अथ हैनं भुज्युर्लाह्यायनिः पप्रच्छ याज्ञवल्यक्येति होवाच

अथ भुज्युब्राह्मणम् [ ब्रह्माण्डस्य विस्तृति:]

उपनिषत्

अथ हैनं भुज्युर्लाह्यायनिः पप्रच्छ याज्ञवल्यक्येति होवाच । मद्रेषु चरकाः पर्यव्रजाम ते पतंजलस्य काप्यस्य गृहानैम तस्यासीद् दुहिता गन्धर्वगृहीता तमपृच्छाम कोऽसीति । सोऽब्रवीत् सुधन्वाऽऽङ्गिरस इति । तं यदा लोकानामन्तान् अपृच्छामाथैनमब्रूम क्व पारिक्षिता अभवन्निति क्व पारिक्षिता अभवन् स त्वा पृच्छामि याज्ञवल्क्य क्व पारिक्षिता अभवन्निति ॥ १ ॥

भाष्यम्

पारीक्षिता: प्रद्युम्नाः ।

भावबोधटिप्पणी

अत्र पारीक्षिता इत्यस्य परितो दुरितं क्षीयते येन स परीक्षित् अश्वमेधः तद्याजिनः पारीक्षिता इति व्याख्यानमसत् । क पारिक्षिता इति प्रश्नस्यागच्छन् ते तद्यत्राश्वमेधयाजिनो गच्छन्तीति परिहारानुपपत्तेः । न ह्यश्वमेधयाजिनः व सन्तीति प्रश्ने यत्राश्वमेधयाजिनस्तत्रागच्छन्निति परिहारः सम्भवति । नचाधुनातनाः पारीक्षिताः वेति प्रश्न पूर्वतना अश्वमेधयाजिनो यत्रेति परिहारः सम्भवतीति वाच्यम् । अश्रुतकल्पनापत्तेरिति भावेन पारीक्षिता इत्येतद् व्याचष्टे -- पारीक्षिता इति ||

Load More