क्षत्रं प्राणो वै क्षत्रं प्राणे हि वै क्षत्रं त्रायते..

बृहदारण्यकोपनिषद्भाष्यम्

अष्टादशं ब्राह्मणम्

क्षत्रं प्राणो वै क्षत्रं प्राणे हि वै क्षत्रं त्रायते हैनं प्राणः क्षणितोः प्र क्षत्रमत्र प्राप्नोति क्षत्रस्य सायुज्यं सलोकतां जयति य एवं वेद ॥

उत्थापनादुक्थनामा मोक्षे प्राप्यो यतोऽखिलैः । यजुश्चाथ क्षतात्त्राणात् क्षत्रं सम्यक्त्वकारणात् ॥ सर्वेषां साम च प्रोक्तो वायुरेव जगत्पतिः ॥ इति च ॥ १३ ॥