अन्नं ब्रह्मेत्येक आहुस्तन्न तथा पूयति ..

बृहदारण्यकोपनिषद्भाष्यम्

चतुर्दशं ब्राह्मणम्

अन्नं ब्रह्मेत्येक आहुस्तन्न तथा पूयति वा अन्नमृते प्राणात् प्राणो ब्रह्मेत्यक आहुस्तन्न तथा शुष्यति वै प्राण ऋतेऽन्नादेते ह्येव देवते एकधा भूयं भूत्वा परमतां गच्छतस्तद्ध स्माह प्रातृदः पितरं किंस्विदेवैवं विदुषे साधु कुर्यां किमेवास्मा असाधु कुर्यामिति स ह स्माह पाणिनामा प्रातृदः कस्त्वेनयोरेकधा भूयं भूत्वा परमतां गच्छतीति तस्मा उ हैतदुवाच वीत्यन्नं वै वि अन्ने हीमानि सर्वाणि भूतानि विष्टानि रमिति प्राणो वै रं प्राणे हीमानि सर्वाणि भूतानि रमन्ते सर्वाणि ह वा अस्मिन् भूतानि विशन्ति सर्वाणि भूतानि रमन्ते य एवं वेद ॥

॥ इति बृहदारण्यकोपनिषदि सप्तमाध्याये चतुर्दशं ब्राह्मणम् ॥

॥ इति बृहद्भाष्ये सप्तमाध्याये चतुर्दशं ब्राह्मणम् ॥

अन्नाभिमानी ब्रह्मैव प्राणो वायुरुदाहृतः । अन्योन्यानुप्रविष्टौ तौ सर्वदैव सुसंस्थितौ ॥ वायुं विना ब्रह्मणोऽपि शरीरं पूतिमेष्यति । वायुश्च शोषमायाति विना ब्रह्माणमंजसा ॥ तयोरेवं परिज्ञानी वासिष्ठः पाणिनामकः । ब्रह्मवायुविदे कार्यं किं मया साध्वसाधु वा ॥ नासाधुना साधयितुं शक्योऽसौ साधुनाऽपि वा । नार्थोऽस्य कृतकृत्यत्वाद्यदि वेद परं हरिम् ॥ इति प्रशस्य तज्ज्ञानं वसिष्ठं प्राब्रवीत् ततः । अन्योन्यानुप्रवेशेन ब्रह्मवाय्वोर्विशेषतः ॥ प्रयोजनं कस्य भवेदिति तं प्रातृदोऽब्रवीत् । ब्रह्मा निवेशनीयः स्याद्वायुश्चास्य रतिप्रदः ॥ अतः प्रयोजनं तुल्यमन्योन्यात्मप्रवेशनात् ॥ इति सन्धाने ।