बहुमानविरुद्धं यन्न तन्मानं विदो विदुः
[प्रमाणेषु वेदस्य श्रेष्ठत्वम् ]
भाष्यम्
बहुमानविरुद्धं यन्न तन्मानं विदो विदुः ।
गुणसाम्येऽपि किमुत गुणाधिकविरोधि यत् ॥
यथा बहूनां ज्ञानानां समानां गुणतोऽपि च ।
विरोध्येकं तु यज्ज्ञानं न मानत्वं गमिष्यति ॥
प्रत्यक्षादौ हि बहुभिः समैरेकमपोद्यते ।
तस्माद् वेदाः प्रमाणं स्युर्बाहुल्यादेव किं पुनः ॥
भावबोधटिप्पणी
तत्र व्याप्तिग्राहकं दर्शयति- बहुमानेति । अनेन व्याप्तौ ज्ञानिनां ज्ञानमेव प्रमाणमित्युक्तं भवति । ननु पञ्चरात्रादिविरोधेन सौगताद्यागामाप्रामाण्ये एतद्विरोधेन तदप्रामाण्यमेव किं न स्यात्। उभयोरप्यागमत्वादिगुणसाम्यादित्यत उक्तम्– गुणसाम्येऽपीति । यथोक्तगुणसाम्येऽपि पञ्चरात्रादीनां बहुत्वेन प्रबलत्वात् तद्विरोधेन सौगताद्यागमानामेवाप्रामाण्यं वक्तव्यमिति भावः । अभ्युपगम्य चेदमुक्तम् । वस्तुतस्तु गुणसाम्यमेव नास्ति । पञ्चरात्रादीनां नितरां सर्वज्ञैर्विष्ण्वादिभिः प्रणीतत्वेन वेदानुसारित्वेन च वेदानां चापौरुषेयत्वेना- दोषतया गुणाधिकत्वात् । एतेषां च तदभावात् । तथाच विप्रतिपन्नं शास्त्रं न मानं गुणाधिकविरोधित्वादित्यभिप्रेत्य तत्र कैमुत्येन व्याप्तिमुपपादयति- गुणाधिकेति ॥ यदा गुणसाम्येऽपि यद् बहुमानविरुद्धं तन्न मानम् । तदा यद्गुणाधिकविरोधि तन्मानं नेति किमु वक्तव्यमिति विदो विदुरित्यन्वयः । बहुत्वप्रयुक्तप्राबल्यापेक्षया स्वभावप्रयुक्तप्राबल्यस्य बलवत्त्वादिति भावः । अत्रापि व्याप्तौ ज्ञानिनां ज्ञानमेव प्रमाणमित्युक्तं भवति । तथाप्यस्माकं कथं व्याप्तिसिद्धिरित्यतोऽनुमानद्वयेऽपि दृष्टान्तमाह- यथेति ।। ज्ञानत्वादिगुणतः समानानामपि निर्दोषज्ञानविरोधि सदोषज्ञानं यथेति । द्वितीयानुमान- दृष्टान्तसमुच्चयार्थश्वशब्दः । यथेत्युक्तमेव व्यक्तिविशेषनिष्ठतयोपपादयति-- प्रत्यक्षादाविति । आदिशब्देनानुमानशब्दयोर्ग्रहणम् यथेदं रजतमिति
प्रत्यक्षं नेदं रजतमिति प्रत्यक्षेण दाहच्छेदादिलिङ्गेन तथाविधाप्तवाक्येन च विरुद्धम् अप्रामाणं, यथा वा 'विमतं मिथ्या दृश्यत्वात्' इत्यनुमानं सदिति प्रत्यक्षेण प्रमाणदृष्टत्वाद्यनुमानेन 'विश्वं सत्यम्' इत्याद्यागमेन च विरुद्धमप्रमाणं,यथा वेदं रजतमिति भ्रान्तवाक्यं वा प्रपञ्चो मिथ्येति मायावादिवाक्यं वोक्तप्रमाणत्रयविरुद्धममानमिति । एवं सौगताद्यागमानां प्रत्यक्षादिविरुद्धार्थत्वेन वस्तुतोऽप्रामाण्यान तैर्वेदाद्यागमाप्रामाण्यसिद्धिरित्युक्तम् । न केवलं वेदाद्यागमाप्रामाण्ये प्रमाणाभावः किन्तु तत्प्रामाण्ये प्रमाणं चास्तीत्याह– तस्मादिति ॥ आगमाप्रामाण्यसाधकशास्त्राणाममानत्वादित्यर्थः । परस्परविरोधि- ज्ञानानां मध्ये बहूनामेव प्रामाण्यदर्शनादिति भावः । एवशब्देन गुणाधिक्या- भावेऽपीति सूचयति । कैमुत्येनापि तत्साधयति - किं पुनरिति ॥ वाक्याप्रामाण्यं हि बक्तृदोषनिबन्धनम् । वेदस्य चापौरुषेयत्वेन तदभावः सिद्धः । तथाच बेदो नाप्रमाणं अप्रामाण्यकारणदोषशून्यत्वात् प्रत्यक्षादिवत् । तथाच ज्ञानकरणस्याप्रामाण्याभावे प्रामाण्यमेव सिद्धमिति भावः । पञ्चरात्रादेस्तदनुसारित्वेन प्रामाण्यसिद्धिरिति भावः ।।