विष्णोरेव स्वरूपाणां तद्गुणानां तथैव च
[विशेषसमर्थनम् ]
भाष्यम्
विष्णोरेव स्वरूपाणां तद्गुणानां तथैव च ॥
तस्यैव शिरआदीनां नैव भेदोऽस्ति कश्चन ।
अभेदेऽपि विशेषेण व्यवहारः पृथग्भवेत् ॥
विष्णोर्जडेन जीवैश्च भेद एव श्रिया तथा ।
विष्णोः क्रियाश्च याः काश्चिदभेदस्तैरपि ध्रुवः ॥
भावबोधटिप्पणी
विशेषादित्युक्तमेव व्यवहारान्यथानुपपत्तिरूपप्रमाणं दर्शयति- विष्णोरेवेति ।। विष्णोरिति पञ्चम्यन्तं षष्ठ्यन्तं च । स्वरूपाणां मत्स्यादीनाम् । त्रयाणामेव शब्दानां स्वरूपाणामेव तद्गुणानामेव शिरआदीनामेवेति सम्बन्धः । तथाशब्द- स्समुच्चये | चशब्दः परस्परं चेत्यनुक्तसमुच्चये । कश्चन अभेदसहितस्तदसहितो वा । किं तत इत्यत आह- अभेदेऽपीति । पृथग् व्यवहारः भेदव्यवहारः। विष्ण्वंशानां तद्गुणानां तदवयवानां च विष्णुना परस्परं च नास्ति भेदः । ‘नेह नानाऽस्ति किञ्चन' इति श्रुतेः । अस्ति च भेदकार्यभूतो व्यवहारः। ‘अवतारा महाविष्णोः’, 'आनन्दं ब्रह्मणो विद्वान्' 'तस्य प्रियमेव शिरः ' इत्यादिः । अतस्तदुभयान्यथानुपपत्त्या भेदप्रतिनिधिरूपो विशेषः स्वीकार्य इति भावः । स्वरूपाणामेवेत्याद्येवकारव्यावर्त्यं दर्शयति- विष्णोरिति ॥ यद्वा, यदि विष्णोस्तत्स्वरूपादिभिरभेदमङ्गीकृत्य भेदव्यवहारो विशेषबला- दुपपादनीयस्तर्हि विष्णोर्जडजीवादिभिरप्यभेदमङ्गीकृत्य तत्रापि भेदव्यवहारो विशेषबलादेव कुतो नोपपादनीय इत्यत आह- विष्णोरिति ॥ श्रियो दुःखस्पृष्टत्वलक्षणजीवत्वाभावात्पृथग्ग्रहणम् । नह्यस्माभिः अकस्माद् विशेषोऽ- ङ्गीक्रियते । किन्तु भेदाभावेऽनुपचरितभेदव्यवहारे च प्रमिते सति । नच विष्णोर्जडजीवादिभिर्भेदाभावः प्रमितः । तत्वमसीत्यादिवाक्यानां सम्यग् व्याख्यातत्वात् । प्रत्युत प्रागुदाहृतप्रमाणैर्भेद एव प्रमितः । तथाच साक्षाद्भेदेनैव भेदव्यवहारोपपत्तौ भेदहीनेऽनुपचरितभेदव्यवहारनियामको विशेषो नाङ्गीकार्य इति भावः । व्यवहारान्तरान्यथानुपपत्तिमपि विशेषे प्रमाणमाह - विष्णोः क्रिया इति ॥ तैस्ताभिः । अभेदेऽपि विशेषेणेत्येतदत्रापि सम्बद्ध्यते ॥