अनन्दा नाम ते लोका अन्धेन तमसाऽऽवृताः

[गुरुषु सत्सु नचेदिहावेदीन्महती विनष्टि: ]  

उपनिषत्

अनन्दा नाम ते लोका अन्धेन तमसाऽऽवृताः ।

तांस्ते प्रेत्याभिगच्छन्त्यविद्वांसोऽबुधोजनाः ॥ ११ ॥

भाष्यम्

नित्यदुःखस्वरूपत्वादनन्दं तत्तमो मतम् ।

बोध विद्यमानेऽपि ये विदुर्न परं हरिम् ।

तेऽपि यान्ति तमो घोरं नित्योद्रिक्तासुखात्मकम् ॥ इत्यादि च ॥

बुधः सकाशेऽप्यविद्वांस इत्यर्थः ।

बोधनाज्ज्ञानवान् भुत् स्यात् तत्सकाशाच्च ये हरिम् ।

न विदुस्ते नमो यान्ति सर्वदुःखात्मकं परम् ॥

भावबोधटिप्पणी

अनन्दा इत्युक्तानन्दशब्दार्थमाह- नित्येति ।। नन्दः सुखम् । नञो विरुद्धार्थत्वेन अनन्द इति तद्विरुद्धं दुःखमुच्यते । मुख्ये सत्यमुख्यग्रह्णायोगात् नित्यदुःखस्वरूपत्वादियुक्तम् । इदानीमनन्दा नाम ते लोका इति मन्त्रं व्याचष्टे - बोधक इति ॥ अविद्वांसो बुध इत्यस्य बोधके विद्यमानेऽपि ये विदुर्न परं हरिमिति कथं व्याख्यानम् । ततः तस्याप्रतीतेरित्यतस्तद् व्याचष्टेबुध इति ॥ ननु बुध इत्यस्य प्रथमान्तत्वात् कथं बुधः सकाशेऽपीत्युक्तमित्यतः षष्ठ्यन्तमेव तदित्यभिप्रेत्य तन्मन्त्रव्याख्यानरूपं स्पष्टं प्रमाणमाह- बोधनादिति ॥ ११ ॥