । असुराणां स्वतो वायुशक्तिखण्डनासामर्थ्येऽपि शङ्करवरादिना तत्स्यादित्यत आह— शापैरिति । तर्हि कथमजगरबन्धनादिना भीमस्य शक्तिविस्रंसनादिदर्शनमित्यत आह-- स्वेच्छयैवेति ॥ ईश्वरसङ्कल्पानुसारेण स्वेच्छयैव शक्तिप्रतिहतिप्रदर्शनं नतु तया विनेत्यर्थः । ‘भवत्यात्मना’ इत्यादि फलवाक्यं तात्पर्यतो व्याचष्टे - एवमिति । किमु देवा इति कैमुत्यार्थो अपिशब्दः । भ्रातृव्य इत्यस्यार्थकथनम् - पापेभ्य इति ।। द्विषन्नित्यस्य– शत्रुभ्य इति ॥