सा वा एषा देवता दूर्नाम ..
उपनिषत्
सा वा एषा देवता दूर्नाम । दूरं ह्यस्या मृत्युर्दूरं ह वा अस्मान्मृत्युर्भवति । य एवं वेद ॥ ९ ॥
सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्य यत्तासां दिशामन्तस्तद्गमयाञ्चकार तदासां पाप्मनो विन्यदधात् । तस्मान्न जनमियान्नान्तमियान्नेत्पाप्मानं मृत्युमन्ववायानीति ॥ १० ॥
सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्याथैनां मृत्युमत्यवहत् ॥ ११ ॥
स वै वाचमेव प्रथमामत्यवहत् । सा या यदा मृत्युमत्यमुच्यत सोऽग्निरभवत् ।सोऽयमग्निः परेण मृत्युरतिक्रान्तो दीप्यते ॥ १२ ॥
अथ घ्राणमत्यवहत्स यदा मृत्युमत्यमुच्यत ।स वायुरभवत् सोऽयं वायुः परेण मृत्युमतिक्रान्तः पवते ॥ १३ ॥
अथ चक्षुरत्यवहत् तद्यदा मृत्युमत्यमुच्यत। स आदित्योऽभवत् । सोऽसावादित्यः परेण मृत्युमतिक्रान्तः तपति ॥ १४ ॥
अथ श्रोत्रमत्यवहत् तद्यदा मृत्युमत्यमुच्यत। दिशोऽभवन् । ता इमा दिशः परेण मृत्युमतिक्रान्ताः ॥ १५ ॥
अथ मनोऽत्यवहत् तद्यदा मृत्युमत्यमुच्यत ।स चन्द्रमा अभवत् सोऽसौ चन्द्रः परेण मृत्युमतिक्रान्तो भाति । एवं ह वा एनमेषा देवता मृत्युमतिवहति । य एवं वेद ॥ १६ ॥
भाष्यम्
स वायू रुद्रशक्रादेर्वासुदेवबलाश्रयः ॥
विमोच्य पापसङ्घातं दिशामन्तेष्वथाक्षिपत् ।
उन्मुच्य मृत्योस्तांश्चैवाथोर्ध्वलोकेषु चावहत् ॥
अग्निर्नासिक्यवायुश्च दिक्पा इन्द्रादयोऽखिलाः ।
सूर्य: सोमश्च रुद्रश्च तेनैव स्वपदे स्थिताः ॥
भावबोधटिप्पणी
'सा वा एषा देवता एतासाम्' इत्यादि गमयाञ्चकारेत्यन्तं वाक्यं व्याचष्टे— स वायुरिति । एषेत्यस्यार्थः वासुदेवबलाश्रय इति - रुद्रशक्रादेः सकाशात् विमुच्य मोचयित्वा । ‘एतासां देवतानाम्' इत्यादि ‘अवहत्’इत्यन्तं वाक्यं व्याचष्टे– उन्मुच्येति ॥ ' स वै वाचमेव प्रथमामत्यवहत्' इत्यादिखण्ड-पञ्चकतात्पर्यमाह— अग्निरिति । दिश इत्यस्यार्थः दिक्पा इति । के ते? इत्यत उक्तम्- इन्द्रादय इति ।। रुद्रोऽपि मनोभिमानी ।। ८-१६ ॥