अथातः पवमानानामेवाभ्यारोहः स वै खलु ..

[" तमसो मा ज्योतिर्गमयइति मन्त्रार्थः ]

उपनिषत्

अथातः पवमानानामेवाभ्यारोहः स वै खलु प्रस्तोता साम प्रस्तौति स यत्र प्रस्तूयात् तदेतानि जपेदसतो मा सद्गमय तमसो मा ज्योतिर्गमय मृत्योर्माऽमृतं गमयेति स यदाहासतो मा सद्गमयेति मृत्युर्वा असत्सदमृतं मृत्योर्माऽमृतं गमयामृतं मां कुर्वित्येवैतदाह तमसो मा ज्योतिर्गमयेति मृत्युर्वै तमो ज्योतिरमृतं मृत्योर्माऽमृतं गमयामृतं मां कुर्वित्येवैतदाह ॥ २८ ॥

मृत्योर्मामृतं गमयेति नात्र तिरोहितमिवास्त्यथ यानीतराणि स्तोत्राणि तेष्वात्मनेऽन्नाद्यमागायेत् तस्मादु तेषु वरं वृणीत यं कामं कामयेत तं स एष एवं विदुद्गाताऽऽत्मने वा यजमानाय वा यं कामं कामयते तमागायति तद्धैतल्लोकजिदेव न हैवालोक्यताया आशास्ति य एवमेतत्साम वेद ॥ २९ ॥

इत्युद्गीथब्राह्मणम् ॥ ३-३

भाष्यम्

पवमाना इति प्रोक्ता मुख्यवायुत्वयोगिनः ॥

अनादिकालसम्बद्धा योग्यता सा प्रकीर्तिता ।

सर्वाधिक्यारोहणं तु तेषामेव विमुक्तिगम् ॥

प्रस्तावकाले प्रस्तोतुं योग्यो वायुपदस्य यः ।

जपेद् यजूंषि त्वेतानि त्रीणि विष्णुं सदा स्मरन् ॥

असतो मा सदित्यादि विष्णुप्रार्थनभाञ्जि च ।

भावबोधटिप्पणी

अथ भाष्यार्थः

ननु वायोरेकत्वात्पवमानानामित्युक्तिः कथमित्यत आह- पवमाना इतीति ॥ योगिनो योग्याः । योग्यता च नाऽगन्तुकेत्याइ - अनादीति || इदानीम्अथातःइत्येतद् व्याचष्टे - सर्वेति । विमुक्तिगमित्यनेनाथेत्युक्ततात्पर्यम् । ' स वै खलु प्रस्तोता ' इत्यादि जपेदित्यन्तं वाक्यं व्याचष्टे - प्रस्तावेति || प्रस्तावकाले जपेदिति सम्बन्धः | योग्य इत्यस्य पूर्वेणोत्तरेण च सम्बन्धः । य इति श्रवणात् स इति लभ्यते । तुशब्द एवार्थे स्मरन्नेवेति सम्बन्धः

Load More