यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च श्रेष्ठश्च ..
अथ अष्टमोऽध्यायः
[तस्माद्वायुर्देवदेवो विशिष्टः ]
उपनिषत्
यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति प्राणो वै ज्येष्ठश्च श्रेष्ठश्च । ज्येष्ठश्च श्रेष्ठश्च स्वानां भवत्यपि च येषां बुभूषति य एवं वेद ॥ १ ॥
यो ह वै वसिष्ठां वेद वसिष्ठः स्वानां भवति वाग्वै वसिष्ठा वसिष्ठः स्वानां भवत्यपि च येषां बुभूषति य एवं वेद ॥ २ ॥
यो ह वै प्रतिष्ठां वेद प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे चक्षुर्वै प्रतिष्ठा चक्षुषा हि समे च दुर्गे च प्रतितिष्ठति । प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे य एवं वेद ॥ ३ ॥
यो ह वै सम्पदं वेद सर्वं हास्मै पद्यते यं कामं कामयते श्रोत्रं वै सम्पच्छ्रोत्रे हीमे सर्वे वेदा अभिसम्पन्ना सं हास्मै पद्यते थं कामं कामयते य एवं वेद ॥ ४ ॥
यो ह वा आयतनं वेदायतनं स्वानां भवत्यायतनं जनानां मनो वा आयतनमायतनं स्वानां भवत्यायतनं जनानां य एवं वेद ॥५॥
यो ह वै प्रजापतिं वेद प्रजापते ह प्रजया पशुभी रेतो वै प्रजापतिः प्रजायते ह प्रजया पशुभिर्य एवं वेद ॥ ६ ॥
ते हेमे प्राणा अहं श्रेयसे विविदमाना ब्रह्म जग्मुस्तद्धोचुः को नो वसिष्ठ इति तद्धोवाच यस्मिन् व उत्क्रान्त इदं शरीरं पापीयो मन्यते स वो वसिष्ठ इति ॥ ७ ॥
वाग्घोच्चक्राम सा संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ते होचुर्यथा अकला अवदन्तो वाचा प्राणन्तः प्राणेन पश्यन्तः चक्षुषा शृण्वन्तः श्रोत्रेण विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति प्रविवेश ह वाक् ॥ ८ ॥
चक्षुः होच्चक्राम तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ते होचुर्यथा अन्धा अपश्यन्तश्चक्षुषा प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्त श्रोत्रेण विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति प्रविवेश ह चक्षुः ॥ ९ ॥
श्रोत्रं होच्चक्राम तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ते होचुर्यथा बधिराः अशृण्वन्तः श्रोत्रेण प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति प्रविवेश ह श्रोत्रम् ॥ १० ॥
मनो होच्चक्राम तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ते होचुर्यथा मुग्धाः अविद्वांसो मनसा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण प्रजायमाना रेतसैवमजीविष्मेति प्रविवेश ह मनः ॥ ११ ॥
रेतो होच्चक्राम तत्संवत्सरं प्रोष्यागत्योवाच । कथमशकत मदृते जीवितुमिति ते होचुर्यथा क्लीबाः अप्रजायमाना रेतसा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वांसो मनसैवमजीविष्मेति प्रविवेश ह रेतः ॥ १२ ॥
अथ ह प्राणः उत्क्रमिष्यन् यथा महासुहयः सैन्धवः पट्वीशशङ्कून् संवृहेदेवं हैवेमान् प्राणान् सम्बबर्ह ते होचुर्मा भगव उत्क्रामीर्न वै शक्ष्यामस्त्वदृते जीवितुमिति तस्यो मे बलिं कुरुतेति तथेति ॥१३॥
सा ह वागुवाच यद्वा अहं वसिष्ठाऽस्मि त्वं तद्वसिष्ठोऽसीति यद्वा अहं प्रतिष्ठाऽस्मि त्वं तत्प्रतिष्ठासीति चक्षुर्यद्वा अहं सम्पदस्मि त्वं तत्सम्पदसीति श्रोत्रं यद्वा अहमायतनमस्मि त्वं तदायतनमसीति मनो यद्वा अहं प्रजापतिरस्मि त्वं तत्प्रजापतिरसीति रेतः तस्योमे किमन्नं किं वास इति यदिदं किञ्च आ श्वभ्यः आ क्रिमिभ्यः आ कीटपतंगेभ्यः तत्तेऽन्नमापो वास इति न ह वा अस्यानन्नं जग्धं भवति नानन्नं परिगृहीतं य एवमेतदनस्यान्नं वेद तद्विद्वांसः श्रोत्रिया अशिष्यन्त आचामन्त्यशित्वा चाचामन्त्येतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते तस्मादेवं विद्वानशिष्यन्नाचामेदशित्वा चाचामेत् ॥ १४ ॥
इति प्रथमं ब्राह्मणम्
भाष्यम्
अहंश्रेयोविवादं तु येन कृत्वाखिलाः सुराः ।
असमर्थाः स्वरक्षायां स वायुः सुरनायकः ॥
विवदन्तोऽखिला देवा ययुर्नारायणं प्रभुम् ।
अहं श्रेयानहं श्रेयानिति वायुपुरःसराः ।
उक्तं भगवता तेन येन त्यक्तेऽखिला अपि ॥
स्थातुं न शक्ताः स श्रेयानित्युक्ताः पुनरागताः ।
उत्क्रान्ताश्च पुनः सर्वे तद्विज्ञप्त्यै पृथक् पृथक् ।।
सुपर्णशेषरुद्रेन्द्रसूर्यादिषु पृथक् पृथक् ।
उत्क्रान्तेषु ब्रह्मदेहाच्छरीरं न पपात ह ॥
ऋत उत्क्रान्तमेकं तु तदन्ये निविशन्ति च ।
प्राण उच्चिक्रमिषति स्थातुं नाशक्नुवन् परे ॥
प्राणं विना नच ब्रह्मा तं विना प्राण एव च ।
अन्योऽन्यापाश्रयाच्छक्तौ स्थातुमन्ये कुतस्ततः ॥
तस्मात् प्राणो वरो देवेष्विति सर्वेऽपि मेनिरे ॥ इति पवमाने ॥
भावबोधटिप्पणी
सप्तमाध्यायोक्तविद्याशेषभूता विद्या अष्टमाध्याये निरूप्यन्ते । तत्रादौ प्रमाण- विषयां विद्यामाह - यो ह वा इत्यादिना || अत्रेन्द्रियाणां जडानामेव परस्परं विवाद इत्युच्यत इति प्रतीतिनिरासाय तद्ब्राह्मणं प्रमाणेन व्याचक्षाणस्ताव- तात्पर्यमाह - अहमिति || अहं श्रेयानित्यर्थे विवादम् । असमर्थां जाताः स वायुः सुरनायकः निश्चित इति शेषः । एवं तात्पर्यतो व्याख्याय ते हेमे प्राणा अहं श्रेयसे विवदमाना ब्रह्म जग्मुरिति वाक्यं व्याचष्टे - विवदन्त इति ॥ अहं श्रेयानहं श्रेयानिति विवदन्त इति सम्बन्धः । तद्धोवाच यस्मिन् व उत्क्रान्त इदं शरीरं पापीयो मन्यते स वो वसिष्ठ इति वाक्यं तात्पर्यतो व्याचष्टे - उक्त- मिति | त्यक्ते देह इति शेषः । स वो वसिष्ठ इत्यनन्तरं वक्तव्यमाह- इत्युक्ता इति । वाग्घोच्चक्राम चक्षुर्हो चक्रामेत्यादीनि वाक्यानि व्याचष्टे – उत्क्रान्ताश्चेति ।। तद्विज्ञत्यै भगवदुक्तपरीक्षार्थं सा संवत्सरं प्रोष्याऽगत्योवाचेत्यादि एवमजीवि- ष्मेत्यन्तानि वाक्यानि । अत्र वागादिशब्दैः प्रसिद्धवागादिकमुच्यत इत्यन्यथा- प्रतीतिनिरासाय तात्पर्यतो व्याचष्टे - सुपर्णेति । अत्र सुपर्णशेषरुद्राः मनोभि- मानिनः । इन्द्रः श्रोत्राभिमानी । सूर्यश्चक्षुरभिमानी । आदिपदेन वागभिमान्यग्नी रेतोऽभिमानी वरुणश्च ग्राह्यः । यथोक्तमन्यत्र - 'अग्निरेव तु । उपचारतो वसिष्ठः स्यात्प्रतिष्ठैवं रविस्तथा । सम्पदिन्द्रस्तथैवोक्तो रुद्र आयतनं तथा' इति 'वरुणो वीर्यदेवता' इति च । नन्वेकस्योत्क्रान्तत्वात्कथं शरीरं न पपातेत्यत आह- ऋत इति ।। अनेन यथाऽकला अवदन्तो वा चाप्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वांसो मनसा प्रजायमाना रेतसेत्यादीनि वाक्यानि व्याख्यातानि । अथ ह प्राण उत्क्रमिष्यन्नित्यादि न वै शक्ष्यामस्त्वदृते जीवितुमितीत्यन्तवाक्यस्य तात्पर्यमाह - प्राण इति । एतदेव कैमुत्येन साधयति - प्राणं विनेति । यदा प्राणं विना ब्रह्मापि स्थातुं नैव शक्तस्ततस्तदाऽन्ये स्थातुं न शक्ता इति कुतः किंमु इति सम्बन्धः । यद्वा यदा यस्माद्ब्रह्माप्यसमर्थः ततस्तस्मादन्ये कुतः कारणाच्छक्ता इत्यर्थः । तर्ह्येवं प्राणोऽनन्यापेक्षः किन्नेत्याह- तं विनेति ।। तं ब्रह्माणं विना प्राणोऽपि स्थातुं नैव शक्त इत्यर्थः । प्राणब्रह्माणौ परस्परानाश्रयेण स्थातुमशक्तौ चेत्कथं तिष्ठत इत्यत आह- अन्योन्येति ।। नन्वेवं सति ‘उदासीनवदास्तां तौ केशवश्चाब्जसम्भवः । तेषां बलपरीक्षार्थम्' इति 'हरेर्विरिञ्चस्य तु मध्यसंस्थितेः ‘तदन्यदेवाधिपतिः स मारुतः' इति वचनेन विरोधः स्यादिति चेन्न । अत्रापि प्राणंकलहे ब्रह्मणो प्रवेशात् श्रुतौ तथानुक्तत्वात् प्राणं विनेति वचनं तु प्राणब्रह्मणोः स्वस्वशरीरे स्थातुं परस्परं सापेक्षावेव समर्थौ नतु निरपेक्षौ । वायुं विना ब्रह्मणोऽपि शरीरं पूतिमेष्यति । वायुश्च शोषमायाति विना ब्रह्माणमित्युक्त-त्वात् । सति चैवं यदा वायुव्यतिरेकेण ब्रह्मा स्वशरीरस्थितावसमर्थः किम्वन्य इत्येवं परम् । ननु यस्माच्छरीराद्देवानामुत्क्रमणमासीत्सोऽपि ब्रह्म- देहः । तथाच कथं विष्णुं ब्रह्माणं विना वायुमात्रेण तद्देहावस्थानमिति चेन्न । तयोस्तत्रोदासीनमात्रत्वेन नियमेन व्यतिरेकाभावादिति ज्ञेयम् । ते होचुर्मा भगवन्नुत्क्रामीर्न वै शक्ष्यामस्त्वदृते जीवितुमिति वाक्यफलितमाह - तस्मादिति ॥ तथाच श्रुत्यन्तरं तं हाभिसमेत्योचुर्भगवन्नेधि त्वं नः श्रेयोऽसि मोत्क्रामीरिति ।। ८.१.१४ ।।
खण्डार्थः
प्राणज्ञानमवश्यं सम्पाद्यमिति भावेन तज्ज्ञानिनः फलमाह - यो ह वा इति ।। योऽधिकारी अखिलदेवानां वयसा ज्येष्ठं गुणतः श्रेष्ठं च वेद स इहैव स्वानां मध्ये ज्येष्ठश्च श्रेष्ठश्च भवति ज्येष्ठ श्रेष्ठश्च क इत्यत आह- प्राण इति ।। न केवलं प्राणस्य ज्येष्ठत्वश्रेष्ठत्ववेत्तुरुक्तं फलमैहिकमात्रं ज्ञायते किन्तु मौक्तं चेति भावेन फलान्तरमाह - ज्येष्ठश्चेति । य एवं वेद सः न केवलममुक्तौ स्वानां मध्य एव अपिच अपितु मुक्तावपि येषां मध्ये ज्येष्ठः श्रेष्ठश्च बुभूषति भवितुमिच्छति तेषां मध्ये ज्येष्ठः श्रेष्ठश्च भवतीत्यर्थः । यथोक्तम्- ‘यः श्रेष्ठं ज्येष्ठ- मखिलं देवानां वायुमञ्जसा । वेद सः स्वसमानानां ज्येष्ठः श्रेष्ठो विमुक्तिगः' इति १ ॥
यो ह वै वसिष्ठां वसतामुत्तमां वेद स इहैव स्वानां स्वकीयानां वसिष्ठो वसतामुत्तम भवति । का वसिष्ठेत्यत आह- वाग्वा इति ।। वागभिमान्यग्निरित्यर्थः । यथोक्तम् 'अग्निरेव तु उपचारतो वसिष्ठः स्यात्' इति । न केवलं वाचो वसिष्ठत्ववेत्तुरुक्त- मैहिकमात्रफलं किन्तु मौक्तं चेति भावेन फलान्तरमाह--- वसिष्ठ इति ।। यथोक्तं 'समीपे वसतां श्रेष्ठो वसिष्ठस्यैव वेदनात्' इति ॥ २ ॥
यो ह वै प्रतिष्ठां वेद स ज्ञानी यदि एतल्लोके स्थितीच्छुः तदा समे सर्वप्राप्यतया सर्वसाधारणे अस्मिन् लोके प्रतितिष्ठति । यदि स्वर्गादिलोके स्थितीच्छुः तदा दुर्गे गन्तुमशक्ये अमुष्मिन् स्वर्गादिलोके प्रतितिष्ठति । तथाच श्रुत्यन्तरम्— ‘यो यो ह वै प्रतिष्ठां वेद प्रति तिष्ठत्यस्मिँल्लोकेऽमुष्मिंश्च' इति । का प्रतिष्ठेत्यत आह- चक्षुर्वै प्रतिष्ठेति । चक्षुः सूर्यः । यथोक्तं 'प्रतिष्ठैवं रविस्तथा' इति । तदुपपादयति- चक्षुषा हीति ॥ न केवलं सूर्यस्य प्रतिष्ठात्ववेत्तुरुक्तं फलमैहिकमात्रं किन्तु मौक्तं चेति भावेनाह- प्रतितिष्ठतीति ॥ य एवं वेद स ज्ञानी यदि सान्तानिक- लोकस्थितीच्छ्रुस्तदा स मे सर्वयोग्यसाधारणे अस्मिन् सान्तानिकलोके प्रतितिष्ठति । यदि विष्णुलोके स्थितीच्छ्रुस्तदा दुर्गेऽन्यैर्गन्तुमशक्ये विष्णुलोके प्रतितिष्ठती- त्यर्थः । यथोक्तं ‘एकस्थाने स्थितिस्तु स्यात्प्रतिष्ठाज्ञस्य चेच्छतः' इति ।। ३ ।।
यो ह वै सम्पदं वेद स इह यं कामं कामयते सोऽस्मै ज्ञानिने सम्पद्यते ह का सम्पदित्यत आह- श्रोत्रमिति । श्रोत्राभिमानी इन्द्रः । यथोक्तं 'सम्पदि- न्द्रस्तथैवोक्तः' इति । तदुपपादयति- श्रोत्रे हीति || तज्ज्ञानिनो मौक्तं चोक्तं फलमाह- समिति || यथोक्तं 'सम्पद्धेत्तुः सम्पदः स्युः' इति ।। ४ ।।
यो ह वा आयतनं वेद स स्वानां स्वकीयानामायतनं गृहमाश्रयो भवति ।न केवलं स्वानामेव किन्त्वन्येषामपि जनानामायतनं भवति । किमायतनमित्यत आह- मन इति ।। मनोभिमानिनः शेषसुपर्णरुद्राः । यथोक्तं— ‘रुद्र आयतनं तथा' इति । तत्र सुपर्णशेषरुद्रेत्येतद्भाष्यानुसारेण रुद्रशब्दोऽन्योपलक्षकः । तज्ज्ञानिनो मौक्तं चोक्तं फलमाह - आयतनमिति || यथोक्तं- 'गृहं चायतनं विदुः' इति ।। ५ ।।
यो ह वै प्रजापतिं वेद स प्रजया पशुभिश्च प्रजायते प्रकृष्टो जायते कः प्रजापतिरित्यत आह- रेत इति । रेतोऽभिमानी वरुणः | मौक्तं च फलमाह - प्रजायत इति ॥ ६ ॥
प्राणस्य ज्येष्ठत्वं श्रेष्ठत्वं चोक्तं तत्कुत इत्यतो मीमांसया समर्थितत्वादिति भावेनाख्यायिकामाह– ते हेम इति ।। त इमे पूर्वोक्ताः प्राणाः वायुपुरःसराः देवाः अहं श्रेयसे अहं श्रेयानित्यर्थे विवदमानाः ब्रह्मनारायणाख्यं प्रति जग्मुर्ह । तत्र गत्वा देवास्तन्नारायणाख्यं ब्रह्म प्रत्यूचुः किमिति नोऽस्माकं मध्ये को वसिष्ठः श्रेष्ठ इति । एवमुक्तं तद्ब्रह्म देवान् प्रत्युवाच किमिति वो युष्माकं मध्ये यस्मिन्नुत्क्रान्ते अस्माच्छरीरान्निर्गते सति इदं शरीरं ब्रह्मशरीरं पापीयः पापिष्ठं मन्यते लोकः स वो युष्माकं मध्ये वसिष्ठः श्रेष्ठ इति । यस्मिन्नुत्क्रान्ते सत्यन्ये स्थातुमशक्ताः स श्रेयानिति भावः ।। ७ ।।
एवमुक्ते सति तत्परीक्षणाय तेषां मध्ये वागुच्चक्राम ह । तदुत्क्रमणेऽपि शरीरं न पपातेति ग्राह्यम् । सोत्क्रान्ता वाक् संवत्सरं संवत्सरपर्यन्तं प्रोष्यान्यत्र स्थित्वा पुनर्ब्रह्मदेहस्थान् देवान् प्रत्यागत्योवाच । किमिति यूयं मदृते मां विना जीवितुं स्थातुं कथमशकतेति । एवमुक्तास्ते देवाः ऊचुर्ह यथा अकला मूकाः वाचा वागिन्द्रियेणावदन्तोऽपि प्राणेन प्राणन्तः चक्षुषा पश्यन्तः श्रोत्रेण शृण्वन्तो मनसा विद्वांसो रेतसा प्रजायमानाः प्रजामुत्पादयन्तो जीवन्ति एवमजीविष्मेति । एवमुक्ता नाहं वसिष्ठेति निश्चित्य तस्मिन् शरीरे प्रविवेश ह ॥ ८ ॥
एवं चक्षुर्होच्चक्रामेत्यादि व्याख्येयम् ॥ ९-१० ॥
यथा मुग्धाः षण्मासाः बालाः मनसाऽविद्वांसः । यथोक्तं— ' षण्मासात्पूर्वबालानां केवलं प्राणतो भवेत् । व्यापार्यं मनसा सर्वमतः पश्चादपस्मृतिः' इति ।।११-१२ ॥
अथ ह यथा लोके महासुहयः महांश्चासौ सुहयश्चेति महासुहयः परिमाणतो महान् सुशोभनलक्षणोपेतो यः सैन्धवः सिन्धुदेशभवः अश्वपरीक्षार्थं पुरुषेणारूढः कशावेत्रादिना ताडितश्च पट्वीशशङ्कन् पटनशीलाः पटवस्तेषां संहतिः पट्वी तस्याः ईशा नियामकाः पट्वीशाः पट्वीशाश्च ते शङ्कवश्वेति तथोक्तास्तान्। यद्वा पटुभूतस्य हयस्येशा नियामका बन्धका इति यावत् । पट्वीशाः ते च ते शङ्कवश्चेति तथोक्तास्तान् संवृहेत् उन्मूलयेदेवमेव प्राणो मुख्यप्राण उत्क्रमिष्यन् इमान् प्राणान् वागादीन् संबबर्ह स्वस्वस्थानाद्रंशितवान् ह । एतावता किं सिद्धमित्यत आह- ते हेति । ते इमे प्राणा ऊचुर्ह किमिति हे भगवो भगवन् अस्माच्छरीरात् मोत्क्रमीः उत्क्रमणं मा कुरु । कुतः यस्मात् वयं त्वदृते जीवितुं न वै शक्ष्यामः नैव शक्नुम इति । यद्येवं मच्छ्रेष्ठता भगवद्भिर्ज्ञाता तर्हि तस्य उ भवतां श्रेष्ठत्वेनावधृतस्य मे यूयं बलिं पूजां कुरुतेति प्राणेनोक्ता देवास्तथेति पूजां कुर्म इत्यूचुः ।। १३ ।।
तत्प्रकारं दर्शयति- सेति । सा पूर्वोक्ता वागुवाच हे प्राणाहं वसिष्ठास्मि वसतामुत्तमोऽस्मीति यत् त्वं तद्वंसिष्ठासि वै त्वमेव मयि स्थित्वा मदीय वसिष्ठात्वनियामक इत्यर्थः । एवमुत्तरत्रापि । इति चक्षुरुवाचेति सम्बन्धः । यथोक्तं— ‘ज्येष्ठः श्रेष्ठो वसिष्ठश्च सम्पदायतनं तथा । वायुरेव महान्' इति। ‘सर्वेन्द्रियाणां व्यापारान् प्राण एव करोत्ययम् । इन्द्रियस्थः पृथक् चासौ शक्तोऽपि स्वयमेव तु' इति च । एवमुक्तः प्राणस्तस्य मे किमन्नं किं वास इति देवान् प्रत्युवाच । एवमुक्ता देवा ऊचुः । आश्वभ्य आकृमिभ्यः आकीटपतङ्गेभ्यश्च कृमिकीटपतङ्ग- पर्यन्तप्राणिभिर्यदिदं किञ्चान्नमद्यते तत्तेऽन्नं आपस्तैः पीयमाना वास इति । तव सर्वप्राणिस्थत्वात्तदद्यमेव तवानं तत्पेयमेव तव वास इत्यर्थः । नन्वेतदन्नं वासश्च प्राणस्य पूर्वमेव सिद्धं कथं देवैर्दत्तमिति चेत् सिद्धस्यैव देवैः स्वार्थं समर्पणात् । यथोक्तं— ‘सिद्धमेवान्नवस्त्राद्यं विष्णोः स्वातन्त्र्यतस्तदा । स्वार्थं समर्पयेद्विष्णोर्यथा प्राणे सुराः पुरा' इति । सर्वाद्यस्य प्राणान्नत्ववेत्तुः फलमाह - न ह वा इति || य एवमुक्तप्रकारेण एतत्सर्वप्राणिभिरद्यमानं सर्वं अनस्य सर्वप्राणिषु स्थित्वा चेष्टकस्य मुख्यप्राणस्यान्नं वेद अस्य प्राणानविदः कदाचिदभक्ष्यभक्षणेऽपि अनन्नमभक्ष्यं जंग्धं भक्षितं नैव भवति ह । तथा यद्यप्ययमप्रतिग्राह्यं प्रतिगृह्णाति तथाप्यनन्न- मप्रतिग्राह्यं नैव परिगृहीतं भवति । प्रामादिकाभक्ष्यभक्षणाप्रतिग्राह्यप्रतिग्रहकृत- दोषेण न लिप्यत इति भावः । नेदं सर्वाद्यस्य प्राणान्नविदः फलं किन्तु स्तुत्यर्थमे- वोच्यते । फलं च प्राणात्मभाव एवेति वदतो मायावादिनः श्रुतहानिरश्रुतपरि- ग्रहश्च । यस्मादापोवासस्तत्तस्माद्विद्वांसः श्रोत्रिया अधीतच्छन्दसो ब्राह्मणाः अशिष्यन्तो भोक्ष्यमाणा भोजनात्प्राक् अप आचामन्ति । अशित्वा भुक्त्वा चाचामन्ति । केनाभिप्रायेणेत्यत आह- एतमेवेति । एतमेवानं चेष्टकं मुख्यप्राणं तत्तेन भोजनोभयत अपां भक्षणेन अननं वस्त्राच्छादितं कुर्वन्तो मन्यन्ते यस्मादेवं पूर्वे विद्वांसः कुर्वन्ति । तस्मादधुनाप्येवं विद्वानशिष्य- न्नाचामेदशित्वा चाचा- मेत् । एवं कुर्वतः फलं ‘प्राणस्य वस्त्रबुद्धेचा तु भोजनोभयतः पिबन् । स्वर्गे मुक्तौ तथा दिव्यवस्त्रलाभी भवत्यलम्' इति वचनादवगन्तव्यम् ॥ ८.१.१४ ॥