मनसैवानुद्रष्टव्यं नेह नानास्ति किञ्चन

[ भगवान् स्वगतभेदविवर्जितः ]

उपनिषत्

मनसैवानुद्रष्टव्यं नेह नानास्ति किञ्चन ।

मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥ १९ ॥

भाष्यम्

तस्य रूपगुणाद्येषु न कश्चिद्भेद इष्यते ।

तद्भेददर्शी संयाति मृत्योर्मृत्य्वभिधं तमः ॥

भावबोधटिप्पणी

नेह् नानास्ति किञ्चनेति वाक्यमन्यथाप्रतिपत्तिनिरासाय व्याचष्टेतस्येति ।।मृत्योः स मृत्युमिति मन्त्रं व्याचष्टेतद्भेदेति ॥ १९ ॥

Load More