एतद्वै परमं तपो यद् व्याधितस्तप्यते परमं..

बृहदारण्यकोपनिषद्भाष्यम्

त्रयोदशं ब्राह्मणम्

एतद्वै परमं तपो यद् व्याधितस्तप्यते परमं हैव स लोकं जयति य एवं वेदैतद्वै परमं तपो यं प्रेतमरण्यं हरन्ति परमं हैव स लोकं जयति य एवं वेदैतद्वै परमं तपो यं प्रेतमग्नावभ्यादधति परमं हैव स लोकं जयति य एवं वेद ॥

॥ इति बृहदारण्यकोपनिषदि सप्तमाध्याये त्रयोदशं ब्राह्मणम् ॥ ८ ॥

॥ इति बृहद्भाष्ये सप्तमाध्याये त्रयोदशं ब्राह्मणम् ॥

व्याधीञ्छवहृतिं चैव शवदाहादिकं तथा । विष्णवे तप इत्येव चिन्तयन् याति तत्परम् ॥ इति च ॥

ओशितोऽपि क्लेशादीनतीतैष्यानपीह यः । विष्णवे तप इत्येव प्रार्पयेत् स परं व्रजेत् ॥ विष्णोः स्वरूपवेत्ता चेदन्यथा न कथञ्चन । यथा स्वरूपवेत्तुः स्यादेकैकापि ह्युपासना ॥ मोक्षाय सहिताः सर्वा अप्यज्ञस्य न तु क्वचित् । यथावत् केशवं ज्ञात्वा स्वयोग्यैकामुपासनाम् ॥ अपि कृत्वा हरिं दृष्ट्वा मुच्यते नात्र संशयः ॥ इति ब्रह्मतर्के ।