ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते

उपनिषत्

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

भाष्यम्

अवतारा महाविष्णोः सर्वे पूर्णाः प्रकीर्तिताः ।

पूर्णं च तत्परं रूपं पूर्णात्पूर्णाः समुद्गताः॥

परावरत्वं तेषां तु व्यक्तिमात्रविशेषतः ।

देशकालसामथ्यैः पारावर्यं कथञ्चन ॥

पूर्वरूपस्य पूर्णस्य पूर्णं यदवतारगम् ।

रूपं तदात्मन्यादाय पूर्णमेवावतिष्ठते ।

लौकिकव्यवहारो यो भूभारक्षपणादिकः ॥

तददृष्टिं विना नान्यो लयः कृष्णादिनां कचित् ।

भावबोधटिप्पणी

चतुर्ष्वध्यायेषूक्तानां विद्यानाम् अखिलाः शेषभूताः सप्तमाष्टमाभ्यां निरू-प्यन्ते । पूर्वंशुक्लस्य नीलस्य' इत्यादिना भगवदवतारा अभिहिता । तत्र मूलरूपस्या-वताररूपस्य च परावरत्वेन पूर्णत्वापूर्णत्वे स्यातामित्याशङ्का पूर्णमद इति प्रथमब्राह्मणेन अपाक्रियते । अप्रतिपत्तिविप्रतिपत्तिनिरासाय तद्ब्राह्मणं प्रमाणेन व्याचष्टेअवतारा इत्यादिना || पूर्णमिदमिति एकस्यैवावतारस्य पूर्णत्वमुच्यत इति शङ्कानिरासाय तस्यार्थमाह- अवतारा इति || पूर्णमद इत्यस्यार्थमाह- पूर्णं चेति ॥ परं मूलरूपमित्यर्थः । पूर्णात्पूर्णमुदच्यत इत्यस्यार्थमाह- पूर्णादिति ।। ननु मूलरूपस्य परत्वेन अवताररूपस्यावरत्वेन देशकालसामर्थ्येर्विशेषावगमात् कथमुभयोः पूर्णत्वमित्यत आह- परावरत्वमिति । पूर्वमेवाभिव्यक्तत्वान्मूलरूपं परमित्युच्यते । अनन्तरमभिव्यक्तत्वादवताररूपमवरमित्युच्यत इत्यर्थः । मात्रपद- व्यवच्छेद्यमाहनेति ॥ पूर्णस्य पूर्णमादायेति वाक्यं व्याचष्टेपूर्वेति ॥ अवतारत्वेन गम्यत इत्यवतारगम् । ननु ब्रह्मादीनां स्वात्मन्यादानवत् स्वावताररूपादानस्यापि देहलयरूपत्वे कथं तस्य पूर्णत्वं स्यादित्यत आह- लौकिकेति ॥ लोकविषय इत्यर्थः । तददृष्टिं भूभारक्षपणादिव्यवहारदृष्टिं कृष्णादिनां कृष्णादीनां, ह्रस्वः छान्दसः । एतेनअदः परोक्षं निरुपाधिकं ब्रह्म पूर्णं इदं नामरूपोपाधिविशिष्टमपि स्वरूपेण पूर्णं नतु विशिष्टरूपेण तदिदं विशिष्टरूपं पूर्णात्कारणात्मनः सकाशात् पूर्णमेवोदच्यते उद्गच्छति पूर्णात्मभावस्य त्यागायोगात् पूर्णस्य कार्यात्मनो ब्रह्मणः पूर्णं पूर्णत्वमेकरसत्वलक्षणमादाय विद्यया आविद्यकोपाधिसंसर्गतिरस्कारपूर्वकं पूर्णमेव निरन्तरप्रज्ञानघनैकरसस्वभावं केवलं ब्रह्मावशिष्यते' इति परकीयव्याख्यान- मपास्तम् । विशिष्टाविशिष्टब्रह्मसद्भावे मानाभावात् उदाहृतप्रमाणविरोधाच्च ।।

Load More