आपो वा अर्कस्तद् यदपांशर आसीत्तत्समहन्यत ..

उपनिषत्

[ब्रह्माण्डसृष्टिः, तत्र श्रीहरेः शयनम् ]

आपो वा अर्कस्तद् यदपांशर आसीत्तत्समहन्यत सा पृथिव्यभवत्तस्यामश्राम्यत्तस्य श्रान्तस्य तप्तस्य तेजो रसो निरवर्ततानिः ॥ २ ॥

भाष्यम्

अर्कशब्दस्याऽदित्ये प्रसिद्धत्वादपशब्दोऽपि तत्रेत्याशङ्कां निवर्तयितुमापो वा अर्क इति पुनर्वचनम् । नादित्येऽर्कशब्दः ॥ किन्त्वप्स्वेवार्कशब्द इत्यर्थः । शरो मण्डः ।

फेनरूपस्तु यो मण्डो जलस्यासौ सुसंहतः ।

पृथिवीत्वं समापन्नस्तस्यां शिश्ये जनार्दनः ।।

ततः स चिन्तयामास स्यादग्निरिति वेदराट्

तच्चिन्तनात्समुत्पन्नो वायुरग्यभिधामवान् ॥

अग्रजत्वादग्रणीत्वाद्वायोरग्नित्वमिष्यते ।। इति प्रवृत्ते ॥

शक्तिविस्रंसने चापि शयने चापि कीर्तितः ।

श्रमशब्दो हरेर्नैव शक्तिविस्रंसनं कचित् ॥

अतो हरेः श्रमो नाम शयनं सम्प्रकीर्तितम् ॥ इति ब्रह्मतर्के ॥

भावबोधटिप्पणी

अथ भाष्यार्थः

आपो वार्कः इति वाक्यं परैः 'कः पुनरसावर्कः इति उच्यते । आपो या अर्चनाङ्गभूतास्ता एवाग्नेरर्कत्वस्य हेतुत्वाद् इति व्याख्यातम्' तदसत् । पूर्वखण्ड एवापामर्कत्वस्योक्तत्वेन कः पुनरसाविति प्रश्नस्यैवायोगात् । नहि सिद्धेऽर्थे प्रश्नः सम्भवतीत्याशयवान् पुनर्वचनप्रयोजनमाह - अर्कशब्दस्येति || तदेवार्कस्यार्कत्वं इत्युत्तरवाक्यगतार्कशब्दस्याऽदित्ये प्रसिद्धत्वात् ' तस्यार्चत आपः' इति पूर्ववाक्यगतापशब्दोऽपि तत्राऽदित्य एव वर्तत इत्यङ्गीकर्तव्यम् ।तस्यार्चत आपोऽजायन्तइत्युक्तं 'अर्चतो वै मे कमभूत्' इत्यनूद्य तदेवा- कस्यार्कत्वमित्युक्तत्वेन पूर्वोत्तरवाक्यगता शब्दार्कशब्दयोरेकविषयत्वावगमात् । तथाचाऽदित्यस्यैवात्र सृष्टिरुच्यत इति शङ्कां निवर्तयितुमिति भावः । पुनर्वचनेन साशङ्काकथं निवृत्तेत्यत आह- नेति ॥ अप्स्वेवेत्यनेन वा इत्येतदवधारणार्थत्वेन व्याख्यातम् । बाणाद्यर्थत्वप्रतीतेः शरशब्दार्थमाह- शर इति । मण्डो घनीभूत इत्यर्थः । कुतः शरशब्दः मण्डार्थ इत्याशङ्कां परिहरन् 'तद् यदपां शर आसीत् तत् समहन्यत, सा पृथिव्यभवद्' इति वाक्यं प्रमाणेन व्याचष्टे - फेनरूपस्त्विति ।। सुसंहतः मृत्युना स्वरेतसा सङ्घातत्वं प्रापित इत्यर्थः । पृथिवीत्वं ब्रह्माण्डरूपत्वम् । 'अप एव ससर्जाsदौ तासु वीर्यमवा-स् - सुजत् । तदण्डमभवद्धैमम्' इत्यन्यत्रोक्तत्वात् । तस्यामश्राभ्यत् इत्येतत्परैः तस्यां पृथिव्यामुत्पादितायां स मृत्युः प्रजापतिः अश्राम्यत् श्रमयुक्तो बभूव । सर्वो हि लोकः कार्यं कृत्वा श्राम्यति । प्रजापतेस्तन्महत्कार्यं यत्पृथिवीसर्ग इति व्याख्यातं तदसत् । मृत्युशब्दस्य परमात्मपरत्वेन व्याख्यातत्वात् । परमात्मनश्च श्रमाभावात् । नच लोकदृष्टिविरोधः । तस्याशक्तविषयत्वादित्याशय-वांस्तद्वाक्यं व्याचष्टेतस्यामिति । श्रुतौ तस्य तप्तस्येत्यनुवादान्यथानुपपत्त्या तस्यामश्राम्यदित्यनन्तरं अध्याहार्यमाह - तत इति । वाय्वादिदेवतोत्पादकत्वे हेतुर्देवराडिति ।तस्य श्रान्तस्य तप्तस्य तेजो रसो निरवर्तताग्निः' इति वाक्यार्थमाह- तच्चिन्तनादिति ।। नन्वनिः स्यादिति चिन्तनाद् वायुः कथमुत्पन्न इत्यत आह- अग्नीति || कथं वायुरग्निशब्दाभिधेय इत्यत आह- अग्रजत्वादिति ॥ ननु शक्तिविस्रंसनवाचित्वेनैव श्रमशब्दस्य प्रसिद्धेः कथं तस्यां शिश्य इति शयनार्थतया व्याख्यानमित्यत आहशक्तीति ॥ चशब्दौ परस्परसमुच्चये । तर्ह्यभयार्थत्वे श्रमशब्दस्य कथं शयनार्थतया व्याख्यानमित्याशङ्कयाह - हरेरिति || यद्यपि शक्तिविस्रंसने शयने च श्रमशब्दः कीर्तितः तथाऽपि हरेः शक्तिविस्रंसनाभावाच्छ्रमो नाम शयनमेवेत्यभिप्रायेणोपसंहरति- अत इति ॥

Load More