यस्मादर्वाक् संवत्सरोऽहोभिः परिवर्तते

[भगवान् नित्यमुक्तः सर्वाधारः ]

उपनिषत्

यस्मादर्वाक् संवत्सरोऽहोभिः परिवर्तते ।

तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम् ॥ १६ ॥

भाष्यम्

न वत्सराच नाहानि यस्य नित्याविकारतः ।

ज्योतिषां ज्योतिरचलं तद्देवाः समुपासते ।

भावबोधटिप्पणी

यस्मादर्वाक् संबत्सर इति मन्त्रं व्याचष्टे - न वत्सराश्चेति । वत्सरादिकृतविकारो नास्तीत्यर्थः । तत्र हेतुमाह - नित्याविकारत इति || ज्योतिषामादित्यादीनां ज्योतिष्ट्वप्रदमित्यर्थः । आयुरित्यस्यार्थो चलमिति ॥ १६ ॥

Load More