तार्किकाणां तूक्तवचनानां प्रामाण्यं सिद्धमेव
[ तार्किकादीनाम् आगमविरोधोऽपरिहार्यः ]
भाष्यम्-
तार्किकाणां तूक्तवचनानां प्रामाण्यं सिद्धमेव । अतस्तद्विरोधिकथनं मोहत एव ।
भावबोधटिप्पणी
अत्र तार्किका वदन्ति यदुक्तमीश्वरो ज्ञानानन्दादिस्वरूपोऽप्राकृत- विग्रहोऽनन्तगुणपरिपूणचेति तदयुक्तम् । ईश्वरस्य स्वतोऽशरीरत्वात् । नचाशरीरात्कथं वेदघटादिशब्दव्यवहारसम्प्रदाय इति वाच्यम् । सर्गादा- वदृष्टोऽपगृहीतभूतभेदात् मीनशरीरोत्पत्तावदृष्टवदात्मसंयोगाद् अदृष्टसहकृतप्रयत्न- वदीश्वरसंयोगाद्वा सकलवेदार्थगोचरज्ञानाद् विवक्षासहितान्मीनकण्ठताल्वादि- क्रियातज्जन्यसंयोगाद्वेदोत्पत्तिः । एवं कुलालादिशरीरावच्छेदेन अदृष्टसहकृत- प्रयत्नवदीश्वरसंयोगात् तद्बुद्धीच्छासहिताचेष्टोत्पत्तौ सकलघटानुकूलव्यापाराद् घटोत्पत्तिः । एवं प्रयोज्यप्रयोजकभावाभिमतशरीरद्वयावच्छेदेनादृष्टसहकृतेश्वर- ज्ञानेच्छाप्रयत्नादेव वाग्व्यवहारः । ततस्तादृशीं बालो व्युत्पद्यते। सोऽयं भूतावेशन्यायः । स च कर्तृत्वोपयुक्तैर्ज्ञानिच्छाप्रयत्नैः सङ्ख्यादिपञ्चभिश्च विशिष्ट इति शिष्टषड्गुणायोग्यः कथमनन्तगुणः स्यात् ? । यच्चोक्तं मुक्तानामपि ज्ञानानन्दादितारतम्यमिति तदप्ययुक्तम् । मुक्तेरशेषविशेषगुणोच्छेदरूपत्वेन · तत्र ज्ञानानन्दादेरभावात् । नचैवमपुरुषार्थत्वापत्तिः । समानाधिकरणदुःखा- समानकालीनदुःखध्वंसरूपत्वेन तस्य पुरुषार्थत्वादिति । तदसत् । उदाहृत- श्रुत्यादिविरोधादिति भावेनाऽह - तार्किकाणामिति ॥ ननु यथाऽशरीरत्वा- द्यङ्गीकारे उदाहृतश्रुत्यादिविरोधस्तथा सशरीरत्वाद्यङ्गीकारेऽप्यक्षपादादि- वचनविरोध इति चेन्न । उभयसम्प्रतिपन्नप्रमाणाभावश्रुत्यादिविरोधेन तद्वचनस्य भ्रममूलकत्वेन अप्रामाण्यादिति भावेनाऽह - अत इति ॥