एकमेवाद्वितीयम्’ ‘नेह नानास्ति किञ्चन

[एकमेवाद्वितीयमित्यादिश्रुतयः नाभेदपराः]

भाष्यम्

'एकमेवाद्वितीयम्’ ‘नेह नानास्ति किञ्चन' 'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति' 'एकधैवानुद्रष्टव्यमेतदप्रमयं ध्रुवम् । मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति । एकधैवानुद्रष्टव्यं नेह नानास्ति किञ्चन । मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति ॥

यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।

एवं धर्मान् पृथक्पश्यंस्तानेवानुविधावति । इत्यादि च ॥

इहेति परमेश्वररूपेषु अवयवेषु धर्मेषु च किञ्चन नाना नास्तीत्यर्थः ।एकमेवाद्वितीयमिति तत्समोऽधिको वा तदनधीनो वा नास्तीति सतात्पर्यं 'निषिध्यते । यथैकमुत्तमं पुरुषमपेक्ष्य तस्मिन् पुरे एक एव नान्योऽस्तीत्युक्तेऽपि तत्सदृशस्त- दधिको वाऽन्यो नास्तीत्युक्तं भवति ।

'एक एवाद्वितीयोऽसौ तदतन्त्रस्य वर्जनात् ।

तत्समस्याधिकस्यापि ह्यभावात्पुरुषोत्तमः । इति ब्राह्मे ॥

स्वगतभेदाविवक्षायामिहेति विशेषणं व्यर्थं स्यात् । नानेवेति भेदाभेदनिराकर- णार्थम्।विरुद्धोभयसंयोग इव शब्दः प्रदिश्यते' इति शब्दतत्त्वे । पर्वतेषु दुर्गे पर्वताग्रेवृष्टयथाऽधो विधावति एवं पृथग् दृष्टान् धर्मानन्वेव तदनन्तरमेवाधोऽन्धे तमसि विधावति ।

भेदेन दर्शनाद्वाऽपि भेदाभेदेन दर्शनात् ।

विष्णोर्गुणानां रूपाणां तदङ्गानां मुखादिनाम् ॥

तथा दर्शनकालात्तु क्षिप्रमेव तमो व्रजेत् ॥ इति ब्रह्माण्डे ॥

'जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः' 'द्वा सुपर्णा सयुजा सखाया' 'यो वेद निहितं गुहायां परमे व्योमन् ' ' सोऽश्नुते सर्वान् त्कामान् सह ब्रह्मणा विपश्चिता' इति 'एतमानन्दमयमात्मानमुपसङ्क्रम्य

इमांल्लोकान्कामान्नी कामरूप्यनुसञ्चरन् ' 'अथात आनन्दस्य मीमांसा भवति' इत्यारभ्य मानुषादिब्रह्मान्तानां मुक्तानामानन्दे शतगुणविशेषश्चोच्यते ।

भावबोधटिप्पणी

यदुक्तं जीवात्मैक्यस्याप्रामाणिकत्वात् 'ब्रह्म वा इदमग्र आसीत्’ ‘तदात्मान- मेवावेत्इत्यादेरैक्यपरतया व्याख्यानमयुक्तमिति तन्न । एकमेवेत्यादिश्रुते - र्विद्यमानत्वाद् इत्यत आह- एकमेवेति ॥ 'एकमेवाद्वितीयम्' इति छान्दोग्यवाक्यम्। नेह नानेत्यारभ्य ध्रुवमित्यन्तमेतदुपनिषद्गतम् ।मृत्योः स मृत्युम्' इत्यादि काठकवाक्यम् । तत्र 'एकधैवानुद्रष्टव्यम्' इत्येत- न्माध्यन्दिनशाखागतम् । 'मृत्योः स मृत्युम्' इत्यादिशाखान्तरगतं वा । इत्यादि च न जीवब्रह्मैक्ये मानमिति शेष: । नन्विह ब्रह्मणि किञ्चन किञ्चिदपि नाना भेदः परमार्थतो नास्तीति सर्वभेदप्रपञ्चनिषेधः श्रूयते । अतः कथं जीवब्रह्मैक्ये इयं श्रुतिर्न मानम् इत्यतस्तद्वाक्यं यथावद् व्याचष्टेइहेति ॥ इहेत्यस्य वाक्यस्य इत्यर्थ इति सम्बन्धः । निर्धारणसप्तमी । किञ्चन रूपावयवधर्मादिकं नाना भिन्नं ब्रह्मणि नानावयवगुणकर्मादिनिषेधेन नानात्वमेव निषिद्धं भवति । स विशेषणे हि ' इति न्यायात् । उभयनिषेधे गौरवात् । विशेषणस्य प्रथमप्राप्तत्वात् । अन्यथा तदुपादानवैयर्थ्यात् । 'न जीर्णमलवद्वासाः स्नातकः स्याद्' इत्यादेर्दर्शनाच्चेति भावः । ननु 'एकमेवाद्वितीयम्इत्यत्र सजातीयविजातीयस्वगतभेदनिषेधः प्रतीयते । यथोक्तंवृक्षस्य स्वगतो भेदः पत्रपुष्पफलादिभिः। वृक्षान्तरात्सजातीयो विजातीयः शिलादितः । तथा सद्वस्तुनो भेदत्रयं प्राप्तं निवार्यते । ऐक्यावधारणद्वैतप्रतिषेधैस्त्रिभिः क्रमात् ।।' इति । तथाच कथमिदं नैक्ये मानम् इत्यतस्तदनूद्य व्याचष्टेएकमेवेति ॥ एकमेवेत्युक्तसर्वोत्तमत्वमुख्यत्वलक्षणस्वतन्त्रत्वरूपार्थद्वयो- पपादकत्वेन अद्वितीयशब्दस्य अर्थद्वयकथनमित्येदिति ज्ञेयम् ।। सतात्पर्य- मिति ।। सदेव सोम्येदमग्र आसीत् । एकमेवाद्वितीयं ब्रह्म । 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' इति छान्दोग्ये च अभ्यासात्  एक एवाद्वितीयोऽसाविति वक्ष्यमाणसमाख्यानाच्च । अभ्यासादेश्च तात्पर्यलिङ्गत्वादिति भावः । कुतः श्रुतेरेवमर्थत्वमिति चेत् । सदृष्टान्तं स्मृतौ तथा व्याख्यातत्वादित्याहएक एवेति ।। वाशब्दः उपमायाम् । दृष्टान्तवाक्यत्रयेऽपि योजनीयः । लौकिकप्रयोगाच्चोक्तार्थत्वं श्रुतेरित्याह- यथेति । द्वितीयपुरुषाभावाभिप्रायेण प्रयुक्तैवंविधवाक्यस्यैतदर्थत्वालाभाद् उक्तमेकमुत्तममिति । अत्राद्वितीय इति वक्तव्ये नान्योऽस्तीतीत्युक्तेऽपीत्युक्त्या एवं स्पष्टप्रयोगेऽपि तात्पर्यलिङ्गबलाद् उक्तार्थत्वमवसीयते किमु अद्वितीय इति साधारणशब्दप्रयोगे इति कैमुत्यं सूचितम् । सतात्पर्यमित्युक्ततात्पर्यनिश्चायकसमाख्यामाह - एक एवेति ॥ कुतो नेह नानेति श्रुतेरुक्तार्थत्वम् ? नानात्वमात्रनिषेध एवार्थः किं न स्यादित्यत आह- स्वगतेति ॥ परमेश्वररूपावयवधर्मप्रतियोगिकपरमेश्वरधर्मिकेत्यर्थः । 'नानात्वमात्रनिषेधविवक्षायां चेत्यपि ग्राह्यम् । सर्वात्मनाऽविद्यमानार्थ- निषेधेऽधिकरणविशेषोक्तिर्व्यर्था । नहि भूतले शशविषाणं नास्तीति निषिध्यत इति भावः । उपलक्षणं चैतत् । भावप्रधानत्वकल्पना चेत्यपि ग्राह्यम् । ननु 'मनसैवेदमाप्तव्यम्' इति पूर्ववाक्येन द्रष्टृद्रष्टव्यादिभावोक्त्या भेदशङ्कायां तन्निषेधार्थमिदं वाक्यम् । तत्रेदंशब्देन द्रष्टव्यत्वेनोक्तं ब्रह्म इहेत्यधिकरणत्वेन निर्दिश्य तत्र भेदमात्रं निषिध्यत इति न वैयर्थ्यमिति चेन्न । इह घटो नास्तीतिवदधिकरणविशेषसम्बन्धित्वेन भेदनिषेधेऽन्यत्र भेदसत्वावश्यम्भावेन सर्वथा भेदनिषेधपरत्वे इहेति विशेषणवैयर्थ्यानिस्तारात् । ब्रह्मणः जगदुपादानत्वं जगदारोपाधिष्ठानत्वं वा असिद्धमेवेति य इह ब्रह्मणि नानेव भेदं पश्यति मृत्योर्मृत्युं गच्छतीति सर्वथा भेददर्शिनिन्दापरत्वेन परकीयव्याख्याननिरासाय तां श्रुतिं व्याचष्टे - नानेवेतीति । इवशब्दप्रयोगात्कथमेतल्लब्धमित्यत आहविरुद्धेति ॥ यदुक्तं पूर्वपदेन तद्विरुद्धद्वितीयसंयोग इत्यर्थः । अत्र च नानोत्त्या प्रयुक्तइवशब्दः तद्विरुद्धानानात्वं सङ्गृह्णातीति भेदाभेदाख्यमुभयं निराकृतं भवतीति भावः । ननुयथोदकं दुर्गे वृष्टम्' इति वाक्यं भगवद्भेदा- दिधर्मदर्शिनामनर्थोक्त्या भेदनिराकरणपरमिति चेत् न । इदमपि वाक्यं

न जीवब्रह्मभेदनिराकरणपरं किन्तु भगवद्गुणादीनां भगवता भेदनिराकरण- परम् । भगवद्गुणानां भेददर्शिनामनर्थोक्तेरिति भावेन यथोदकमिति वाक्यं दुर्गमार्थत्वादन्वयं दर्शयन् व्याचष्टे - पर्वतेष्विति ।। तानित्यस्यार्थःपृथग्दृष्टान् धर्मानिति ।। पृथग्दृष्टधर्मानन्तर्यं कथमधो विधावनस्येत्यतस्तात्पर्यमाह- तदनन्तरमेवेति ॥ धर्माणां पार्थक्यदर्शनानन्तरमेवेत्यर्थः । परोक्तार्थे पृथगित्यस्य वैयर्थ्यापत्तेरिति भावः । श्रुतेः स्वोक्तार्थे प्रमाणमाह- भेदेनेति || मुखादिनां मुखादीनाम्। एवमैक्यस्याप्रामाणिकत्वान्न तत्परतया 'ब्रह्म वा' इत्यादेर्व्याख्यानं युक्तमित्युक्तम्। इदानीं प्रमाणविरुद्धत्वाच्च न तत्परतया व्याख्यानं युक्तमित्याह- जुष्टमिति । यद्वा ननु समाख्याबलेन ' एकमेव ' इत्यादि श्रुतेर्भवदुक्तार्थत्वेऽपि अनेकार्थत्वाच्छ्रुतेरस्मदुक्तोऽप्यर्थः किं न स्यादित्यतस्तस्य प्रमाणबाधितत्वाद् इत्यभिप्रायेण भेदे श्रुत्यादिप्रमाणमाह - जुष्टमिति । इति तदेतत्सत्यमित्यादि प्रागुक्तप्रकारेण । अस्य महिमानं यदा पश्यति तदा मुक्तो भवतीत्यर्थः । संयुक्तौ सखायौ द्वौ सुपर्णरूपौ जीवेशौ देहाख्यपिप्पलम् आलिलिङ्गतुः । तयोः सुपर्णयोर्मध्ये अन्यो जीवोऽश्वत्थफलरूपं देहजनितं कर्मफलं अस्वाद्वेव स्वादुत्वेनाति । अन्य ईश्वरः तदनश्नन् अभितः प्रकाशत इत्यर्थः । नन्विदं वाक्यद्वयं सांसारिकभेदपरमित्याशङ्कानिरासाय मुक्तावपि भेदप्रतिपादकं प्रमाणं पठति - य इत्यादिना ॥ ब्रह्मणा सहेति उपसङ्क्रम्येति च भेदोक्तिः । साहित्यस्य समीपप्राप्तेश्च भेदसापेक्षत्वात् । आरभ्य स एको ब्रह्मण आनन्द इत्यन्तेनेति शेषः । तारतम्यस्य भेदसापेक्षत्वादिति भावः ।