यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः
[ मुक्तौ मरणं न भवति ]
उपनिषत्
तदेष श्लोको भवति ॥
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुत इति ॥ तद् यथाऽहिर्निर्लयनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदं शरीरं शेतेऽथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव सोऽहं भगवते सहस्रं ददामीति होवाच जनको वैदेहः ॥ ७ ॥
भाष्यम्
'अथ मर्त्योऽमृतो भवति' अथ मुक्त्यनन्तरं न कदाचिन्मृतिरस्य भविष्यती- त्यर्थः । मुक्त एव परे ब्रह्मणीच्छया प्रविशति निःसरति च । दर्शनादीन् ब्रह्मणो भोगांश्च करोति । स्वरूपभूता: कामा मुक्तानां भवन्तीत्यतो हृदि श्रिता इति विशेषणम् । हृदयस्यैव मोचनात्तत्स्था: कामा मुक्तानामपगच्छन्तीति युक्तमेव । नह्यमुक्तस्य कदाचित्सर्वे कामा मुच्यन्ते । सुत्यादावप्यभिभव एव वासनाया विद्यमानत्वात् । वासनाया हि पुनरुद्भवः ।
भावबोधटिप्पणी
अथ मर्त्योऽमृतो भवतीत्यस्य यतः सर्वकामप्रहाणं अथ ततो तोस्तदा मर्त्योऽमृतो भवति । किं तदमृतत्वं वेत्यत उक्तम् || अत्रेति || अत्रास्मिन् शरीरे स्थितस्सन् ब्रह्म समश्रुते तद्भावं भुङ्क्त इति व्याख्यानमसत् । सर्वकामप्रहाणस्यैव मोक्षत्वेन तस्य तत्साधनत्वाभावात् जीवस्य ब्रह्म- भावस्याप्रामाणिकत्वाच्चेति भावेन तदनूद्य व्याचष्टे - अथेति । तथाच न तस्य प्राणा उत्क्रामन्तीत्युक्तार्थे इदं प्रमाणमिति भावः । अत्र ब्रह्म समश्नुत इति मोक्षे ब्रह्मणो मुक्तभोग्यत्वमुच्यते तदयुक्तं असङ्गतं च पूर्वमस्यार्थस्यानुक्तत्वेनोक्तार्थेऽस्य प्रमाणत्वायोगादित्यतो ब्रह्म समश्रुत इत्यस्य ब्रह्म प्राप्नोतीत्यर्थमभिप्रेत्य तत्तात्पर्यमाह - मुक्त एवेति ॥ मुक्त एवेत्यवधारणेनाथाकामयमान इत्यादेरमुक्तपरत्वाङ्गीकारे अत्र ब्रह्म समश्रुत इति मन्त्रोऽसङ्गतः स्यात् । तस्यामुक्तेऽसम्भवादिति सूचयति । समित्यस्यार्थः स्वेच्छयेति । समश्नुत इत्यस्य भोगं करोतीत्यर्थमभिप्रेत्याह- दर्शनादीनीति | भोगानित्यस्य विवरणं ब्रह्मणो दर्शनादीनिति कर्मणि षष्ठी । यद्वा षट्सु द्वितीयेति सूत्रात्पञ्चम्यर्थे द्वितीयेति भावेन ब्रह्मण इत्युक्तं ब्रह्म प्रसादादित्यर्थः । एतदनुसारेण ब्रह्माप्येतीत्येतद् भोगार्थत्वेनापि व्याख्येयमिति नासङ्गतिरिति भावः । यदा सर्वे प्रमुच्यन्ते कामायेस्येत्येतावता पूर्णत्वाद्धृदि श्रिता इति विशेषणं व्यर्थं व्यावर्त्याभावादित्यत आह- स्वरूपभूता इति || यदीदं विशेषणं न स्यात् तदा सर्वकामविमोचनोक्तिर्बाधिता स्यात् मुक्तानां स्वरूपभूतकामसद्भावात् । अतोऽन्तःकरणस्थानामेव कामानां निवृत्तिं प्रतिपादयितुं तद्विशेषणमित्यर्थः । ननु मुक्तस्यापि हृदिस्थाः सर्वे कामाः मुच्यन्त इति कुत इत्यत आह- हृदयस्यैवेति । अथाकामयमान इत्यादेरमुक्तपरत्वाङ्गीकारे तत्रोदाहृतश्लोके यदा सर्वे प्रमुच्यन्ते इत्येतदयुक्तं स्यादित्याह — नहीति ।। नन्वमुक्तस्यापि सुप्तिमोहयोस्सर्वकामविमोचनमस्त्येव । तदा कामानामनुपलम्भात् ' यत्र सुप्तो न कञ्चन कामं कामयते' इत्यादिश्रुतेश्च । तत्कथमेवमुक्तमिति चेन्न । सुप्त्यादावप्यात्मनः कामसद्भावात् । नच श्रुत्यानुपलम्भेन च विरोधः । विद्यमानानामपि कामानां तदानीमव्यक्तत्वेन श्रौताभावव्यवहारस्यानुपलम्भस्य चोपपत्तेरित्याशयवानाह– सुप्त्यादाविति ॥ आदिपदेन मोहग्रहणम् । अभिभवोऽव्यक्तिः । एवपंदेन अभावव्यावृत्तिः । ननु सुप्त्यादौ कामसद्भावे सिद्धे युक्तमव्यक्तिकल्पनम् । स एव कुत इत्यत आह-- वासनाया इति ।। कामवासनाया इत्यर्थः । वासनारूपेण कामस्य सुप्त्यादावनुवर्तमानत्वादिति यावत् । स्यादेतत् यदि तदा कामवासनासद्भाव एव सिद्धः स्यात् स एव कुत इत्यत आह- वासनाया हीति । वासनाया इति षष्ठी पुनरुद्भवोऽभिव्यक्ति: । अयमाशयः । यत्कामो देवदत्तः स्वापमाप्नोति तस्यैव कामस्योत्थापनान्तरं पुनरुद्भवः तावदस्ति भोजनादिकामनया सुप्तस्य पुनरुत्थापितस्य तद्विषयकव्यवहारस्यैव कदाचिदर्शनेन तदा तस्य काम- सद्भावानुमानात् । नचासावुत्थानानन्तरमेवोत्पन्नः । तदा देवदत्तस्यावशत्वात् । वस्तुदर्शने अनुमानादिनेष्टसाधनताज्ञाने च सति खलु कामोदयः स्यात् । नचावशस्यैवंविधा कामसामग्री कल्पयितुं शक्या । अतः प्राक्तनस्य सुप्त्यादावनुवर्तमानस्य पुनरुद्भवो वाच्यः । नच प्राक्तनस्यापि कामस्याभिव्यक्तस्यैव तदाऽनुवर्तमानत्वं वक्तुं शक्यम् । श्रुत्यनुपलम्भबाधपरिहारोपायाभावात् तस्माद् बासनारूपेण विद्यमानस्य सहकारिविशेषलाभे पुनरुद्भवो भवतीत्यङ्गीकार्यम् । तथाच यदि सुप्त्यादौ कामवासनैव न स्यात् । तदा कस्य पुनरुद्भवः स्यादिति । उक्तं च ‘यत्कामः स्वापमाप्नोति तदेवोत्थापितः पुनः । अवशोऽपि व्याहरति कुतः सुप्तावकामता' इति ।