स होवाचाजातशत्रुर्यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः ..

[अवस्थात्रयनियामकभगवदुपासना]

उपनिषत्

स होवाचाजातशत्रुर्यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषः क्वैष तदाऽभूत्स, कुत एतदागादिति तदु ह न मेने गार्ग्यः ॥ १६ ॥

स होवाच । अजातशत्रुर्यत्रैष एतत्सुप्तोऽभूद् , य एष विज्ञानमयः पुरुषस् तदेषां प्राणानां विज्ञानेन विज्ञानमादाय य एषोऽन्तर्हृदय आकाशस्तस्मिन् शेते तानि यदा गृह्णाति अथ हैतत्पुरुषः स्वपिति नाम तद्गृहीत एव प्राणो भवति गृहीता वाग्गृहीतं चक्षुर्गृहीतं श्रोत्रं गृहीतं मनः ॥ १७ ॥

भाष्यम्

स्वहृदिस्थेन भगवद्रूपेण विशेषसम्बन्धदर्शनार्थमेव 'यत्रैष एतत्सुप्तोऽभूत् ' इत्यादि प्रश्नप्रतिवचनं समस्तम् । यत्र यस्मिन् परमेश्वरे विज्ञानमये एष जीवः सुप्तोऽभूत् । यत्रेत्यधिकरणभूत एव य एष विज्ञानमय इति परामृश्यते।अन्योऽन्तर आत्मा विज्ञानमयः' 'विज्ञानं ब्रह्म चेद्वेद' इत्यादि- श्रुतेः । तानि यदा परमात्मा गृह्णाति तदैतत्पुरुषो जीवः स्वपिति नाम ।

भावबोधटिप्पणी

ननु हृदिस्थोपासनमेव मोक्षसाधनमित्यभिप्रेतार्थेऽनुपयोगाद् यत्रैष एतत्सुप्तोऽभूत् इत्यादिप्रश्नः प्रतिवचनं च किमर्थम् । नच हृदिस्थस्य देवस्य परमात्मापेक्षया स्वस्मिन् विशेषसम्बन्धज्ञापनार्थं तदिति वाच्यम् । तस्य बृहन् पाण्डरवास इत्याद्या मन्त्रणेनैव कृतत्वादित्यत आह- स्वहृदिस्थेनेति ।। सम्बोधनेनार्थाज्ज्ञापितो विशेषसम्बन्धः । अत्र तु य एषोऽन्तर्हृदय आकाशः तस्मिन् शेत इत्यादिना मुखत एवेति विशेषः । अत एव तत्र ज्ञापनार्थमित्युक्त्वाऽत्र दर्शनार्थमित्युक्तम् । स यत्र स्वप्नया चरतीत्यादेः सङ्ग्रहार्थं समस्तमित्युक्तम् । य एष प्रसिद्धो विज्ञानमयः पुरुषः पुरि शेत इत्येषः यत्र यदा एतत् स्वपनं यथा भवति तथा सुप्तोऽभूत् तदा एष विज्ञानमयः काभूदिति व्याख्यानमसत् । यत्रेत्यस्य यदेत्यर्थत्वे एष विज्ञानमयः पुरुषो यदा सुप्तोऽभूत् तदा क्वाभूदित्येतावता पूर्णत्वेन शेषवैयर्थ्यादिति भावेन यत्रैष एतत्सुप्तोऽभूदित्येतद् व्याचष्टे - यत्रेति ।। वक्ष्यमाणपरामर्शसौकर्याय विज्ञानमय इत्याह । नन्वेवमपि एष विज्ञानमयः पुरुषो जीवः क्वाभूदित्येतावता पूर्तेर्य एष इति व्यर्थम् । यत्रेत्यस्य परमेश्वर इत्यर्थत्वे चैष तदाऽभूदित्येतत्प्रश्नानुपपत्तिश्चेत्यतो य एष विज्ञानमयइत्येतद् व्याचष्टेयत्रेत्यधिकरणभूत एवेति ।। ततश्चैष परमात्मा क्वाभूदिति प्रश्नवाक्या- र्थत्वान्नानुपपत्तिरिति भावः । विज्ञानमयशब्दस्य परमात्मवाचकत्वे श्रुतिमाहअन्य इति ।। नन्वत्रापि विज्ञानमयशब्दस्य कोशपरत्वाङ्गीकारात् कथमेतद् विवक्षितार्थे मानमित्यत्यतस्तत्रोदाहृतश्लोके ब्रह्मशब्दश्रवणान्नैवं शङ्कयमित्याह- विज्ञानमिति ॥

तानि यदा गृह्णाति अथैतत्पुरुषः स्वपिति नामेत्यत्र पुरुष इत्युक्तजीवस्यैव ग्रहणकर्तृत्वमिति व्याख्यानं निवारयंस्तद्वाक्यं व्याचष्टे - तानीति । तदेषां प्राणानां विज्ञानेन विज्ञानमादायेति इन्द्रियवृत्तिग्रहणकर्तृत्वेन परमात्मन एव प्रकृतत्वादिति भावः ।

Load More