स वा एष महान आत्माऽन्नादो वसुदानो विन्दते वसु य एवं वेद

[ तत्त्वज्ञानेन सम्पत्, विपत्परिहारश्च]

उपनिषत्

स वा एष महान आत्माऽन्नादो वसुदानो विन्दते वसु य एवं वेद ।। २५ ।। स वा एष महानज आत्मा-रोSमरोSमृतोऽभयो ब्रह्माभयं वै ब्रह्माभयं हि वै ब्रह्म भवति य एवं वेद ॥ २६ ॥ इति शारीरब्रह्मणम् ॥ ४ ॥

भाष्यम्

न मरिष्यतीति ह्यमरो न मृतो यत् ततोऽमृतः ।

ब्रह्मायमाप्तकामत्वादेवं यो वेद तं परम् ।

आप्तकामोऽभयश्चैव भवेद् विष्णोरनुग्रहात् ॥ इति च ॥

परमार्थेऽविचिकित्सा ब्रह्मणो भवतीति नित्यमेव तथा भवतीत्यर्थः ।

अभूद्भविष्यति भवत्येवमाद्यपदानि तु ।

नित्यभावाभिधायीनि यत्र वाच्या हरेर्गुणाः ॥ इति शब्दनिर्णये ॥ इति शारीरब्राह्मणम् ॥ ४ ॥

भावबोधटिप्पणी

अमरोऽमृत इत्यनयोः पुनरुक्तिपरिहारायार्थमाह- नेति । अत्र ब्रह्मत्वं नाम यदि पूर्णगुणत्वं तदा ब्रह्मलोक इत्युक्तब्रह्मशब्देन पुनरुक्तिः स्यादित्यत आहब्रह्मायमिति || अभयं हि वै ब्रह्म भवति य एवं वेदेति फलवाक्यं व्याचष्टे - एवमिति ॥ ज्ञानिनः सन्देहो नास्तीत्युक्तं तत्र विशेषमाह - परमार्थे भगवतीति । ब्राह्मणो भवतीति वर्तमानप्रयोगेण भगवतोऽतीत- भविष्यत्कालयोर्वेदप्राप्यत्वं नास्तीति प्रतीतिं निवारयन्नाह - ब्राह्मण इति ॥ यद्वा ननु विपापो विरजो विचिकित्सो ब्राह्मणो भवतीत्यत्र भवतीति वर्तमानप्रयोगेण विपापत्वादीनां वर्तमानत्वमेव प्रतीयते । अतः कथं नित्यं हि पापरागादेर्मुक्त इत्यादिव्याख्यानमित्यत आह- परमार्थ इति ।अविचिकित्सो ब्राह्मणो भवतीति वर्तमानप्रयोगस्य नित्यमेव तथा भवतीत्यर्थः । कुतः । नहि घटो भवतीत्युक्ते नित्यमेव तथा भवतीत्यर्थः प्रतीयत इत्यत उक्तम् ।। परमार्थ इति ।। विषयसप्तमीयम् । विपापत्वादिकं खलु ब्रह्मणो विशेषणमुच्यते । तस्य च यदि भवतीत्यनेन वर्तमानमेवोच्यते तदा तद्भगवद्विशेषणपरं न स्यात् । तथात्वे भगवत इतरसाधारण्यापत्त्या उत्तमार्थत्वाभावप्रसङ्गात् । अतः परमार्थे भगवति विषये अविचिकित्सो ब्राह्मणो भवतीत्यस्य नित्यमेव तथा भवतीत्यर्थो वक्तव्य इति भावः । अत्र यद्यपि विपापो विरजोऽविचिकित्सो ब्राह्मणो भवतीत्यनुवादो युक्तः । तथापि लाघवादविचिकित्सो ब्राह्मणो भवतीत्युक्तम् । नचैवं ब्राह्मणो भवतीत्येव वक्तव्यमिति वाच्यम् । तथा सति भवतीत्यस्य तत्रैवान्वयप्रतीतिप्रसङ्गादिति । भगवति प्रतिपाद्ये भवतीत्यस्य नित्यभावनाभिधायकत्वं कुत इत्यतस्तत्र प्रमाणमाह- अभूदिति ॥ २४ ॥

खण्डार्थः

स पूर्वोक्तः अयं प्रसिद्धः आत्मा मुच्यमानो जीवः यत्र यदा बल्यं सर्वेषां बलकारिणं विष्णुं न्येत्य नितरामेत्य प्राप्य मृतेः पूर्वं सम्मोहमिव विमुग्धत्वमेव न्येति प्राप्नोति । मृतेः पूर्वं विमुग्धत्वं प्राप्य यदा विष्णुं प्राप्नोतीति यावत् । अथ तदा एनं बल्यं विष्णुं एते प्राणाः स्वस्वलोकस्थास्तेजःस्वरूपिणो देवाः अभिसमयन्ति स चक्षुःस्थो विष्णुः तेजोमात्रास्तेजःस्वरूपभूताः एता देवताः समभ्याददानश्चक्षुःस्थानाद्धृदयमेवान्ववक्रामति गच्छति तदनन्तरं भाव्यवस्थामाहस इति । स एष चाक्षुषो दक्षिणाक्षिस्थः पुरुषः पूर्णषड्गुणो भगवान् पराक्स्थितो बहिर्व्यापारं कुर्वन् स्थितो यत्र यदा प्रत्यक् पर्यावर्तते अन्तरा गच्छति हृदयं प्रति गच्छतीति यावत् अथ तदा विष्ण्वाश्रितो जीवोऽरूपज्ञो भवति रूपाज्ञो भवति तदा न किञ्चिज्जानातीत्यर्थः ॥ १ ॥

ननु भगवतो हृदयं प्रति गमने जीवः किमपि न जानातीति कुत इत्यत आहएकीभवतीति ।। जीवेश्वरौ विशेषेण हृदयस्थौ तयोरंशास्तु चक्षुरादिषु स्थिताः तदा च यदा चक्षुःस्थः परमात्मांशो जीवांशश्च हृदयस्थेन परमात्मरूपेण जीवरूपेण च एकीभवति तदाऽयं जीवो न पश्यति इत्याहुर्विद्वांसः एवं यदा घ्राणादिस्थः परमात्मांशो जीवांशश्च हृदयस्थेन परमात्मरूपेण जीवरूपेण चैकीभवति तदा जीवो न जिघ्रतीत्याद्याहुरिति योज्यम् । तदुत्तरभाविनीमवस्थामाहतस्य हेति ।। तस्य परमात्मानं प्राप्तस्य एतस्य किञ्चिदप्यजानतो मुच्यमानजीवस्य यद्धृदयं तस्याग्रं विष्णोः स्वरूपभूततेजसा प्रद्योत प्रज्वलति । तेन प्रद्योतेन प्रकाशितद्वारेण एष आत्मा विष्णुः जीवमादाय शरीरान्निष्क्रामति । केन द्वारेणेत्याशङ्कायामाहचक्षुष इति ॥ यद्विमुच्यमानो जीवः आदित्यलोके चिरं रत्वा मुक्तिगमनयोग्यः तर्हि जीवमादाय चक्षुष एवं आदित्याभिमतचक्षुद्वरिणैव एष आत्मा निष्क्रामतीति सम्बन्धः । यदि मुच्यमानो विष्णुलोक एव ब्रह्मलोक एव वा रमणयोग्यस्तर्हि तमादाय मूर्ध्न एव निष्क्रामति । यदि श्रोत्राद्यभिमानिदेवलोके चिरं रत्वा मुक्तिगमनयोग्यस्तर्हि तमादायान्येभ्यः शरीरदेशेभ्य एव तत्तद्देवताभिमतशरीरावयवेभ्यः श्रोत्रादिभ्य एव निष्क्रामति । एवमुत्क्रामन्तं विष्णुं अनु अनुसृत्य प्राणो मुख्यप्राणः उत्क्रामति । एवमुत्क्रामन्तं प्राणमनुसृत्य सर्वे प्राणाः शरीरस्थाः देवा अनूत्क्रामन्ति । उत्क्रमणकाले परमात्मा कथं गच्छतीत्यत आह- स विज्ञान इति । स विष्णुः सविज्ञानो विज्ञानेन जीवेन सहितो भवति । ननु पूर्वमेव जीवसाहित्यसद्भावात्किमिदानीं जीवसाहितद्यमुच्यत इत्यतस्तदेव विशदयति-- स इति । स भगवान्विष्णुः विज्ञानं जीवमेव आरुह्य अन्ववक्रामति गच्छतीत्यर्थः । एवं तं जीवमारुह्य गच्छन्तं भगवन्तं अनु अनुसृत्य विद्याकर्मणी विद्यकर्माभिमानिनौ समन्वारभेते गच्छतः । न केवलमेतावत् किन्तु पूर्वप्रज्ञा च योग्यताभिमानिनी च गच्छतीत्यर्थः । अत्र विद्याभिमानिनौ ब्रह्मवायू कर्माभिमानी गरुडः योग्यताभिमानिनी रमेति ज्ञेयम् ।। २ ।।

तेनैष निष्क्रामतीत्युक्तं निष्क्रमणं विविच्य दर्शयति- तद्यथेति ।। तत् निदर्शनं यथा तृणजलूका तृणस्यान्तमवसानं गत्वा अन्यमाक्रमं आक्रम्यत इत्याक्रमोऽवष्टम्भस्तमाक्रमं तृणान्तरं आक्रम्य प्राप्य आत्मानं पूर्वतृणात् उपसंहरत्यादत्ते पूर्वतृणं परित्यजतीति यावत् । एवमेवायमात्मा विद्यादानेन अविद्यां गमयित्वा इदं शरीरं निहत्य परित्यज्य अन्यमाक्रमं जीवस्य सूक्ष्मं रूपं आक्रम्य प्राप्य आत्मानं जीवस्य स्थूलदेहात् उपसंहरति आदत्ते । स्थूलदेहं परित्यजतीति यावत् ॥ ३ ॥

ननु परमात्मा मुक्त्ययोग्येभ्योऽपि मुक्तिं प्रयच्छति किं नेति सदृष्टान्तमाह- ar || तद् यथा वक्ष्यमाणनिदर्शनं यथा पेशस्कारी स्वर्णकारः पेशसः सुवर्णस्य मात्रामंशमुपादाय अन्यत् अन्यदिव नवतरं प्रागननुभूतत्वात् कल्याणतरं मलापकर्षणात् रूपरुचकादिकं तनुते करोति एवमेवायमात्मा परमात्मा जीवस्य स्वर्णमलस्थानीयमिदं शरीरं निहत्य अविद्यां गमयित्वाऽन्यदिव नंवतरं प्रागननुभूतत्वात् कल्याणतरं रूपं तत्तद्योग्यं कुरुते । तदेवाह—– पित्र्यमिति । पितृजीवस्य पित्र्यमेव रूपं गन्धर्वजीवस्य गान्धर्वमेव रूपं देवजीवस्य दैवमेव रूपं प्रजापतेः रुद्रस्य प्राजापत्यं रूपं ब्रह्मणश्चतुर्मुखस्य ब्राह्ममेव रूपं अन्येषां भूतानां मनुष्योत्तमादीनां तत्तद्योग्यमेव रूपं करोतीति प्रत्येकं सम्बन्धः । अत्र सुवर्णस्यैव यथा रुचकादिभावः सुवर्णकारेण क्रियते न यस्य कस्यचिद्द्रव्यस्य तथा मुक्तियोग्यानामेवेश्वरेण मुक्तत्वं क्रियते नान्येषामित्युच्यते ।। ४ ॥

एवं मोक्षदस्य परमात्मनो महिमानमाह - स वा इति || मुक्तप्राप्यत्वेन प्रकृतः परमात्मा स दूरस्थो वा अयं समीपस्थः आत्मा व्याप्तः ब्रह्म गुणपरिपूर्णं विज्ञानमय इत्यादौ तेजोमय इत्यादिवत् अविज्ञानमय इत्याद्यपि ग्राह्यम् । विज्ञानमयः पूर्णविज्ञानस्वरूपः प्राचुर्यस्य स्वरूपत्वस्य च मयडर्थत्वात् । अविज्ञानमयः यस्य बुद्धिर्बुद्धितत्त्वात्मिका न भवति मनोमयः सर्वमन्तृस्वरूपः यस्य मनो मनस्तत्त्वात्मकं न भवति सोऽमनोमयः प्राणमयः पूर्णबलस्वरूप: यस्य प्राण अहङ्कारकार्यप्राणतत्त्वात्मको न भवति सोऽप्राणमयः चक्षुर्मयः सर्वद्रष्टृस्वरूपः यस्य चक्षुश्चक्षुस्तत्त्वात्मकं न भवति सोऽचक्षुर्मयः श्रोत्रमयः सर्वश्रोतृस्वरूपः यस्य श्रोत्रं श्रोत्रतत्त्वात्मकं न भवति सोऽश्रोत्रमयः पृथिवीमयः पृथिवीवत्सर्वाधारः सुगन्धस्वरूपो वा यस्य गन्धः पार्थिवो न भवति सोऽपृथिवीमयः आपोमयः सर्वतृप्तिकरः यस्य तृप्तिरवात्मिका भवति सोऽनापोमयः वायुमयः सर्वकर्तृत्वस्वरूपः यस्य बलं वाय्वात्मकं न भवति सोऽवायुमयः आकाशमयः अवकाशप्रदातृस्वरूपः यस्याकाश आकाशतत्त्वात्मको न भवति सोऽनाकाशमयः तेजोमयः पूर्णतेजःस्वरूपः अतेजोमयः यस्य तेजो नाग्नेयं भवति काममयः सृष्ट्यादीच्छास्वरूपः अकाममयः प्राकृतेच्छाशून्यः क्रोधमयः सर्वदुष्टप्रतीपस्वरूपः अक्रोधमयः जीवक्रोधसदृशक्रोधशून्यः धर्ममयः आनन्दादिधर्मस्वरूपः अधर्ममयः प्राकृतसुखादिधर्मशून्यः सर्वमयः प्रकृत्यादिसर्वप्रधानः सर्वगुणस्वरूपश्च प्रकृत्यादिसर्वात्मको न भवतीति वा यस्य गुणाः सर्वविलक्षणा इति वा असर्वमयः तत् अतीतवर्तमानकालयोरेकप्रकारं यद् ब्रह्माण्डाच्छरीराद्वहिरन्तश्च एकप्रकारं एतद् वर्तमानभविष्यकालयोः एकप्रकारं इदंमयो वर्तमानजगत्प्रधानः वर्तमानस्वरूपश्च अदोमय अतीतानागतजगत्प्रधानः अतीतानागतस्वरूपश्च । यदर्थं महिमोक्तिस्तदाह- इतीति ॥ इति एवं महिमविशिटो यतः अतः भगवान्यथाकारी जीवं यथा करोति यथाचारी आचारयति तथा भवति जीवः तदेव विवृणोति- साधुकरीति । यदि स भगवान्साधुकारी जीवं साधुं करोति तदा स जीवः साधुर्भवति पापकारी यदि जीवं पापं करोति तदा स पापो भवतीत्यर्थः । परमात्मापि स्वतो साधुं साधुं करोति स्वतो पापं पापं करोति किन्नेत्याह- पुण्य इति || ईश्वरप्रेरितेन पुण्येन जीवः पुण्यो भवति । तत्प्रेरितेन पापेन पापो भवति । यद्वा ईश्वर एव जीवं साधुं पापं च यदि करोति तर्हि कृतं पुण्यपापाभ्यामित्यत आह- पुण्य इति ।। ईश्वराधीनत्वं जीवस्य वृद्धसम्मत्या द्रढयतिअथो इति ।। अथो तस्मादेव जीवस्य ईश्वराधीनत्वादेव खलु अयं पुरुषो जीवः काममयो विष्णोरिच्छाधीन इत्याहुर्विद्वांसः । कुतः स भगवान्यथाकामो भवति । तत्क्रतुस्तत्कामो जीवो भवति । यत्क्रतुर्यन्निष्ठावान् जीवो भवति तत्तादृशं कर्म कुरुते । यादृशं कर्म कुरुते तादृशं फलं प्राप्नोति । अतः परमात्मेच्छाधीनो जीव इत्यर्थः ।। ५ ॥

निष्ठानुसारेण कर्म कुरुते कर्मानुसारेण फलं प्राप्नोतीत्युक्तार्थे मन्त्रोऽस्तीत्याह- तदेष इति ।। तत्तत्रोक्तार्थे एष वक्ष्यमाणः श्लोको भवति । तदुपादत्ते- तदेवेति । अस्य शरीरिणः लिङ्गं शरीरं मनश्च यत्र यस्मिन्फले निषक्तं नितरां सक्तं तत्र फले सक्तः पुरुषः तदेव फलं तत्साधनीभूतस्वकृतकर्मणा सह एति । अयं पुरुषः इह लोके यत्किञ्चित्कर्म करोति तस्य कर्मणः अन्तमवसानं प्राप्य तस्माल्लोकात्कर्मफलभूतात्स्वर्गादः पुनरस्मै लोकाय एति आगच्छति किमर्थं कर्मणे कर्मकर्तुरिति । मुक्तामुक्तयोरुभयोरपि प्रकृतत्वात्को वा अत्र प्रतिपाद्य इत्यतो ब्राह्मणं स्वयमाह - इति नु कामयमान इति । निरूपित इति शेषः । एवं संसारिस्वरूपं निरूप्य मुक्तस्वरूपमाह - अथेति । अथशब्दः संसारिप्रकरणविच्छेदार्थः । योऽकामः अकारवाच्यविष्णुकामः निष्कामः अयोग्यकामरहितः योग्यकामस्यापि न सर्वस्य सर्वदा समुद्भूतिः किन्तु कस्यचित्कदाचिदेव । सा योग्यकामस्य कादाचित्कसमुद्भूतिरपि भगवत्कामानां विना नेत्यकामयमानः आप्ताः कामाः काम्या येनासावाप्तकामः । आत्मैव कामः काम्यश्चिदानन्दात्मकत्वादित्यात्मकामो मुक्तः । तस्य प्राणा मुक्त्यनन्तरं पुनः नोत्क्रामन्ति । ननु जीवभावपरित्यागेन मुक्तस्य परब्रह्मवदेव स्वातन्त्र्यप्राप्तौ कथमुक्तमकामत्वादिकं तदपरित्यागेऽपि मुक्तस्यान्यदा प्राणानामुत्क्रान्त्यभावेऽपि महाप्रलये स्यादित्यत आह- ब्रह्मैवेति ।। स मुक्तो ब्रह्मैव सन्जीव एव सन् जीवभावमविहायैव परं ब्रह्माप्येति प्रतिप्रलये परं ब्रह्माप्नोतीत्यर्थः ॥ ६ ॥

न तस्य प्राणा उत्क्रामन्तीत्युक्ते मुक्तस्य मरणाभावे ब्रह्माप्येतीत्युक्तब्रह्मप्राप्तौ च प्रमाणमाह- तदेष इति || मन्त्रं पठति यदेति । अस्य जीवस्य ये हृदि श्रिताः अन्तःकरणस्थाः कामाः ते सर्वे यदा प्रमुच्यन्ते तदा मुक्तो भवति । अनेन मुक्तस्याकामत्वनिष्कामत्वादिकं कुत इत्यत्र हेतुरुक्तो भवति । अथ मुक्त्यनन्तरं मर्त्यः पूर्वं मरणशीलः मुक्त्यनन्तरममृतो भवति । कदाचिदस्य मृतिर्न भवतीत्यर्थः । अत्र मुक्तौ प्रलये वा ब्रह्म सम प्राप्नोति । ननु न तस्य प्राणा उत्क्रामन्तीति मुक्तस्य मरणाभाव उक्तः स न युक्तः । तथात्वे ईश्वरान्मुक्तस्य विशेषाभावापत्तेरिति चेन्न मुक्तस्य पूर्वं शरीरिण एव सतः शरीरत्यागानन्तरमेवाशरीरत्वं परमात्मनस्तु सर्वदा अशरीरत्वमिति वैलक्षण्यादिति भावेनाह - तद्यथेति । तत् निदर्शनं यथा अहिः सर्पो निलीयतेऽस्यामिति अहिनिलयनी सर्पत्वक् वल्मीके प्रत्यस्ता प्रक्षिप्ता मृता सर्पेण त्यक्ता शयीत एवमेवेदं शरीरं जीवेन परित्यक्तं शेते । अथ शरीरत्यागरूपमुक्त्यनन्तरमेव अयं जीवः अशरीरो भवति । प्राण अमृतः कदापि न मृतः । कः प्राण इत्यत आह- ब्रह्मैवेति ।। न केवलं प्राणाख्यं परं ब्रह्मैव नित्यमुक्तं किन्तु श्रीरपीत्याह - तेज इति ॥ तेजः श्रीरेवामृतं कदापि न मृतमित्यर्थः । एवं श्रुतो राजा गुरुदक्षिणां प्रतिजज्ञे इत्याह- सोऽहमिति ॥ ७ ॥

भगवान्मोक्षदातेत्याद्युक्तार्थे मन्त्राः सन्तीत्याह - तदेत इति । तत् तत्र पूर्वोक्तार्थे एते वक्ष्यमाणाः श्लोकाः प्रमाणत्वेन भवन्ति । तानुपादत्ते- अणुरित्यादिना || अणुर्विततो व्याप्तः पन्थाः सुखहेतुप्राप्तिमान् पुराणोऽनादिः मां श्रियं श्रिया स्पृष्टः मयैव श्रियैवानुवित्तो ज्ञातः ऊर्ध्वः सर्वविशिष्टो भगवान् यः तेन तत्प्रसादेन धीरा ब्रह्मविदः इतः संसाराद् विमुक्ताः स्वर्गं स्वरूपभूतरमणज्ञानात्मकं लोकं वैकुण्ठादिकमपि यन्ति प्राप्नुवन्तीत्यर्थः ।। ८ ।।

ननु भगवज्ज्ञानाद्रमाज्ञानान्निवृत्तकर्मानुष्ठानाच्च मोक्षो भविष्यति तत्र का भगवत्प्रसादस्यापेक्षा अतः कथं भगवतो निरुक्तपथित्वमित्यतः शुक्लस्य नीलस्येत्युक्तार्थे मन्त्रं वदन्नाह - तस्मिन्निति ।। तस्मिन् हरौ शुक्लं वासुदेवाख्यं नीलमनिरुद्धाख्यं पिङ्गलं सङ्कर्षणाख्यं हरितं प्रद्युम्नाख्यं लोहितं नारायणाख्यमिति पञ्चरूपाणि सन्तीत्याहुः । एष पञ्चरूपो भगवान् पन्था ब्रह्मणा चतुर्मुखेनाऽनुवित्तो ज्ञातः । हेतिप्रमाणसिद्धिमाह । किं प्रकृत इत्यतः पथित्वमेव दर्शयति-तेनेति || ब्रह्मवित् परब्रह्मज्ञानी तैजसः महातेजोभूतश्रीस्वरूपज्ञानी पुण्यकृद् भगवत्कर्मकर्तापि तेनैव भगवता तत्प्रसादेनैव स्वर्गं लोकमित्युक्तां गतिमेति यस्मात् तस्माद्भगवान्पन्था इत्यर्थः || ||

एवं यथावत्परमात्मादिज्ञानं भगवत्प्रसादद्वारा मोक्षसाधनमित्युक्तं न केवलमेतावत् किन्नामान्यथाज्ञानिनिन्दासमुचितमेवेति भावेन यथावज्ज्ञानस्येवान्यथा- ज्ञाननिन्दाया अप्यावश्यकत्वोपपादनायान्यथाज्ञानाऽनिन्दनस्यान्यथाज्ञानापेक्षया- धिक्येनानर्थसाधनत्वं मन्त्रेणाह - अन्धन्तम इति ।। ये अविद्यां विरुद्धविद्यां मिथ्याज्ञानं तद्विषयमन्यथाकारं ब्रह्मनिर्गुणत्वादिकमुपासते ते अन्धन्तमः प्रविशन्ति । ये विद्यायां यथार्थज्ञान एव रताः नत्वन्यथाज्ञाननिन्दां कुर्वन्ति ते ततोऽन्यथोपासकाद्भूय एव किञ्चिद् विशेषेण तमः प्रविशन्तीत्यर्थः ।। १० ॥

ननु भगवज्ज्ञानं कदा सम्पादनीयमिति चेत् सम्यग्ज्ञानिन्युपदेष्टर सत्येव अन्यथा अनर्थसद्भावादिति भावेन तत्र मन्त्रमाह- अनन्दा इति ॥ यद्वा न केवलमन्यथाज्ञानिनस्तदनिन्दकस्य च तमःप्राप्तिः । किन्तु गुरूपदेशोल्लङ्घिनश्च अतो भगवदुपदेष्टरि सति भगवत्स्वरूपं ज्ञातव्यमेवेति भावेन तत्र मन्त्रमाह- अनन्दा इति ।। बुधः बोधयतीति भुत् ज्ञानी तस्मात् ज्ञानिनः ये भगवत्स्वरूपमविद्वांसो जनाः ते प्रेत्य अन्धयतीत्यन्धेन तमसा वृता: अनन्दाः सुखविरुद्धदुःखरूपाः ते प्रसिद्धा ये लोकाः तानभिगच्छन्तीत्यर्थः ॥ ११॥

येऽविद्यामुपासते इत्यन्यथोपासकस्य तमःप्राप्तिरित्युकतं तत्र कोऽयमन्यथाकारो यदुपासकस्य तमःप्राप्तिरिति चेज्जीवेश्वराभेद एवान्यथाकारः तत्पक्षे दोषसद्भावादिति भावेन तत्पक्षे दोषमाहआत्मानमिति । चेद् यदि पुरुषो जीवः अयं परमात्मा अहमस्मीति परमात्मानं विजानीयात् विज्ञातुं योग्यः स्यात् तर्हि किमिच्छन् तस्यैव विवरणं कस्य कस्मै कामायेति कथमिति यावत् शरीरं शरीरेच्छादिकमनुसञ्ज्चरेत् दुःखी भवेदित्यर्थः । यदि जीवः स्वस्य परमात्मत्वानुसन्धानयोग्यः स्यात्तर्हि दुःखी न स्यात् परमात्मनो दुःखाभावादिति भावः ॥ १२ ॥

भगवज्ज्ञानं मोक्षसाधनमित्यत्र मन्त्रान्तरं पठति -- यस्येति ।। हि यस्मात्स आत्मा सर्वस्य कर्ता तस्माद् विश्वकृद् वायोरपि कर्ता अस्मिन्सन्दोहे देहे विद्यमानं यद्गहनं हृद्गुहास्थानं तस्मिन्प्रविष्टः प्रतिबुद्धः सर्वज्ञस्स आत्मा यस्य येनोपासकेनानुवित्तो ज्ञातः तस्योपासकस्य उ एकः प्रधानः स एव लोको भवति स कः यो लोकः परमात्मन इति शेषः ॥ १३ ॥

सद्गुरूपदेशेनैव ज्ञानं सम्पादनीयं तदुल्लङ्घने चानर्थहेतुरितीममर्थं मन्त्रान्तरेण द्रढयति - इहेति ।। बुध इत्युक्तो ज्ञानी इहेति परामृश्यते इह ज्ञानिबोधके विद्यमान एव सन्तः सज्जना वयं तत् ब्रह्म विद्मः जानीमः । वेदपुरुषवचनमेतत् । कालान्तरे सम्पादयिष्ये ब्रह्मज्ञानं इति वदन्तं प्रत्याह- नेति ।। तस्मिन्बोधके सत्यपि चेद् यदि नावेदी: परं ब्रह्म न जानीयाः तर्हि महती विनष्टिः । सद्गुरूपदेशजज्ञानस्य किं फलमित्यत आह- य एतदिति । एतत्परं ब्रह्म सद्गुरूपदेशेनेति शेषः । न चेदवेदीर्महती विनष्टिरित्युक्तमेव विवृणोति - अथेतरे इति ॥ गुरूपदेशोल्लमि इत्यर्थः । दुःखमेव अन्धन्तम इत्यर्थः || १४ ।।

ज्ञानमाहात्म्यप्रतिपादकमन्त्रमाह- यदेति ।। ये भूतभव्यस्येशानं देवं क्रीडादिगुणमेनमात्मानं यदाऽअसा अनुपश्यन्ति ततस्तदनन्तरम् । न विजुगुप्सते भयाभावादात्मानं गोप्तुं नेच्छति । यथोक्तंयः पश्येत्स भयाभावा- न्नात्मानं गोप्तुमिच्छति' इति ( ईश. ६) || १५ ॥

तद् यदेतदिदंमयमित्यत्र तदेतच्छब्दाभ्यामुक्ते विष्णोर्भूतभविष्यतद्वर्तमान- कालेष्वेकप्रकारत्वे अमृतः प्राण इत्युक्तामृतत्वे च मन्त्रं पठति - यस्मादिति ॥ अहोभिः सह संवत्सरो यस्मादर्वाक् परिवर्तते यस्मिन्स्वव्यापरं कर्तुमसमर्थ इति यावत् तज्योतिषां ज्योतिः ज्योतिष्ट्वट्प्रदं आयुरचलममृतं नित्यमुक्तं देवा उपासते हेति प्रसिद्धिमाह ।। १६ ।।

ब्रह्मज्ञानस्यैव मोक्षसाधनत्वे मन्त्रान्तरं पठति - यस्मिन्निति । यस्मिन्पञ्च पञ्च जनाः प्रतिपुरुषं पञ्चजनाः प्रतिष्ठिताः आकाशो मूलप्रकृतिश्च प्रतिष्ठितः तमेवात्मानं मन्ये विजानीयां किं तज्ज्ञानेनेत्यत आह- अमृतमिति ॥ अमृतं नित्यमुक्तं ब्रह्म विद्वानमृतो मुक्तो भवतीति ॥ १७ ॥

आत्मनि प्रतिष्ठिताः पञ्च जनाः क इति चेत् ज्योतिषां ज्योतिरिति ज्योतिर्नियामकत्वोक्त्या पञ्चानां मध्ये ज्योतिरेकमुक्तमेव इतरे प्राणादय एवेति भावेन भूतलादेर्घटाद्याधारवत् न पञ्चजनाधारत्वं परमात्मनः किन्तु तन्नियामकत्वेनेति वदन् तथा परमात्मज्ञानिनः फलमाह - प्राणस्येति । प्राणं प्राणत्वप्रदं निचिक्युः प्राप्तवन्तः ॥ १८ ॥

ननु मोक्षसाधनं ब्रह्मापरोक्षज्ञानं केन करणेन सम्पादनीयमित्यत आह- मनसैवेति || शुक्लस्य नीलस्य इत्यादिना बहुरूपत्वोत्त्या रूपाणां परस्परं मूलरूपेण च स वा अयमात्मा ब्रह्म विज्ञानमय इत्यादिना गुणानामुक्त्या गुणानां परस्परं गुणिना च भेदः प्राप्तः । तन्निराचष्टेनेहेति ।। इह ब्रह्मणि किञ्चन रूपगुणादि नाना भिन्नं नास्तीत्यर्थः । कुतो नास्तीति चेत् यतो भेदाभेददर्शिनोऽप्यनर्थसद्भावः किमु भेदमात्रदर्शिन इति भावेन भेदाभेददर्शिनोऽनर्थं प्रमाणेनाह - मृत्योरिति । य इह ब्रह्मणि रूपं गुणादिकं नानेव भिन्नाभिन्नं पश्यति स मृत्योर्मृत्युमन्धन्तमः प्राप्नोतीत्यर्थः ।। १९ ।।

तर्हि कथं भगवान् ज्ञातव्य इत्यत आह- एकधैवेति । यस्माद्भेदज्ञानेऽनर्थसद्भावः तस्मादप्रमेयं परिमितिरहितं ध्रुवं नित्यमेतद् ब्रह्मैकप्रकारेणैव द्रष्टव्यमित्यर्थः । परमात्मापरोक्षज्ञाने मनः करणमित्युक्तं न तावन्मात्रेण तद्भवति किन्तु श्रवणादिसाधनादपीति भावेन साधनान्तरमाह - विरज इति ॥ धीरो मनोधैर्यवान् ब्राह्मणो ब्रह्माणनयोग्यो विरजो निर्दोषः आकाशान्मूलप्रकृतेः पर उत्तमः केनापि प्रकारेण न जायत इत्यजः महान् परिमाणतः ध्रुवो नित्यः तमेव आत्मानमेव परोक्षतो विज्ञाय प्रज्ञामपरोक्षज्ञानं कुर्वीत सम्पादयेदित्यर्थः । तमेव विज्ञायेति परमात्मन एव वेदादिना विज्ञेयत्वमुक्तं तद्व्यावर्त्यमाहनेति ।। शब्दान् वेदादिरूपान् बहून् मुखतो हरहिरण्य- गर्भादिरूपत्रह्वर्थप्रतिपादकान् नानुध्यायेत् नानुचिन्तयेत् । कुतः तद्बह्वर्थ-प्रतिपादकवेदाध्ययनादिकं बाचो वागिन्द्रियस्य विग्लापनं श्रमकरमित्यर्थः । इतिशब्दः श्लोकसमाप्तिद्योतकः ।। २० २१ ॥

नन्विदं प्रकरणं चतुर्मुखपरमेवेति प्रतीयते । अज आत्मा महानित्यजादिशब्द- श्रवणात् । तेषां च विष्णुजातत्वयोगेन आत्मा विरिञ्चः सुमहानित्याभिधानेन महत्तत्त्वाभिमानित्वेन च तत्र सम्भवादित्यत आह- स वा एष इति । एष मन्त्रोक्तो महानज आत्मा स वै स एव । स क इत्यतो योऽयं विज्ञानमयः पुरुषः प्राणेषु हृद्यन्तर्ज्योतिरित्युक्त एवेति भावेन तद्वाक्य- मर्थतोऽनुवदति - योऽयमिति ॥ योऽयं विज्ञानपूर्णः प्राणेषु शे तिष्ठति य एष प्रसिद्धः अन्तर्हृदये हृदयान्तर्वर्तमान आकाशस्तस्मिन् शेते इत्युक्तस्स एवेत्यर्थः । पूर्वोक्तश्च भगवानेवेति भावः । ननु यदुक्तं भगवज्ज्ञानमेव मोक्षसाधनमिति । तन्न । वेदाध्ययनयज्ञदानतपआदीनामपि मोक्षसाधनत्व- श्रवणादित्यतो न तेषां साक्षान्मोक्षसाधनत्वं किन्तु तत्साधनब्रह्मज्ञानसाधनत्वमेवेति भावेन यन्महिमविशिष्टभगवज्ज्ञानं मोक्षसाधनं तदुक्तिपूर्वकं वेदानुवचनादे- र्ब्रह्मज्ञानसाधनत्वमाहसर्वस्येत्यादिना || अत्र सर्वत्र यच्छब्दोऽनुवर्तनीयः । तस्य मे तमिति तच्छब्देनान्वयः । यद्वा स वा एष महानजः इत्यादिकमसम्भेदायेत्यन्तं मोक्षसाधनज्ञानविषयभगवन्माहात्म्यप्रतिपादकमेव । एवं सति प्रथमवाक्ये यच्छब्दोऽनुकर्षणीयः । तथाचायमर्थः । यः स वै मुक्तनियामकत्वेनोक्तः एष महानज आत्मा यचायं प्रसिद्धो विज्ञानपूर्णः प्राणेषु य एषोऽन्तर्हृदये हृदयस्यान्तराकाशस्तस्मिंश्च शेते यश्च सर्वं स्ववशे वर्तत इति सर्वस्य वशी सर्वस्येशस्य ब्रह्मरुद्रादेरनश्चेष्ट इति सर्वस्येशानः सर्वस्य ब्रह्मरुद्रादेः सकाशादधि अधिको गुणैः सर्वस्य पतिः पालकचेति सर्वस्याधिपतिः यश्च स प्रसिद्धः जीववत्साधुना कर्मणा तत्फलेन सुखेन भूयान् न भवति नित्याभिपूर्णत्वात् असाधुना कर्मणा तत्फलेन दुःखेन कनीयान्नो एव भवति तदभोक्तृत्वात् यश्चैषः प्रसिद्धः सर्वेश्वरः सर्वेश्वरत्वं न सादि किन्तु यश्चैष भूत एवाधिपतिर्नास्याधिपत्यमादिमदिति भूताधिपतिः यश्चैष भूत एव पाल: पालकः यश्चैष एषां लोकानां असम्भेदायासाङ्कर्याय एषां लोकानां विधरणः विधारणसमर्थः न केवलं सामर्थ्यमात्रं किन्तु एषां लोकानां सेतुराश्रयश्च तमेतमुक्तगुणवन्तं भगवन्तं ब्राह्मणाः ब्रह्माणनयोग्याः वेदानुवचनेन वेदाध्ययनेन यज्ञेन दानेन तपसा कायक्लेशात्मकेन अनाशकेनानशनव्रतेन विविदिषन्ति वेत्तुमिच्छन्तीति । अनाशकेन शरीरनाशाकरणेन तपसेति विशेषणविशेष्यभावो वा । अश्वेन जिगमिषतीत्यत्र यथाश्वस्य धात्वर्थगमनसाधनत्वमेव नत्विच्छासाधनत्वं एवमत्रापि यज्ञादेर्धात्वर्थवेदनसाधनत्वमेवोच्यत इत्यवगन्तव्यम् । वेदनेन किं स्यादित्यत आह- एतमेवेति । एतं पूर्वोक्तं महिमानं परमात्मानमेव विदित्वा मुनिर्ज्ञानस्वरूपो मुक्तो भवतीति यावत् । किञ्चैनं भगवन्तमेव लोकमाश्रयं इच्छन्तः प्रार्थयन्तः प्रव्राजिनः प्रव्रजनशीलाः प्रव्रजन्ति निषिद्धकाम्यकर्मत्यागलक्षणसन्यासं स्वीकुर्वन्ति । यद्वा लोकमाश्रयमिच्छन्तः प्रव्रजनशीलाः एतमेव प्रतिप्रव्रजन्ति गच्छन्ति । श्रुतिः स्वोक्तार्थे पूर्वाचारं प्रमाणयति-एतदिति । तदेतद् भगवानेवाश्रय इति प्रमेयं विद्वांसः पूर्वेऽपि प्रजा उपलक्षणमेतत् निषिद्धं वस्तु न कामयन्ते ह स्म वा इति निपातत्रयं सुप्रसिद्धिद्योतकं प्रजाद्यकामने कारणं निरूपयति- किमिति ॥ येषां नोऽस्माकमयं पूर्वोक्तमहिमविशिष्टो भगवानात्मा स्वामी अयं लोक आश्रयश्च ते वयं किं प्रजया करिष्याम इति भावेन प्रजां न कामयन्त इति सम्बन्धः । तर्हि ते किं कृतवन्त इत्यत आह- ते हीति ।। व्याख्यातमेतत् । यज्ज्ञानादेषणात्रयव्युत्थानलक्षणो मोक्षो यस्माच्चानन्दादिभिक्षा तस्य महिमानमाह - स एष इत्यादिना || महिमान्तरमाह - एतमिति || अहं पापमकर्वं कृतवानिति अहं कल्याणमकरवं कृतवानिति एते भावने एतमु भगवन्तमेव नैव तरतो नैव व्याप्नुतो न जीवमपि जीवं तु व्याप्नुत एव । जीवं किं स्वातन्त्र्येण व्याप्नुते नेत्याह- अतः पापमिति || एवेत्यनुवर्तते । अहं पापमकरवमिति यच्चिन्तनं जीवस्य तदत एव परमेश्वरादेव कल्याणमंकरवमिति यच्चिन्तनं जीवस्य तदप्यत एवेत्यर्थः । ननु परमात्मा पुण्यपापप्राप्तावपि तादृशीं भावनां करोति किन्नेत्याह- उभे इति ॥ एष परमात्मैव एते पुण्यपापे तरति नित्यतीर्णो वर्तते । ननु भगवतः पुण्यपापतरणं न तावदनाश्रयत्वं सर्वाश्रयत्वात् नापि तदननुभवः सर्वज्ञत्वात् अतः किं तत्तरणं नामेत्यत आह- नैनमिति ।। कृताकृते नित्यकर्मानुष्ठानानुष्ठाननिमित्तकपुण्यपापे । एनं भगवन्तं न तपतः तत्कृतनीचोञ्चत्वादिलक्षणविकारो नास्तीत्यर्थः ।। २२ ।।

उक्तार्थे प्रमाणमप्यस्तीत्याह - तदेतदिति । ब्रह्मणा वेदेन गम्यत इति ब्राह्मणो विष्णुः तस्यैष पूर्वोक्तो महिमा नित्यः कुतः शुभकर्मणा न वर्धते पापकर्मणा नो कनीयान् । अस्त्वेवं भगवत्स्वरूपं किं मया कार्यमित्यतः तज्ज्ञानं सम्पादनीयमित्याह - तस्यैवेति । तस्य नित्यमहिम्नः कर्मफलशून्यस्य विष्णोरेव पदवित् स्वरूपज्ञानी स्यात् । किं तज्ज्ञानेनेत्यत आह- तं विदित्वेति ॥ इतिशब्द ऋक्समाप्तिद्योतकः ।। २३ ।।

एवं भगवज्ज्ञानस्य मोक्षसाधनत्वात् तत्कामोऽन्योपि तज्ज्ञानं सम्पादयेदित्याह- तस्मादिति ।। तस्माद्भगवज्ज्ञानस्य मोक्षसाधनत्वात् एवंविद् भगवज्ज्ञानं मोक्षसाधनमिति ज्ञानवान् शान्तो भगवन्निष्ठो दान्तो निगृहीतमदः उपरत उप समीपे बर्तमाने स्वहृदिस्थे विष्णौ रमतीत्युपरतः तितिक्षुः द्वन्द्वं सहिष्णुः समाहितो यथावस्तुज्ञानी भूत्वाऽऽत्मन्येव स्वस्मिन्नेव विद्यमानमात्मानं पश्यति पश्येत् । केन प्रकारेणेत्यत आह- सर्वमिति ॥ आत्मानं सर्वं पूर्णं पश्यति पश्येदित्यर्थः । यद्वा न केवलं श्रवणमननादिरूपपरोक्षज्ञानमेवापरोक्ष- ज्ञानसाधनं किन्तु शान्त्यादिसहितमितिवज्ज्ञानस्य मोक्षसाधनत्वे ज्ञानिनामाचारं प्रमाणयतितस्मादिति || भगवज्ज्ञानिनः फलमाह - नैनमिति । एनं ज्ञानिनं पाप्मा न तरति न प्राप्नोति । किन्त्वयमेव सर्वं पाप्मानं तरतीति । नैनं पाप्मा तरतीत्युक्तं विवृणोति - नैनं पाप्मा तपतीति ।। सर्वं पाप्मानं तरतीत्युक्तं विवृणोति - सर्वं पाप्मानं तपतीति ॥ एवं नैवं रजस्तरति सर्वं रजस्तरति नैनं विचिकित्सा तरति सर्वां विचिकित्सां तरतीत्यपि ग्राह्यम् । एवं ज्ञानिनः पापरागसन्देहाभावा अभिहिताः । तत्कुत इत्यतस्तदुपास्यस्य पालकः यश्चैष एषां लोकानां असम्भेदायासार्याय एषां लोकानां विधरणः विधारणसमर्थः न केवलं सामर्थ्यमात्रं किन्तु एषां लोकानां सेतुराश्रयश्च तमेतमुक्तगुणवन्तं भगवन्तं ब्राह्मणाः ब्रह्माणनयोग्याः वेदानुवचनेन वेदाध्ययनेन यज्ञेन दानेन तपसा कायक्लेशात्मकेन अनाशकेनानशनव्रतेन विविदिषन्ति वेत्तुमिच्छन्तीति । अनाशकेन शरीरनाशाकरणेन तपसेति विशेषणविशेष्यभावो वा । अश्वेन जिगमिषतीत्यत्र यथाश्वस्य धात्वर्थगमनसाधनत्वमेव नत्विच्छासाधनत्वं एवमत्रापि यज्ञादेर्धात्वर्थवेदनसाधनत्वमेवोच्यत इत्यवगन्तव्यम् । वेदनेन किं स्यादित्यत आह- एतमेवेति । एतं पूर्वोक्तं महिमानं परमात्मानमेव विदित्वा मुनिर्ज्ञानस्वरूपो मुक्तो भवतीति यावत् । किञ्चैनं भगवन्तमेव लोकमाश्रयं 1. इच्छन्तः प्रार्थयन्तः प्रव्राजिनः प्रव्रजनशीलाः प्रव्रजन्ति निषिद्धकाम्यकर्मत्यागलक्षणसन्यासं स्वीकुर्वन्ति । यद्वा लोकमाश्रयमिच्छन्तः प्रव्रजनशीलाः एतमेव प्रतिप्रव्रजन्ति गच्छन्ति । श्रुतिः स्वोक्तार्थे पूर्वाचारं प्रमाणयति- एतदिति ।। तदेतद् भगवानेवाश्रय इति प्रमेयं विद्वांसः पूर्वेऽपि प्रजा उपलक्षणमेतत् निषिद्धं वस्तु न कामयन्ते ह स्म वा इति निपातत्रयं सुप्रसिद्धिद्योतकं प्रजाद्यकामने कारणं निरूपयति- किमिति ।। येषां नोऽस्माकमयं पूर्वोक्तमहिमविशिष्टो भगवानात्मा स्वामी अयं लोक आश्रयश्च ते वयं किं प्रजया करिष्याम इति भावेन प्रजां न कामयन्त इति सम्बन्धः । तर्हिते किं कृतवन्त इत्यत आह- ते हीति ।। व्याख्यातमेतत् । यज्ज्ञानादेषणात्रयव्युत्थानलक्षणो मोक्षो यस्माच्चानन्दादिभिक्षा तस्य महिमानमाह - स एष इत्यादिना || महिमान्तरमाह - एतमिति ॥ अहं पापमकरवं कृतवानिति अहं कल्याणमकरवं कृतवानिति एते भावने एतमु भगवन्तमेव नैव तरतो नैव व्याप्नुतो न जीवमपि जीवं तु व्याप्नुत एव । जीवं किं स्वातन्त्र्येण व्याप्नुते नेत्याह- अतः पापमिति । एवेत्यनुवर्तते अहं पापमकरवमिति यच्चिन्तनं जीवस्य तदत एव परमेश्वरादेव कल्याणमकरवमिति यच्चिन्तनं जीवस्य तदप्यत एवेत्यर्थः । ननु परमात्मा पुण्यपापप्राप्तावपि तादृश भावनां करोति किन्नेत्याह- उभे इति । एष परमात्मैव एते पुण्यपापे तरति नित्यतीर्णो वर्तते । ननु भगवतः पुण्यपापतरणं न तावदनाश्रयत्वं सर्वाश्रयत्वात् नापि तदननुभवः सर्वज्ञत्वात् अतः किं तत्तरणं नामेत्यत आह- नैनमिति ॥ कृताकृते नित्यकर्मानुष्ठानानुष्ठाननिमित्तकपुण्यपापे । एनं भगवन्तं न तपतः तत्कृतनीचोच्चत्वादिलक्षणविकारो नास्तीत्यर्थः ।। २२ ।। उक्तार्थे प्रमाणमप्यस्तीत्याह - तदेतदिति । ब्रह्मणा वेदेन गम्यत इति ब्राह्मणो विष्णुः तस्यैष पूर्वोक्तो महिमा नित्यः कुतः शुभकर्मणा न वर्धते पापकर्मणा नो कनीयान् । अस्त्वेवं भगवत्स्वरूपं किं मया कार्यमित्यतः तज्ज्ञानं सम्पादनीयमित्याह - तस्यैवेति ।। तस्य नित्यमहिम्नः कर्मफलशून्यस्य विष्णोरेव पदवित् स्वरूपज्ञानी स्यात् । किं तज्ज्ञानेनेत्यत आहतं विदित्वेति ॥ इतिशब्द ऋक्समाप्तिद्योतकः ॥ २३ ॥

एवं भगवज्ज्ञानस्य मोक्षसाधनत्वात् तत्कामोऽन्योपि तज्ज्ञानं सम्पादयेदित्याहतस्मादिति । तस्माद्भगवज्ज्ञानस्य मोक्षसाधनत्वात् एवंविद् भगवज्ज्ञानं मोक्षसाधनमिति ज्ञानवान् शान्तो भगवन्निष्ठो दान्तो निगृहीतमदः उपरत उप समीपे वर्तमाने स्वहृदिस्थे विष्णौ रमतीत्युपरतः तितिक्षुः द्वन्द्वं सहिष्णुः समाहितो यथावस्तुज्ञानी भूत्वाऽऽत्मन्येव स्वस्मिन्नेव विद्यमानमात्मानं पश्यति पश्येत् । केन प्रकारेणेत्यत आह- सर्वमिति ॥ आत्मानं सर्वं पूर्णं पश्यति पश्येदित्यर्थः । यद्वा न केवलं श्रवणमननादिरूपपरोक्षज्ञानमेवापरोक्ष- ज्ञानसाधनं किन्तु शान्त्यादिसहितमितिवज्ज्ञानस्य मोक्षसाधनत्वे ज्ञानिनामाचारं प्रमाणयति - तस्मादिति || भगवज्ज्ञानिनः फलमाह - नैनमिति । एनं ज्ञानिनं पाप्मा न तरति न प्राप्नोति । किन्त्वयमेव सर्वं पाप्मानं तरतीति । नैनं पाप्मा तरतीत्युक्तं विवृणोति - नैनं पाप्मा तपतीति । सर्वं पाप्मानं तरतीत्युक्तं विवृणोति - सर्वं पाप्मानं तपतीति । एवं नैवं रजस्तरति सर्वं रजस्तरति नैनं विचिकित्सा तरति सर्वां विचिकित्सां तरतीत्यपि ग्राह्यम् । एवं ज्ञानिनः पापरागसन्देहाभावा अभिहिताः । तत्कुत इत्यतस्तदुपास्यस्य भगवतो नित्यं पापरागसन्देहशून्यत्वादित्याह - विपाप इति ॥ विष्णुर्नित्यं विपापो विरजोऽविचिकित्सो ब्रह्मणा वेदेन गम्यत इति ब्राह्मणो भवति यतः अतस्तज्ज्ञान्यपि तादृश इत्यर्थः । हे सम्राट् एष परमात्मा ब्रह्मलोकः पूर्णज्ञानस्वरूप इति होवाच याज्ञवल्क्यः । एवं श्रुतभगवत्तत्त्वो राजा गुरुदक्षिणां प्रतिजज्ञे इत्याह- सोऽहमिति ।। भगवते पूज्याय ते विदेहानपि मयानुभूयमनानपि विदेहदेशान् दास्याय मां च मयापि सह दास्यामीत्यर्थः ।। २४ ॥

विद्यान्तरमुपदिशति - स वा इति ॥ अन्नमत्तीत्यन्नादः वसु दैवमानुषात्मकं ददातीति वसुदानः । तज्ज्ञानिनः फलमाह - विन्दत इति || २५ ||

विद्यान्तरमाह्स वा इति ।। अजरो जराशून्यः न मरिष्यतीत्यमरः न मृत इत्यमृतः अभयो भयशून्यः ब्रह्माप्तकामः । ब्रह्मणोऽभयत्वं कुत इत्यतस्तदेतदमृतमभयमेतत् ब्रह्मेति श्रुतिप्रसिद्धमित्याह- अभयं वै ब्रह्मेति ॥ तज्ज्ञानिनः फलमाहअभयं हीति ॥ य एवं वेद तस्य ब्रह्माऽभयं भवति भयराहित्याय भवतीत्यर्थः । यद्वा य एवं वेद सोऽभयं भयरहितः ब्रह्माप्तकामो भवतीति प्रसिद्धमित्यर्थः ।। २६ || इति शारीरब्राह्मणम् ॥ ४ ||