स यथाऽऽर्द्रैधाग्नेरभ्याहितात् पृथग्धूमा ..

[ भगवतः हयग्रीवस्य सकाशात् सकलशास्त्राणां आविर्भावः ]  

उपनिषत्

स यथाऽऽर्द्रैधाग्नेरभ्याहितात् पृथग्धूमा विनिश्चरन्त्येवं वा ओऽस्य महतो भूतस्य निःश्वसितमेदद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानान्यस्यैवैतानि निःश्वसितानि ॥ १० ॥