स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमय: ..

[ जीवेषु तारतम्यमप्रतिहतम् ] [ सुवर्णतारतम्यमित्र जीवतारतम्यम् ]

उपनिषत्

स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमय: प्राणमयश्चक्षुर्मयः श्रोत्रमयः पृथिवीमय आपोमयो वायुमय आकाशमय- स्तेजोमयोऽतेजोमयः काममेयोऽकाममयः क्रोधमयोऽक्रोध- मयो धर्ममयोऽधर्ममयस्सर्वमयस्तद् यदेतदिदंमयोऽदोमय इति यथाकारी यथाचारी तथा भवति साधुकारी साधुर्भवति पापकारी पापो भवति पुण्यः पुण्येन कर्मणा भवति पापः पापेनाथो खल्वाहुः काममय एवायं पुरुष इति स यथाकामो भवति तत्क्रतुभर्वति यत्क्रतुर्भवति तत्कर्म कुरुते यत् कर्म कुरुते तदभिसम्पद्यते ॥ ५ ॥

भाष्यम्

मयं तु मानुषं स्वर्ण पीतं गान्धर्वमेव च ।

इन्द्रगोपनिभं नाम्ना जाम्बूनदमिति स्मृतम् ।

दैवं चामीकरं नाम प्रोद्यदादित्यसन्निभम् ।

नैजो विशेषः स्वर्णानामेतेषां सर्वदैव च ।

नाग्यादिनाऽपि समतां यान्ति तानि कथञ्चन ।

एवं मानुषगन्धर्वपितृदेवाः प्रजापतिः ।

ब्रह्मेति क्रमशो जीवा विशिष्टा उत्तरोत्तरम् ।

स्वभावेनैव मुक्तानां स्वभावो व्यक्तिमाव्रजेत् ॥ इत्यादि च ॥

स यत्रायमणिमानं न्येति' 'तस्य ह वै तस्य हृदयस्याग्रं प्रद्योतते' 'तेन धीरा अपियन्ति ब्रह्मविदः स्वर्गं लोकमित ऊर्ध्वो विमुक्ताः' 'तेनैति ब्रह्मवित् पुण्यकृत्तैजसश्च' इत्येवमादेश्च मुक्तविषयमेवैतत्। मुक्तविषयत्वेन चैतत् प्रकरणं सूचयामास भगवान् ।तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्याद्' इत्यादिना ।

भावबोधटिप्पणी

ननु यदि पूर्वब्राह्मणोक्तानामेव पित्रादीनामत्रोक्तिस्तर्हि तद्वदेवात्रापि तेषां तारतम्यं विवक्षितमिति वक्तव्यं नच तद् युक्तं तथात्वे सुवर्णदृष्टान्तानानुगुण्यात् । नहि स्वर्णे स्वाभाविकं तारतम्यं वर्तत इत्याशङ्कां प्रमाणेन परिहरति- मयं त्विति || तुशब्द एवार्थः पीतमेवेति सम्बन्धः । यतोऽयं नैजो विशेषः अतोऽग्न्यादिनापि तानि मानुषस्वर्णादीनि समतां न यान्ति । अग्यादिनेत्यादिपदेनौषधग्रहणं स्वभावेनैव विशिष्टा इति सम्बन्धः । किञ्च पित्र्यं वेत्यादिनोक्ताः पित्रादयो मुक्ता एवेत्यङ्गीकार्यं एतत्प्रकरणस्य मुक्तपरत्वात् तदेव कुत इति चेत् एतत्प्रकरणोपक्रमे स यत्रायमणिमानं न्येति स यत्रायमात्मा बल्यं न्येत्येति भगवत्प्राप्तेरुक्तत्वात् । तस्य हैतस्येति हृदयाग्रद्योतनलिङ्गस्योक्तत्वाच्च उक्तार्थे तेन धीरा इति तेनैति च यस्यानुवित्त इति च मुक्तप्रतिपादकमन्त्रोदाहरणाच्चेति भावेनाहस यत्रेति ।। एतत्प्रकरणस्य मुक्तविषयत्वे नियामकान्तरमाहमुक्तविषयत्वेनेति ॥