तद् यथा पेशस्करी पेशसो मात्रामुपादायान्यन्नवतरं ..
[ योग्यानामेव मुक्ति: ]
उपनिषत्
तद् यथा पेशस्करी पेशसो मात्रामुपादायान्यन्नवतरं कल्याण- तरं रूपं तनुत एवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयित्वान्यन्नवतरं कल्याणतरं रूपं कुरुते पित्र्यं वा गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वाऽन्येषां वा भूतानाम्
॥ ४ ॥
भाष्यम्
स्वर्णकारो यथा स्वर्णमलमग्नौ निहत्य च ।
शुद्धेन तेन चात्मेष्टं कुरुते रूपमञ्जसा ॥
एवं स भगवान् विष्णुर्जीवस्वर्णस्य यन्मलम् ।
अविद्याकामकर्माद्यमात्माग्नौ नाश्य सर्वकृत् ।
स्वेच्छया कुरुते रूपं यद्योग्यं तस्य मुक्तिगम् ॥
पितृजीवस्य पित्र्यं स गान्धर्वं तस्य चैव हि ।
दैवं तु देवजीवस्य प्राजापत्यं प्रजापतेः ॥
ब्रह्मणो ब्राह्ममेवेति नित्यानन्दस्वरूपकम्॥
न योग्यतां विना क्वापि पूर्वप्रज्ञाश्रुतेः क्वचित् ।
यदा मुक्तो भवेद् ब्रह्मा तदा ब्रह्मा स मुख्यतः ।
एवं प्रजापतिश्चैव तथैवान्येऽपि सर्वशः ।
यथा हि स्वर्णरूप्याद्यं मलहानौ हि तद्भवेत् ।
पूर्वं तु योग्यतामात्रं द्विजत्वं बालके यथा ।। इत्यादि च ॥
भावबोधटिप्पणी
तद् यथा पेशस्कारी पेशसो मात्रामुपादायेत्यादि व्याचष्टे - स्वर्णकार इति ।। कल्याणतरमित्यस्यार्थः स्वर्णमलमग्नौ निहत्येति आत्मेष्टं रूपं रुचककटकादिकं आत्माग्नौ आत्मज्ञानाग्नौ स्वेच्छयाप्ययोग्यानां योग्यं रूपं करोति किमित्यत आह— यद्योग्यमिति ।। एतदेव विवृण्वन् पित्र्यं वेत्यादेरर्थमाह - पितृजीवस्येति । पित्र्यं रूपं कुरुत इति सम्बन्धः तस्य गन्धर्वजीवस्य गान्धर्वमेवेति सम्बन्धः । प्रजापतेः रुद्रस्य । ननु भवत्वेवमुत्सर्गः तथापि कापि देशे कापि काले तत्तद्योग्यतातिक्रमेणापि करोति किं नेत्याह- नेति । विना रूपं कुरुते इत्यनुवर्तते । ननु स्यादेतद् यदि योग्यतैव सिद्धा स्यात् सैव कुत इत्यत आह— पूर्वप्रज्ञेति । तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा चेति श्रुतेर्योग्यतासिद्धिरित्यर्थः । ननु पित्रादिजीवस्य पित्र्यादिरूपं कुरुत इति कथं पित्रादीनां पित्र्यादे रूपस्य पूर्वमेव सिद्धत्वात् सिद्धस्य करणायोगादित्यतः तदभिप्रायमाह – यदेति । ब्रह्मा यदा मुक्तो भवेत् तदैव स मुख्यतो ब्रह्म एवमेव प्रजापतिरपि रुद्रोऽपि शेष इति यावत् यदा मुक्तो भवेत् तदैव मुख्यतः प्रजापतिः अन्येऽपि देवाद्या यदा मुक्ता भवेयुस्तदैव ते मुख्यतो देवाद्याः मुक्तेः पूर्वं तु ब्रह्मादीनां ब्रह्मत्वादियोग्यतामात्रं न मुख्यतो ब्रह्मत्वादिकं अविद्यावृतत्वादित्यर्थः । तथाच पूर्वं विद्यमानमपि पित्र्यादिरूप- मविद्यावृतं तन्निवर्तनेनैव शुद्धं करोतीति भावेनैव तत्करोतीति व्यपदेशो नतु पूर्वमविद्यमानकरणाभिप्रायेणेति भावः । अत्र दृष्टान्तमाह - यथा हीति ॥ स्वर्णरूप्याद्यं तन्मयरुचककटकादिकं मलहानावेव तद्भवेत् मुख्यतः स्वर्णरूप्या- दिमयरुचककटकादिकं भवेत् पूर्वं . मलसद्भावादशायां तु योग्यतामात्रं न मुख्यतः सुवर्णादिमयरुचककटकादिकमित्युच्यत इत्यर्थः । स्वर्णरूपादीति पाठेऽपि स्वर्णमयं रुचककटकादीत्येवार्थः । एकस्यैव पूर्वं योग्यतामात्रं पश्चादतिशयभावेन मुख्यतस्तद्भवनमित्यत्र स्पष्टं दृष्टान्तमाह- द्विजत्वमिति ॥ बालके अनुपनीते यथा द्विजत्वं द्विजत्वयोग्यतैव नतु मुख्यतो द्विजत्वं उपनयनरूपसंस्कारे च यथा मुख्यतो द्विजत्वं तथेत्यर्थः ।