तद्यथा राजानमायान्तमुग्राः प्रत्येनसः ..

[ अर्चिरादिमार्गेषु मुक्तः पूज्यते]

उपनिषत्

तद्यथा राजानमायान्तमुग्राः प्रत्येनसः सूतग्रामाण्योऽन्नैः पानैरावसथैः प्रतिकल्पन्तेऽयमायात्ययमागच्छतीत्येवं हैवंविदं सर्वाणि भूतानि प्रतिकल्पन्त इदं ब्रह्मायातीद- मागच्छतीति ॥ ३७ ॥

भाष्यम्

इदं मुक्तजीवस्वरूपमायाति । अतोऽनेन सहेदं परं ब्रह्मायातीति परब्रह्मणः पूजार्थं प्रतिकल्पन्ते । यथा राज्ञो ध्वजादिकं दृष्ट्वाऽयं ध्वज आगच्छति तस्माद् राजाऽऽयातीति पूजां प्रतिकल्पन्ते तद्वत् । अन्यथेदं ब्रह्मायातीद- मागच्छतीति द्विरुक्तिर्व्यर्था स्यात् । वीप्सात्वे त्वयमायातीत्येकप्रकारेण शब्दाभ्यासः स्यात् ।

एकप्रकारशब्दानामभ्यासस्त्वादरार्थकः ।

स्वरवर्णादिमात्रं वाप्यन्यथा चेत्तदा परः ।।

अर्थः स्यादेष नियमो वाक्ये वीप्सापदे तथा ।

प्रातिस्विकार्थेऽपि भवेदभ्यासे वा तथा स्थितः ॥ इति शब्दनिर्णये ॥

नच कुत्रचिदादरार्थे द्विरूपप्रयोगो दृष्टोऽनन्तरितः ।

यदा मुक्त व्रजत्यूर्ध्वं तदा तत्सहितो हरिः ।

नियमाद् दृश्यते देवैरमुक्ते नियमो नतु ॥

यथा ध्वजादिकं दृष्ट्वा पूजां राज्ञः प्रकुर्वते ।

एवं विमुक्तिगं दृष्ट्वा विष्णोः पूजां प्रकुर्वते ॥ इति तत्त्वनिर्णये ॥

तस्मादणिमानं न्येतीत्यादिना जीवगतं ब्रह्म चोच्यते । जीवोपतापादि तु नैव ।

भावबोधटिप्पणी

एवंविदं संसारिणं सर्वाणि भूतानि शरीरारम्भकाणि प्रतिकल्पान्ते प्रतीक्षन्ते स्वात्मनि देहाकारेण परिणते सति तत्राऽऽत्माभिव्यक्तिमाकाङ्क्षन्ते । कथं इदं ब्रह्माभिन्नं भोक्तृकर्तृ चायातीदमागच्छतीति व्याख्यानमसदिति भावेनेदं ब्रह्मायातीदमागच्छतीति वाक्यं व्याचष्टे - इदमिति । एवं सत्ययमायात्यय- मागच्छतीति दृष्टान्तवाक्यानानुगुण्यं स्यादित्यतस्तदपि यथावद् व्याचष्टे- यथेति ।। परोक्त एवार्थः किं न स्यादिति चेत् अचेतनानां शरीरारम्भकभूताना- मुक्तप्रकारप्रतीक्षासम्भवात् । बाधकान्तरमाह - अन्यथेति । अयमायातीत्यय- मागच्छतीति दृष्टान्तवाक्येऽपि द्विरुक्तिर्व्यर्था स्यादित्यपि ग्राह्यम् । नन्वादरार्थं वीप्सात्वोपपत्तेर्न द्विरुक्तिवैयर्थ्यमित्यत आह- वीप्सात्वेति । इदं ब्रह्मायातीत्येक-प्रकारेण शब्दाभ्यासः स्यादित्यपि द्रष्टव्यम् । आदरार्थं वीप्सात्वे एकप्रकार एव शब्दानामभ्यासो भवेदित्यत्र प्रमाणमाह-- एकेति ।। तुशब्द एवार्थः । आदिपदेन पदग्रहणं अपि तस्यैकार्थप्रतिपादकतया प्रतीयमानत्वेऽपीत्यर्थः । वाक्ये वीप्सापदे चैकप्रकारशब्दानामभ्याससत्वादादरार्थक इति सम्बन्धः । प्रातिस्विकार्थे स्थितेऽभ्यासेऽपि तथा वा तथैव भवेत् । यथाऽन्नमयादिषु पञ्चसु वर्तमानो ब्रह्मशब्दः । आदरार्थमिदं पुनर्वचनमित्यङ्गीकारे आगम- विरोधमभिधाय लौकिक्प्रयोगोऽपि तथा नास्तीत्याह - नचेति । अन्तरितप्रयोगस्तु द्विरूपो दृष्टः यथा कदाचिन्मैत्र आयात्विति अन्यदा त्वागच्छत्विति अतोऽनन्तरित इत्याह । नन्विदं मुक्तजीवस्वरूपमिति व्याख्यानमयुक्तम् । सर्वेषां भूतानां मुक्तजीवस्वरूपदर्शनाभावात् । नच सर्वाणि भूतानीति सर्वभूतशब्दादेव पर: तथा सति देवानामुक्तजीवसहागतहरिदर्शनस्यापि सत्वेनेदं मुक्तजीवस्वरूपमिति मुक्तग्रहणायोगादित्यत आह- यदेति ॥ स्वकृत- व्याख्यानदार्ज्ञाय तद्यथा राजानमायान्तमित्यादि श्रुतिव्याख्यानरूपं प्रमाणमाह- यथेति । स यत्रायमणिमानं न्येतीत्युक्ताणिमशब्दस्य कार्यार्थत्वे बाधकं सूचयन् भगवदर्थत्वं युक्त्या द्रढयति - तस्मादिति । सर्वगतस्य ब्रह्मणः कथमणिमत्वमिति शङ्कानिरासाय जीवगतमित्युक्तम् । यस्मादुक्तप्रकारेणेदं ब्रह्म यातीत्युत्तरवाक्ये जीवगतं ब्रह्मैवोच्यते तस्मात्स यत्राणिमानमिति पूर्ववाक्येऽप्यणिमशब्देन जीवगतब्रह्मैवोच्यते अन्यथोत्तरवाक्ये इदं ब्रह्मेति प्रकृतपरामर्शकेदंशब्दानुपपत्तेरिति भावः । ननु दह्यमानगेहान्तर्गतस्य दाहवज्जीवस्योपतापादिके सति तदन्तर्गतब्रह्मणोऽपि स्यादित्यत आह- जीवेति || अग्निस्तम्भनवतो दाहाभाववत् सामर्थ्यवैशेष्येण जीवगतस्यापि ब्रह्मणो जीवोपतापादिकं नैव भवतीत्यर्थः ।

Load More