अथ वंशः पौतिमाष्यो गौपवनात्

अथ वंशः पौतिमाष्यो गौपवनात् ।

गौपवनः पौतिमाष्यात् ।

पौतिमाष्यो गौपवनात्।

गौपवनः कौशिकात् ।

कौशिकः कौण्डिन्यात् ।

कौण्डिन्यः शाण्डिल्यात् ।

शाण्डिल्यः कौशिकाच्च गौतमाच्च ।

गौतमः आग्निवेश्यात्॥ १ ॥

आग्निवेश्यः शाण्डिल्याच्च अनभिम्लाताच्च ।

अनभिम्लात आनभिम्लातादानभिम्लातो गौतमात् ।

गौतमः सैतवप्राचीनयोग्याभ्यां ।

सैतवप्राचीनयोग्यौ पाराशर्यात् ।

पाराशर्यो भारद्वाजात् ।

भारद्वाजो भारद्वाजाच्च गौतमाच्च ।

गौतमो भारद्वाजात्।

भारद्वाजः पाराशर्यात्,

पाराशर्यो बैजवापायनाद् बैजवापायनः ।

कौशिकायनेः कौशिकायनिः ॥ २ ॥

धृतकौशिकात् धृतकौशिकः।

पाराशर्यायणात् पाराशर्यायणः ।

पाराशर्यात् पाराशर्यो जातूकर्ण्यात् जातूकर्ण्यः ।

आसुरायणाच्च यास्काच्च आसुरायणस्त्रैवर्णेस्त्रैवर्णिः ।

औपबन्धनेरौपबन्धनिः ।

आसुरेः आसुरिर्भारद्वाजात् भारद्वाज

आत्रेयात् आत्रेयो माण्टेः।

माण्टिर्गौतमात् ।

गौतमो वात्स्यात् ।

वात्स्यः शाण्डिल्यात् ।

शाण्डिल्यः कैशोर्यात् काप्यात्।

कैशोर्यः काप्यः कुमारहारितात्।

कुमारहारितो गालवात् ।

गालवो विदर्भीकौण्डिन्यात् ।

विदर्भीकौण्डिन्यो वत्सनपादो बाभ्रवात्,

वत्सनपाद्बाभ्रवः पथः सौभरात् पन्थाः ।

सौभरो अयास्यात् आङ्गिरसादयास्य आङ्गिरस आभूतेस्त्वाष्ट्राद् ।

आभूतिस्त्वाष्ट्रो विश्वरूपात् त्वाष्ट्रात् ।

विश्वरूपस्त्वाष्ट्रोऽश्विभ्याम् ।

अश्विनौ दधीच आथर्वणात् ।

दध्यङ् आथर्वणोथर्वणो दैवाद्।

अथर्वा दैवो मृत्योः प्राध्वंसनात् ।

मृत्युः प्राध्वंसनः प्रध्वंसनात्।

प्रध्वंसन एकऋषेः ।

एकऋषिर्विप्रचित्तेः ।

विप्रचित्तिः व्यष्टेः ।

व्यष्टिः सनारोः ।

सनारुः सनातनात् ।

सनातनः सनकात् ।

सनकः परमेष्ठिनः परमेष्ठी ब्रह्मणो।

ब्रह्म स्वयम्भुब्रह्मणे नमः ॥ ३ ॥

॥ इति वंशब्राह्मणम् ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्बृहदारण्यकोपनिषद्भाष्ये चतुर्थोऽध्यायः ॥

पाराशर्यो जातुकर्ण्यः पराशरसुतावुभौ । विप्रायामेव भार्यायां तृतीयः कृष्ण एव च ॥ इति ब्रह्माण्डे । परस्य ब्रह्मणो विष्णोर्हयशीर्षादधीतवान् । ब्रह्मविद्यामिमां ब्रह्मा ततः सनक एव च ॥ इति गारुडे ॥