अथ हैनं विदग्धः शाकल्यः पप्रच्छ कति देवा याज्ञवल्क्येति..
बृहदारण्यकोपनिषद्भाष्यम्
शाकल्यब्राह्मणम्
अथ हैनं विदग्धः शाकल्यः पप्रच्छ कति देवा याज्ञवल्क्येति स हैतयैव निविदा प्रतिपेदे यावन्तो वैश्वदेवस्य निविद्युच्यन्ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेत्योमिति होवाच कत्येव देवा याज्ञवल्क्येति त्रयस्त्रिंशदित्योमिति होवाच कत्येव देवा याज्ञवल्क्येति षडित्योमिति होवाच कत्येव देवा याज्ञवल्क्येति त्रय इत्योमिति होवाच कत्येव देवा याज्ञवल्क्येति द्वावित्योमिति होवाच कत्येव देवा याज्ञवल्क्येत्यध्यर्ध इत्योमिति होवाच कत्येव देवा याज्ञवल्येत्येक इत्योमिति होवाच कतमे ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति ॥ १ ॥
स होवाच महिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवा इति कतमे ते त्रयस्त्रिंशदित्यष्टौ वसव एकादश रुद्रा द्वादशादित्यास्त एकत्रिंशदिंद्रश्चैव प्रजापतिश्च त्रयस्त्रिंशा इति ॥ २ ॥
ये ये वराः सुरास्ते तु परेषां महिमात्मकाः । महीत्युक्तं हि माहात्म्यं महिमानो हि तन्मिताः ॥ एवं हि महिमाशब्दस्तद्वशत्वं वदत्ययम् । यत्र माहात्म्यवाची स्यान्महत्वं महिमा तथा ॥ त्रयस्त्रिंशत्सुराणां हि परिवारास्ततः परे । षण्णामेते त्रयाणां ते ते द्वयोः साधिकस्य तौ ॥ एकस्य सोऽपि क्रमतः पराधीनस्वरूपिणः । पराधीनबलाश्चैव पराधीनप्रवृत्तयः ॥ एक एव स्वतंत्रोऽसौ भगवान् पुरुषोत्तमः ।
कतमे वसव इत्यग्निश्च पृथिवी च वायुश्चान्तरिक्षं चादित्यश्च द्यौश्च चंद्रमाश्च नक्षत्राणि चैते वसव एतेषु हीदंवसु सर्वं हितमिति तस्मात् वसव इति ॥ ३ ॥
अग्रं विष्णुं नयेद्यस्मात् सुपर्णोऽग्निरुदाहृतः ॥ प्रथितं हरिमादाय वातीति प्रथिवः स्मृतः । तद्भार्या पृथिवी नाम यत्तदिच्छानुसारिणी ॥ सर्वज्ञानात् तथायुष्ट्वात् सूत्रात्मा वायुरुच्यते । श्रद्धानामैव तत्पत्नी सर्वस्यान्तर्निरीक्षणात् ॥ अन्तरिक्षमिति प्रोक्ता देवेभ्योऽधिकवीक्षणात् । आदिकालस्थितो यस्मादादित्यस्तु सदाशिवः ॥ द्यौरुमा च समुद्दिष्टा वाग्रूपा द्योतिका यतः । त एते सर्वदेवेभ्यो विशिष्टास्तद्वशाः परे ॥ नक्षत्रमिंद्र उद्दिष्टश्चंद्रः काम उदाहृतः । अत्राणात् सूर्यचंद्राद्यैराह्लादाच्चैव हेतुतः ॥ वासयन्ति जगद्यस्मादेतेऽष्टौ वसवः स्मृताः । ज्ञानादिषड्गुणाः षट्सु तदन्येभ्योऽधिका यतः ॥ वसुष्वपि त एवोच्चा वींद्राद्याः पूर्वकीर्तिताः ।
कतमे रुद्रा इति दशेमे पुरुषे प्राणा आत्मैकादशस्ते यदाऽस्माच्छरीरात् मर्त्यादुत्क्रामन्त्यथ रोदयन्ति तद्यद्रोदयन्ति तस्माद् रुद्रा इति ॥ ४ ॥
प्राणाद्या वायुपुत्रास्तु दश बुद्ध्यभिमानवान् ॥ बृहस्पतिरिति ह्येते रुद्रा इत्येव कीर्तिताः ।
कतम आदित्या इति द्वादश वै मासाः संवत्सरस्यैत आदित्या एते हीदं सर्वमाददाना यन्ति ते यदिदं सर्वमाददाना यन्ति तस्मादादित्या इति ॥ ५ ॥
मासाभिमानिनो ये तु यमचंद्रयुता द्विषट् ॥ धात्रर्यमाद्या आदित्या इंद्राविष्णू विनैव तु ।
कतम इंद्र कतमः प्रजापतिरिति स्तनयित्नुरेवेंद्रो यज्ञः प्रजापतिरिति कतमः स्तनयित्नुरित्यशनिरिति कतमो यज्ञ इति पशव इति ॥ ६ ॥
स्तनयित्नोरभीमानी वायुजस्त्विंद्र उच्यते ॥ स एव वज्र इंद्रस्य सोऽशनिश्चाशनादरेः । यज्ञो नामेंद्रपुत्रो यो जयन्त इति चोच्यते ॥ स एव पशुमानित्वात् पशवश्चेति कथ्यते ।
कतमे षडित्यग्निश्च पृथिवी च वायुश्चान्तरिक्षं चादित्यश्च द्यौश्चैते षडेतेषु हीदं सर्वं षडिति ॥ ७ ॥
कतमे ते त्रयो देवा इतीम एव त्रयो लोका एषु हीमे सर्वे देवा इति कतमौ तौ द्वौ देवावित्यन्नं चैव प्राणश्चेति कतमोऽध्यर्ध इति योऽयं पवत इति ॥ ८ ॥
तदाहुर्यदयमेक इवैव पवतेऽथ कथमध्यर्ध इति यदस्मिन्निदं सर्वमध्यार्ध्नोत् तेनाध्यर्ध इति कतम एको देव इति प्राण इति स ब्रह्म त्यदित्याचक्षते ॥ ९ ॥
एवं प्राधान्यतो देवास्त्रयस्त्रिंशत्प्रकीर्तिताः ॥ दक्षाग्निप्रमुखाः सर्वे प्राणा एव हि वायुजाः । रुद्रा अपि तदावेशात् पृथंग्नोदीरिता इह ॥ काम एवानुविष्टत्वादनिरुद्धश्च नोदितः । मन्वावेशादिंद्रजस्तु संख्यायामनुवेशितः ॥ अश्विनौ निर्ऋतिश्चैव कुबेरश्च विनायकः । अर्यम्ण्यंशादिचतुर्षु विशेषावेशसंयुताः ॥ अत्रोक्ता अपि पृथिव्याद्या अन्तर्यामिब्राह्मणे भवन्ति । षट्सु प्रधानास्तिस्रो हि वायुवींद्रमहेश्वराः । स्वभार्याणां स्वाश्रयत्वात् ते लोका ज्ञानरूपतः ॥ पदैक्याद्ब्रह्मवाय्वोस्तु पदसाम्याच्छिवस्य च । शेषस्यापि तु नैवोक्तिः पृथक् श्रद्धा च मारुतः ॥ द्वौ देवाविति सम्प्रोक्तावन्नं श्रद्धा प्रकीर्तिता । अतीतत्वाद्देवताभ्यो नेतृत्वाच्चान्नमुच्यते ॥ श्रद्धेति वायोः पत्नी सा प्राणो वै विष्णुरुत्तमः । णेत्येवानन्द उद्दिष्ट आसमन्तात् प्रकृष्टतः ॥ प्राणो हि भगवान् विष्णुरध्यर्धो वायुरुच्यते । अध्यर्धा हि गुणा नित्यं वायोरध्यर्ध एव तत् ॥ न चैकत्वं भवेद्वायोस्तद्विशिष्टो यतो हरिः । न च द्वितीयता तस्मिन् प्रीतिरत्यधिका हरेः ॥ तेनाध्यर्द्धगुणो यस्मात् सर्वस्माद् देवतागणात् । न चाशक्यं न चाप्राप्यमतोऽध्यर्ध इतीरितः ॥ अत्यन्तरंगं यत्तस्मान्न हरेः पृथगीरिता । श्रीः स्वरूपविभेदेऽपि सर्वोत्कृष्टाऽपि नित्यशः ॥ तस्या अपि परो विष्णुर्गुणैः सर्वैरदोषवान् । एक इत्युच्यते नित्यं यस्मान्नान्यस्तथाविधः ॥ तत्परो वा गुणोद्रेके ब्रह्माऽसौ गुणपूर्तितः । तथात्वेन यतो नित्यमविकारेण याति हि ॥ त्यदित्युक्तास्ततो विष्णुः सर्वदेवेश्वरेश्वरः ॥ इति महामीमांसायाम् ॥
पृथिव्येव यस्यायतनं अग्निर्लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्,सर्वस्यात्मनः परायणं स वै वेदिता स्यात् याज्ञवल्क्य वेद वा अहं तं पुरुषम् ।सर्वस्यात्मनः परायणं यमात्थ य एवायं शारीरः पुरुषः स एष वदैव शाकल्य, तस्य का देवता इत्यमृतमिति होवाच ॥ १० ॥
काम एव यस्यायतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्,सर्वस्यात्मनः परायणं स वै वेदिता स्याद् याज्ञवल्क्य,वेद वा अहं तं पुरुषम् ।सर्वस्यात्मनः परायणं यमात्थ य एवायं काममयः पुरुषः स एष वदैव शाकल्य, तस्य का देवता इति स्त्रिय इति होवाच ॥ ११ ॥
रूपाण्येव यस्यायतनं चक्षुर्लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्,सर्वस्यात्मनः परायणं स वै वेदिता स्याद् याज्ञवल्क्य,वेद वा अहं तं पुरुषम् ।सर्वस्यात्मनः परायणं यमात्थ य एवासावदित्ये पुरुषः स एष वदैव शाकल्य, तस्य का देवता इति सत्यमिति होवाच ॥ १२ ॥
आकाश एव यस्यायतनं श्रोत्रं लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्,सर्वस्यात्मनः परायणं स वै वेदिता स्याद् याज्ञवल्क्य,वेद वा अहं तं पुरुषम् ।सर्वस्यात्मनः परायणं यमात्थ य एवायं श्रौत्रः प्रातिश्रुत्कः पुरुषः स एष वदैव शाकल्य, तस्य का देवता इति दिश इति होवाच ॥ १३ ॥
तम एव यस्यायतनं हृदयं लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्,सर्वस्यात्मनः परायणं स वै वेदिता स्याद् याज्ञवल्क्य,वेद वा अहं तं पुरुषम् ।सर्वस्यात्मनः परायणं यमात्थ य एवायं छायामयः पुरुषः स एष वदैव शाकल्य, तस्य का देवता इति मृत्युरिति होवाच ॥ १४ ॥
रूपाण्येव यस्यायतनं चक्षुर्लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्,सर्वस्यात्मनः परायणं स वै वेदिता स्याद् याज्ञवल्क्य,वेद वा अहं तं पुरुषम् ।सर्वस्यात्मनः परायणं यमात्थ य एवायमादर्शे पुरुषः स एष वदैव शाकल्य, तस्य का देवता इति असुरिति होवाच ॥ १५ ॥
आप एव यस्यायतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्,सर्वस्यात्मनः परायणं स वै वेदिता स्याद् याज्ञवल्क्य,वेद वा अहं तं पुरुषम् । सर्वस्यात्मनः परायणं यमात्थ य एवायमप्सु पुरुषः स एष वदैव शाकल्य, तस्य का देवता इति वरुण इति होवाच ॥ १६ ॥
रेत एव यस्यायतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्,सर्वस्यात्मनः परायणं स वै वेदिता स्याद् याज्ञवल्क्य,वेद वा अहं तं पुरुषम् ।सर्वस्यात्मनः परायणं यमात्थ य एवायं पुत्रमयः पुरुषः स एष वदैव शाकल्य, तस्य का देवता इति प्रजापतिरिति होवाच ॥ १७ ॥
शारीरो मनुरुद्दिष्टः कामः प्रद्युम्न उच्यते । आदित्यस्थस्तथा रुद्रः श्रोत्रश्चंद्र उदाहृतः ॥ छायामयस्तु निर्ऋतिरादर्शे सूर्य एव च । पर्जन्यस्त्वप्सु पुरुषः शक्रः पुत्राभिमानवान् ॥ अमृतं वायुरुद्दिष्टं स्त्रियः श्रीर्गीरुमा तथा । सत्यं ब्रह्मा समुद्दिष्टो गरुत्मच्छेषका दिशः ॥ आदेशनाद्दिशः प्रोक्ताः मृत्युर्यम उदाहृतः । अन्तर्गतेन रूपेण वायुरेव त्वसुः स्मृतः ॥ पालकेन स्वरूपेण ब्रह्मैवात्र प्रजापतिः । प्रकाशस्त्वान्तरो ज्योतिर्लोको बाह्य इतीर्यते ॥ मनःस्थिता मनोनाम्नी बोधरूपत्वतो रमा ।। सैवाग्निस्थाऽदनान्नित्यमग्निरित्येव गीयते ॥ हृदयं बुद्धिसंस्था सा त्वयनं हृदि यत्ततः । चक्षुः सा दृष्टिहेतुत्वाद्दृष्टानां लोक एव सा ॥ इति च ।
बुद्धिवृत्त्यपेक्षया बहिः प्रकाशहेतुत्वमपि देव्या न विरुध्यते । इम एव त्रयो लोका इति पूर्वोक्तानां देवानामनुक्तौ कथं लोकमात्रे सर्वदेवानामन्तर्भावः । उक्ताङ्गीकारेऽनन्तर्भावः कथम् । कथं चाग्न्यादिषु । न चावासमात्रमत्र विवक्षितम् । प्रतिशरीरमपि सर्वदेवानामावासान्न लोकादीनां विशेषः । सामर्थ्याधिक्यं चात्र विवक्षितम् । एतेषु हीदं सर्वं षडिति । यदस्मिन्निदं सर्वमध्यार्ध्नोत् स ब्रह्म त्यदित्याचक्षते महिमान एवैषाम् इत्यादिषु षड्गुणोद्रेकादीनामुक्तेः । अन्तर्भावस्य च महिमकारणकत्वोक्तेः । इदं सर्वं गुणषट्कं पूर्णं गुणषट्कमित्यर्थः । इदंशब्दोविवक्षितत्वादयं भगवानितिवत् । एवमेवेदं सर्वमध्यार्ध्नोदिति च । गुणाधिक्येन तदधीनत्वे विवक्षिते निवासत्वादिकमन्तर्भवति । उत्तमानामधिकव्याप्त्यादेः । न तु निवासत्वादौ गुणाधिक्यादिकम् । कथं च तन्महिमत्वेनान्तर्भावमुक्त्वा निवासत्वमात्रेणान्तर्भाव उच्यते । कथं चान्यथा कामादीनां प्रसिद्धमहिमानां स्त्रीमात्रादिकं देवतोच्यते । प्रसिद्धं चैतत् । आत्मा देवानां भुवनस्य गर्भः आत्मा वै वातः इंद्रो वै देवानामोजिष्ठःब्रह्मा देवानां प्रथमः सम्बभूव अयं वाव शिशुर्योयं मध्यमः प्राणः तमेताः सप्ताक्षितय उपतिष्ठन्ते तद्या इमा अक्षंल्लोहिन्यो राजयस्ताभिरेनं रुद्रोऽन्वायत्तो यच्छुक्लं तेनेन्द्रः ।
अश्वमेधः क्रतुश्रेष्ठो ज्योतिःश्रेष्ठो दिवाकरः । ब्राह्मणो द्विपदां श्रेष्ठो देवश्रेष्ठस्तु मारुतः ॥
वायुर्भीमो भीमनादो महौजास्सर्वेषाञ्च प्राणिनां प्राणभूतः । अनावृत्तिर्देहिनां देहपाते तस्माद्वायुर्देवदेवो विशिष्टः ॥
क्रतुं सचन्त मारुतस्य वेधसः वायोरात्मानं कवयो निचिक्युः ।
आत्मत एष प्राणो जायते । यो वायौ तिष्ठन्
देवानां देवता वायुर्वायोर्देवो जनार्दनः।
स प्राणमसृजत । प्राणाच्छ्रद्धाम् एतस्माज्जायते प्राणः।
रुद्रं समाश्रिता देवाः रुद्रो ब्रह्माणमाश्रितः । ब्रह्मा मामाश्रितो नित्यं नाहं कञ्चिदुपाश्रितः ॥ इत्यादिषु सर्वत्र ।
श्रियः प्रसादं स कुशेशयेशयः श्रितः स चिन्त्यः प्रशशंस शौरिम् इत्यादि च ।
शाकल्येति होवाच । याज्ञवल्क्यस्त्वां स्विदिमे ब्राह्मणा अंगारावक्रयणमकृता३ इति ॥ १८ ॥
याज्ञवल्क्येति होवाच । शाकल्यो यदिदं कुरुपाञ्चालानां ब्राह्मणानत्यवादीः किं ब्रह्म विद्वानिति दिशो वेद सदेवाः सप्रतिष्ठा इति यद्दिशो वेत्थ सदेवा सप्रतिष्ठाः ॥ १९ ॥
दिशो वेद सदेवाः सप्रतिष्ठा इति याज्ञवल्क्यवचनम् । सर्वप्रतिष्ठात्वेन ब्रह्मणोऽपि ज्ञानं भवतीति किं ब्रह्म विद्वानित्यस्य चोत्तरम् ।
किं देवतोऽस्यां प्राच्यां दिश्यसीति आदित्यदेवत इति स आदित्यः कस्मिन् प्रतिष्ठित इति चक्षुषीति कस्मिन्नु चक्षुः प्रतिष्ठितमिति रूपेष्विति चक्षुषा हि रूपाणि पश्यति कस्मिन्नु रूपाणि प्रतिष्ठितानीति हृदय इति होवाच हृदयेन हि रूपाणि जानाति हृदये ह्येव रूपाणि प्रतिष्ठितानि भवन्तीत्येवमेवैतद्याज्ञवल्क्य ॥ २० ॥
यदि दिशो वेत्थ तर्हि किं देवतोऽस्याम् ।
आदित्यस्याश्रयश्चक्षुर्नामा स्वायम्भुवो मनुः । चक्षुस्थो दृष्टिशक्तीशो रूपात्मेंद्रस्तदाश्रयः ॥ बुद्धितत्त्वात्मिकोमा च शक्रस्यापि समाश्रयः ।
किं देवतोऽस्यां दक्षिणस्यां दिश्यसीति यमदेवत इति स यमः कस्मिन् प्रतिष्ठित इति यज्ञ इति कस्मिन् यज्ञः प्रतिष्ठित इति दक्षिणायामिति कस्मिन्नु दक्षिणा प्रतिष्ठितेति श्रद्धायामिति यदा ह्येव श्रद्धत्तेऽथ दक्षिणां ददाति श्रद्धायां ह्येव दक्षिणा प्रतिष्ठितेति कस्मिन्नु श्रद्धा प्रतिष्ठितेति हृदय इति होवाच हृदयेन हि श्रद्धां जानाति हृदये ह्येव श्रद्धा प्रतिष्ठिता भवतीत्येवमेवैतद्याज्ञवल्क्य ॥ २१ ॥
एवं यमस्याश्रयश्च यज्ञमान्यनिरुद्धकः ॥ दक्षिणामानिनी देवी रतिरेव तदाश्रयः । श्रद्धारूपः सदा कामस्तस्या अपि समाश्रयः ॥ हृदयात्मिक्युमा तस्य कामस्यापि समाश्रयः ।
किं देवतोऽस्यां प्रतीच्यां दिश्यसीति वरुणदेवत इति स वरुणः कस्मिन् प्रतिष्ठित इति अप्स्विति कस्मिन्वापः प्रतिष्ठिता इति रेतसीति कस्मिन्नु रेतः प्रतिष्ठितमिति हृदय इति तस्मादपि प्रतिरूपं जातमाहुर्हृदयादिव सृप्तो हृदयादिव निर्मित इति हृदये ह्येव रेतः प्रतिष्ठितं भवतीत्येवमेवैतद् याज्ञवल्क्य ॥ २२ ॥
अब्देवता सदा चंद्रो वरुणस्य समाश्रयः ॥ रेत आत्मा सुरगुरुः सोमस्यापि समाश्रयः । तस्याप्युमैवाश्रयः स्यात् ..
किं देवतोस्यामुदीच्यां दिश्यसीति सोमदेवत इति स सोमः कस्मिन् प्रतिष्ठित इति दीक्षायामिति कस्मिन्नु दीक्षा प्रतिष्ठितेति सत्य इति तस्मादपि दीक्षितमाहुः सत्यं वदेति सत्ये ह्येव दीक्षा प्रतिष्ठितेति कस्मिन्नु सत्यं प्रतिष्ठितमिति हृदय इति होवाच हृदयेन हि सत्यं जानाति हृदये ह्येव सत्यं प्रतिष्ठितं भवतीत्येवमेवैतद् याज्ञवल्क्य ॥ २३ ॥
...... तस्यैव तु दिगीशितुः ॥ सोमस्य दीक्षारूपा तु शतरूपा समाश्रयः । तस्याः सत्यात्मको देवो मनुरेव समाश्रयः ॥ तस्याप्युमैवाश्रया सा स्रष्टृरूपस्य नित्यदा ।
किं देवतोस्यां ध्रुवायां दिश्यसीत्यग्निदेवत इति सोऽग्निः कस्मिन्नु प्रतिष्ठित इति वाचीति कस्मिन्नु वाक्प्रतिष्ठितेति हृदय इति कस्मिन्नु हृदयं प्रतिष्ठितमिति ॥ २४ ॥
मध्यदिक्स्वामिनोऽग्नेश्च स्वाधारो वाग्बृहस्पतिः ॥ तस्याप्युमैव हृदयरूपा नित्यं समाश्रयः ।
अहल्लिकेति होवाच याज्ञवल्क्यो यत्रैतदन्यत्रास्मन्मन्यासै यद्ध्येतदन्यत्रास्मत् स्यात् श्वानो वैनदद्युर्वयांसि वैनद्विमथ्नीरन्निति ॥ २५ ॥
तस्याः समाश्रयो रुद्रस्त्वमहञ्चेति रूपवान् ॥ अहंकारात्मको नित्यमात्मोमा परिकीर्तिता । बुद्ध्यात्मनैवाततत्वाद्यद्यस्यानाश्रयो हरः ॥ तदा बोधात्मिका शक्तिर्नास्या देहाभिरक्षणे । अरक्षितान्मानुषादीन् श्वानो वाऽद्युर्वयांसि वा ॥
कस्मिन्नु त्वं चात्मा च प्रतिष्ठितौ स्थ इति प्राण इति कस्मिन्नु प्राणः प्रतिष्ठित इति अपान इति कस्मिन्न्वपानः प्रतिष्ठित इति व्यान इति कस्मिन्नु व्यानः प्रतिष्ठित इत्युदान इति कस्मिन्नुदान प्रतिष्ठित इति समान इति स एष नेति नेत्यात्माऽगृह्यो न हि गृह्यते अशीर्यो न हि शीर्यते असंगो न हि सज्जते असितो न व्यथते न रिष्यत्येतान्यष्टावायतनान्यष्टौ लोका अष्टौ देवा अष्टौ पुरुषाः स यस्तान् पुरुषान् निरूह्य प्रत्यूह्यात्यक्रामत् तं त्वौपनिषदं पुरुषं पृच्छामि तं चेन्मे न विवक्ष्यसि मूर्धा ते विपतिष्यतीति तंह न मे शाकल्यस्तस्य ह मूर्धा विपपातापि हास्य परिमोषिणोऽस्थीन्यपजह्रुरन्यन्मन्यमानाः ॥ २६ ॥
शिवस्य च तथोमायाः प्राणात्मा शेष आश्रयः । शेषस्यापानरूपा सा भारत्येव व्यपाश्रयः ॥ तस्या व्यानाभिधो वायुर्विशिष्टानो यतो हि सः । उन्नेतृत्वादुदानाख्या तस्या श्रीराश्रयः सदा ॥ समानाख्यो हरिस्तस्याः सहैव ह्यनयत्यसौ । स्वावरस्यानकास्त्वन्ये सर्वेषां चेष्टको हि सः ॥ स एष भगवान्नैवं श्रीवदन्याश्रयो हरिः । न च ब्रह्मादिवद्विष्णुर्नैवासौ बद्धवत् क्वचित् ॥ न च मुक्तवदीशेशः कुत एव जडोपमः । अग्राह्योऽशीर्यसंगोऽसावसितश्च न रिष्यति ॥ न हि सर्वात्मना क्वापि केनचिज्ज्ञायते क्वचित् । स्वल्पोऽपि शीर्यते नैव कारणात् कालतोऽपि वा ॥ न लिप्यते जगन्नाथः क्वचिद्दोषेण केनचित् । भूतपूर्वो भविष्यो वा बन्धो नास्य कुतश्चन ॥ न च नाशो भवेत् क्वापि न नशिष्यति च क्वचित् । अन्यत् सर्वं गृहीतं हि तेन ज्ञानादिना सदा ॥ अशीर्यत्वादयोऽन्येषां सर्वेषां तत्प्रसादतः । अतस्तस्यापि वैषम्यान्नेति नेत्याह तं श्रुतिः ॥ इत्यादि च ॥
तद्गुणानां सुपूर्णानां विप्लुट्कं प्रतिबिम्बितम् । श्रीर्भुंक्ते तद्गुणान् ब्रह्मा तस्य रुद्रादयोऽपि च ॥ इत्यादि च ॥
अहर्ज्ञानमस्य लीनमित्यहर्लीक एवाहल्लिकः । अज्ञेत्याक्षिपति । न हि गृह्यते इत्यादिना ग्रहणशीरणादिषु सर्वप्रमाणाभावं दर्शयति ॥
नेति नेत्यादिरूपेण विज्ञापितगुणोऽपि तु । विशेषापेक्षया पृष्टो न शाकल्यो विवेद तम् ॥ इति ब्रह्मांडे ॥
तदपेक्षां विनैवासौ निर्गत्य पुरुषोत्तमः । वहत्येवानिशं सर्वं निरूढं तेन तज्जगत् ॥ प्रति प्रतिस्थितो रूपैर्यस्माद्धत्ते हरिः सदा । अतः प्रत्यूह्यते तेन व्यक्ताव्यक्तमिदं जगत् ॥ इति ब्रह्मतर्के ॥
न विनोपनिषद्भिः स ज्ञेयः केनापि कस्यचित् । अत औपनिषत्कं तं प्राहुर्विष्णुं सनातनम् ॥ इति च ॥
प्रश्नो वादे च जल्पादौ कर्तव्यः प्रतिवादिना । तदुक्तिमात्रे प्रामाण्ये यदि नास्यागमान्तरम् ॥ अपेक्षितं यदा शंका दर्शनीयस्तदाऽऽगमः । निःशंकत्वेन यो वक्ता प्रश्नानामुत्तरं सदा ॥ आनुकूल्येनागमानां नाशंक्यं तद्वचः क्वचित् । दशतालो दशमुखो ललाटत्रिंशकस्तथा ॥ सार्धोन्नतश्चैव पुनः पर्यग्दशशिरास्तथा । पञ्चोराः सप्तपादो यो नाशंक्यं तद्वचः क्वचित् ॥ नवांगुलमुखो यस्तु गले च चतुरंगुलः । चतुर्विशांगुलतनुस्तद्वाक्यं देवपूजितम् ॥ प्राधान्यल्लक्षणोपेतो दुर्लक्षणयुतोऽपि सन् । तस्यापि वाक्यं मानं स्यात् किमु सर्वयुतस्य तु ॥ प्रायो देवाश्च ऋषयो न सर्वशुभलक्षणाः । ऋते विष्णुं सुरश्रेष्ठं ब्रह्माणं वाऽप्यनन्तरम् ॥ यस्मान्न विदुषां वाक्यमाशंक्यं केनचित् क्वचित् । तस्माद्वेदेषु सर्वेषु कथाः प्रश्नोत्तरात्मिकाः ॥ न प्रमाणान्तरं तत्र पृच्छन्ति घटनां विना । एतस्मादाश्वलाद्याश्च पप्रच्छुर्नैव कुत्रचित् ॥ आगमं याज्ञवल्क्योक्तेरन्यं तं मिथिलोऽपि च ॥ इति ब्रह्मतर्के ॥
यश्छिन्नविचिकित्सस्तु च्छिनत्त्यपि च संशयान् । तस्य पर्येषणं कुर्यात् प्रतीच्छन्नोत दक्षिणाम् ॥ इति च भारते ॥
षण्णवत्यंगुलो यस्तु न्यग्रोधपरिमंडलः । दशतालश्चतुर्हस्तः स देवैरपि पूज्यते ॥ इति वायुप्रोक्ते ॥
अत एव च सर्वागमेषु प्रतिसंहितमाचार्यलक्षणमुच्यते ।
अथ होवाच ब्राह्मणा भगवन्तो यो वः कामयते स मा पृच्छतु सर्वे वा मा पृच्छत यो व कामयते तं वः पृच्छामीति सर्वान् वा वः पृच्छामीति ते ह ब्राह्मणाः न दधृषुः ॥ २७ ॥
तान् हैतैः श्लोकैः पप्रच्छ ।
यथा वृक्षो वनस्पतिस्तथैव पुरुषोऽमृषा ।
तस्य लोमानि पर्णानि त्वगस्योत्पाटिका बहिः ॥ २८ ॥
त्वच एवास्य रुधिरं प्रस्यंदि त्वच उत्पटः ।
तस्मात् तदा तृणात् प्रैति रसो वृक्षादिवाऽहतात् ॥ २९ ॥
मांसान्यस्य शकराणि किन्नाटं स्राव तत्स्थिरम् ।
अस्थीन्यन्तरतो दारूणि मज्जा मज्जोपमा कृता ॥ ३० ॥
यद्वृक्षो वृक्णो रोहति मूलान्नवतरः पुनः ।
मर्त्यः स्विन् मृत्युना वृक्णः कस्मान्मूलात् प्ररोहति ॥ ३१ ॥
रेतस इति मा वोचत जीवतस्तत्प्रजायते ।
धानारुह इव वै वृक्षोऽञ्जसा प्रेत्य सम्भवः ॥ ३२ ॥
यत्समूलमावृहेयुर्वृक्षं न पुनराभवेत् ।
मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात् प्ररोहति ॥ ३३ ॥
जात एव न जायते को न्वेनं जनयेत् पुनः ।
विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम् ॥ तिष्ठमानस्य तद्विद इति ॥ ७ ॥ ३४ ॥
॥ इति शाकल्यब्राह्मणम् ॥ ५-९ ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्बृहदारण्यकोपनिषद्भाष्ये पञ्चमोऽध्यायः ॥
यथा वनस्पतौ वृक्ष इत्ययंशब्दोऽमृषा तथैव पुरुषे पुरुषशब्दो विद्यमान एव । स च नित्यत्वे सम्भवति । पुरुकालेऽपि सन्पुरुष इति । स्रावमध्ये यत्स्थिरं विद्यतेऽस्थि सल्लीनं तद्दारुसंश्लिष्टपाशवत् । वृक्षो मूलाद्रोहतीत्यंगीकारमात्रम् । यत्समूलमावृहेयुरिति तस्यापि दूषणात् । अन्यस्य रेतसो जननमपि जीवतः पुरुषान्तरस्य भावे । प्रलये तु सर्वप्रलयात् कस्मादुत्पत्तिः । तत्पृष्टं सर्वं वक्तुमशक्यत्वात् पुरुषस्य पुनरुत्पत्तौ कारणं भगवन्तं जानन्तोऽपि तूष्णीमृषयो बभूवुः । पुरुषनामकत्वान्नित्यस्य जीवस्य यावन्मुक्तिः पुनरुत्पत्या भवितव्यं न शरीरेण सह नाशः । तस्य च स्वोत्पत्तावस्वातंत्र्यादन्येनोत्पादकेन भाव्यम् । कोऽसाविति प्रश्नाशयः । तेषु तूष्णीम्भूतेषु स्वयमेव परिहरति विज्ञानमानन्दं ब्रह्मेति । तस्याप्यन्य उत्पादक इत्याशंका मा भूदिति जात एव न जायत इत्याह । पुरुषान्तरापेक्षया पुनःशब्दो न तु क्रियाभ्यासापेक्षया । एक एव हरिर्बन्धुः पुनरन्यो न विद्यते इतिवत् । रातिरिष्टः । तिष्ठमानस्य तद्विदः परायणम् ॥
विजित्य सर्वान् प्रपच्छ याज्ञवल्क्यः पुनर्मुनीन् । यथा वनस्पतौ वृक्षशब्द एवं यथार्थतः ॥ पुरुषेऽपि हि तच्छब्दो नित्यत्वादेव युज्यते । तस्मान्नास्य शरीरेण नाशस्तस्मात् पुनर्जनिः ॥ आमुक्तेर्भविता नित्यं कुतस्तदिति चोच्यताम् । रेतसो जननं यावत्प्रलयस्तावदेव हि ॥ निर्मूलस्य च वृक्षस्य प्रलये पुरुषस्य च । पुनरुत्पादको यस्तं वदन्तु मम कृत्स्नशः ॥ धानाजात इवायं हि दृश्यते विदुषां तरुः । अस्वातंत्र्यात् तु विदुषां नैव तत्कारणं भवेत् ॥ अंजसा प्रेत्य सम्भूतिकारणं तद्वदन्तु नः । प्रेत्य सम्भूतिकर्ता हि स्वतंत्रो घटते यतः ॥ इति पृष्टास्तु मुनयो न वक्तुं शेकुरंजसा । तद्वेत्तारोऽपि तत्प्रश्ननिर्मूलनबलोज्झिताः ॥ अधार्ष्ट्यात्तत्प्रभावेन धर्षिता नाशकन्यदा । स्वयमेव तदोवाच याज्ञवल्क्यो महामुनिः ॥ पूर्णानन्दो हरिर्नान्यः कारणं सृज्यसर्जने । नैवास्य जनकः कश्चिन्नित्यजातो ह्यसौ हरिः ॥ स प्रियः सर्वदातॄणां ज्ञानिनां परमप्रियः । ये तु तद्भाविता नित्यं तेषामेष परायणम् ॥ इति नारदीये ।