अथ त्रयो वाव लोका मनुष्यलोकः ..
[ सप्तान्नोपासकस्य पुत्रात् प्रयोजनम् ]
उपनिषत्
अथ त्रयो वाव लोका मनुष्यलोकः पितृलोको देवलोक इति सोऽयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा कर्मणा पितृलोको विद्यया देवलोको देवलोको वै लोकानां श्रेष्ठस्तस्माद्विद्यां प्रशंसन्ति ॥ २३ ॥
अथातः सम्प्रत्तिर्यदा प्रैष्यन्मन्यतेऽथ पुत्रमाह त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति स पुत्रः प्रत्याहाहं ब्रह्माऽहं यज्ञोऽहं लोक इति यद्वै किञ्चानूक्तं तस्य सर्वस्य ब्रह्मेत्येकता ये वै के च यज्ञास्तेषां सर्वेषां यज्ञ इत्येकता ये वै के च लोकास्तेषां सर्वेषां लोक इत्येकता एतावद्वा इदं सर्वमेतस्मात् सर्वं सन्नयमितोऽभुनजदिति तस्मात् पुत्रमनुशिष्टं लोक्यमाहुः । तस्मादेनमनुशासति स यदैवंविदस्माल्लोकात् प्रैत्यथैभिरेव प्राणैः सह पुत्रमाविशति स यद्यनेन किञ्चिदक्ष्णया कृतं भवति तस्मादेनं सर्वस्मात् पुत्रो मुञ्चति तस्मात् पुत्रो नाम स पुत्रेणैवास्मिंल्लोके प्रतितिष्ठत्यथैनमेते देवाः प्राणाः अमृता आविशन्ति ॥ २४ ॥
भाष्यम्
ब्रह्मेति वेदः । स्वाध्यायादिकर्तृत्वात्पुत्रः । त्वं ब्रह्मेत्याद्युच्यते । आत्मा भवति, व्यापको भवति ।
पुनः पुनः कर्मकृतिर्मानुष्यजय उच्यते ।
जन्मान्तरं विना नैव कर्मणा तत्तु युज्यते ॥
पुत्रेण विद्यया नित्यमेकैकेनापि युज्यते ।
उभाभ्यां किमु वक्तव्यमष्टभागफलं सुतात् ॥
विद्यया त्वर्धमाप्नोति सर्वं सप्तान्नविभेत् ।
पुत्रमाविश्य सामर्थ्यान्मुच्यतेऽच्छिद्रकर्मणः ॥
अक्ष्णं पुदिति च च्छिद्रं पुत्रस्तत्त्राणको भवेत् ।
भावबोधटिप्पणी
' त्वं ब्रह्म' इत्यत्र पित्रा पुत्रस्य परब्रह्माभेद उच्यत इति प्रतीतिनिरासार्थं ब्रह्मशब्दार्थमाह- ब्रह्मेतीति । उच्यत इति शेषः । अन्यथा 'यद्वै किञ्चानूक्तं तस्य सर्वस्य ब्रह्म' इत्येकतेत्युत्तरवाक्यविरोध इति भावः । तथाऽपि त्वं ब्रह्मेति कथं पुत्रस्य वेदाभेदाभावात् । अत एव त्वं यज्ञः त्वं लोकः इत्येतदप्यनुपपन्नमित्यत आह- स्वाध्यायेति ॥ 'स एवंवित्सर्वेषां भूतानामात्मा भवति' इति वाक्ये ज्ञानिनः सर्वाभेद उच्यत इति प्रतीतिनिरासाय व्याचष्टे- आत्मेति ।। ननु यथा पित्रादिलोकजयो नाम तल्लोकप्राप्तिः एवं मनुष्यलोकजयोऽपि तल्लोकप्राप्तिरेव । सा च स्वतः सिद्धेति कथं पुत्रेणैव साध्येत्यत आह- पुनरिति ॥ नन्वस्मिन् जन्मनि कृतेन कर्मणा कर्मकरणयोग्यजन्मान्तरप्राप्तौ तत्राप्यनुष्ठितकर्मणा पुनःपुनस्तादृशजन्मान्तरप्राप्तौ स्वस्यैव पुनःपुनः कर्मकरण- लक्षणमानुष्यजयसम्भवेन ‘पुत्रेणैव जय्यो नान्येन कर्मणा' इति कथमुच्यत इत्यतस्तदभिप्रायमाह — जन्मान्तरमिति ॥ स्वस्यैव जन्मान्तरेण कर्मणा पुनःपुनः कर्मकरणसम्भवेऽपि जन्मान्तरं विना तत्पुनः पुनः कर्मकरणं कर्मणा नैव युज्यते । पुत्रेणोपदिष्टया विद्यया वा शिष्येणेति यावत् । जन्मान्तरं विनैव नित्यं तत्पुनःपुनः कर्मकरणं युज्यत इत्यर्थः । अनेन श्रुतौ पुत्रशब्दः शिष्यस्यापि सङ्ग्राहक इत्युक्तं भवति । किं पुत्रशिष्ययोः समुचितयोरेव पुनःपुनः कर्मकरणहेतुत्वम् ? नेत्याह-- एकैकेनापीति । ननु पुत्रशिष्ययोः स्वभिन्नत्वात्कथं ताभ्यां स्वस्य पुनः पुनः कर्मकरणमित्यतः स्वकृतकर्मणेव पुत्रादिकृतकर्मणाऽपि फलप्राप्तिरेवेत्याह- अष्टभागेति ।। सप्तान्नवित्पिता गुरुर्वा पुत्रकृतशिष्यकृतकर्मफलं सर्वं लभेदित्यर्थः । अनेन 'एतस्मात्सर्व सन्नयमितो भुनजदति' इति वाक्यं व्याख्यातम् । 'अथैभिरेव प्राणैः सह पुत्रमाविशति' इत्यादि 'पुत्रो मुञ्चति' इत्यन्तं वाक्यं व्याचष्टे - पुत्रमिति । सप्तान्नविदिति वर्तते । अंशरूपसामर्थ्यादित्यर्थः । अक्ष्णयेत्यस्य च्छिद्रेति व्याख्यानमुपपादयति-- अक्ष्णमिति ॥ अक्ष्णं च्छिद्रमिति पर्यायो यस्मात्तस्माच्छिद्रेति व्याख्यानमुपपन्नमित्यर्थः । ' तस्मादेनं पुत्रो मुञ्चति तस्मात्पुत्रो नाम' इति वाक्यं व्याचष्टे - पुत्र इति । तत्तस्मादक्ष्णकर्मणः । नन्वक्ष्णकर्मणः त्राणतः पुत्रशब्दवाच्यत्वं कथमित्यत आह- अक्ष्णं च पुदितीति ।। अक्ष्णं पुदिति यतः पर्यायस्तस्मात् पुतस्त्राणतः पुत्र इत्युच्यत इत्यर्थः ।। २३-२४ ॥