सैषा गायत्र्येतस्मिंस्तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता
प्राणानां रक्षणादेव गायत्री सा प्रकीर्तिता
तां हैतामेते सावित्रीमनुष्टुभमन्वाहुर्वागनुष्टुभेतद्वाचमनुब्रूम ..
स य इमान् त्रींल्लोकान् पूर्णान् प्रतिगृह्णीयात् ..
लोकस्थमनिरुद्धं च प्रद्युम्नं वेदगं तथा
तस्या उपस्थानं गायत्र्यस्येकपदी द्विपदी त्रिपदी ..
एतद्ध वै तज्जनको वैदेहो बुडिलमाश्वतराश्विमुवाच ..
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्
पूषन्नकर्षे यम सूर्य प्राजापत्य व्यूहरश्मीन्
वायुरनिलममृतमथेदं भस्मान्तं शरीरम्
ॐ क्रतो स्मर कृतं स्मर ॐ क्रतो स्मर कृतं स्मर
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान्
सैषा गायत्र्येतस्मिंस्तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता
[ गायत्र्येव सावित्री ]
उपनिषत्
सैषा गायत्र्येतस्मिंस्तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता तद्धैतत्सत्ये प्रतिष्ठितं चक्षुर्वै सत्यं चक्षुर्हि वै सत्यं तस्माद्यदिदानीं द्वौ विवदमानावेयातामहमदर्शमहमश्रौषमिति य एवं ब्रूयादहमदर्श मिति तस्मा एव श्रद्दध्याम तद्वै तत्सत्यं बले प्रतिष्ठितं प्राणो वै बलं तत्प्राणे प्रतिष्ठितं तस्मादाहुर्बलं सत्यादो जीय इत्येवमेषा गायत्र्यध्यात्मं प्रतिष्ठिता सा हैषा गयांस्तत्रे प्राणा वै गयास्तत्प्राणांस्तत्रे तद्यद्गयांस्तत्रे तस्मात् गायत्रीनाम स यामेवामूं सावित्रीमन्वाहैषैव सा स यस्मा अन्वाह तस्य प्राणांस्त्रायते ॥ ५ ॥
भाष्यम्
अभिमानिनी तु गायत्र्या मुख्या श्रीः परिकीर्तिता ।
ब्रह्माण्यमुख्याsतो ज्ञेया सा तु ब्रह्माणमाश्रिता ।
ब्रह्मा तु मुख्यगायत्रीं सा परोरज आश्रयेत् ॥ इति च ॥
तद्वा एतज्जगत्सत्ये प्रतिष्ठितम् । भूमिरन्तरिक्षं द्यौरित्यादिना प्रस्तुतत्त्वात् ।
तद्वा एतज्जगत्सर्वं चक्षुः सूर्याभिमानिनी ।
विराणनामविशेषाख्ये सर्वदा सम्पतिष्ठितम् ॥
शेषः प्रतिष्ठितो वायौ स ह्यसद्बलवत्तरः ।
स सत्य इति सम्प्रोक्तः सन्नस्मिन्याति यद्धरिः ॥
वायुः समाश्रितो देवीं मुख्यां गायत्रिनामिकाम् ।
सा चात्मनामधिपतिमेवं परममाश्रिता ।
भावबोधटिप्पणी
सैषा गायत्र्यैतस्मिंस्तुरीये दर्शते पदे परोरजसि प्रतिष्ठितेति वाक्यस्थगायत्री- शब्दाभिधेयमाह- अभिमानिनी त्विति ।। तर्ह्यनयोः कथं परोरजसि प्रतिष्ठितत्व- मित्यतो ब्रह्माण्याः परम्परया श्रियस्तु साक्षादेवेति भावेनाह - सात्विति || मुख्यगायत्रीं मुख्यगायत्र्यभिमानिनीं तद्वै तत्सत्ये प्रतिष्ठितमित्यस्य तद्वै तत्तुरीयं पदं सत्ये प्रतिष्ठितमिति व्याख्यानमसत् । तुरीयपदस्यानन्याश्रितत्वेन सत्याश्रि- तत्वायोगात् । तद्वै तदिति तत्परामर्शायोगादिति भावेनाह - तद्वा एतदिति ॥ जगतो प्रकृतत्वात्कथं तदेतच्छब्देन तस्य परामर्श इत्यत आह - भूमिरिति ॥ प्रमाणविरुद्धं च परव्याख्यानमिति भावेन तत्र प्रमाणमाह - तद्वा इति । चक्षुर्वै सत्यमित्यत्र न तावच्चक्षुःशब्देन जडमुच्यते । नापि तदभिमानी सूर्यः । उभयोरपि भूमिरन्तरिक्षमित्यादिना प्रस्तुतजगदाश्रयत्वाभावादिति भावेनाह- चक्षुः- सूयाभिमानिनीति | चक्षुः शब्दाभिधेयसूर्याभिमानिनीत्यर्थः । अभिमन्यमान- वाचकस्याभिमानिनि मुख्यत्वात्सूर्याभिमानी शेषः चक्षुः शब्दवाच्य इति भावः । विराण्नामनीति प्रमाणान्तरसङ्ग्रहाय तद्वै तत्सत्यं बले प्रतिष्ठितं प्राणो वै बलमिति वाक्यं व्याचष्टे– शेष इति ।। तस्मादाहुर्बलं सत्यादोजीय इति हेतुवाक्यं व्याचष्टे- स हीति ।। बलवत्तर इत्युक्त्या बलशब्दोऽपि प्राणे व्याख्यातः । सत्यशब्दं शेषे निर्वक्ति– स सत्य इति ।। सन् निर्दुष्टो हरिरस्मिन् याति वर्तत इति शेषः । सत्य इति सम्प्रोक्त इत्यर्थः । बलं सत्यादोजीय इत्यनन्तरं तद्वै तद्वलं गायत्र्यां प्रतिष्ठितमिति ग्राह्यम् । अन्यथा इत्येवमेषा गायत्रीत्यनुवादानुपपत्तेरिति भावेनाह— वायुरिति ।। इत्येवमेषा गायत्र्यध्यात्मं प्रतिष्ठितेति वाक्यं व्याचष्टे - सा चेति ॥ अनेन उशब्दश्चशब्दार्थ इत्युक्तं भवति । यथा जगत्सत्ये प्रतिष्ठितं सत्यं बले बलं गायत्र्यामेवमित्यर्थः । अध्यात्मशब्दार्थ आत्मनामधिपतिमिति ।