एषां वै भूतानां पृथिवी रसः पृथिव्या आपोऽपामोषधयः

[स्त्रीसङ्गे यज्ञत्वानुसन्धानम् ]

उपनिषत्

एषां वै भूतानां पृथिवी रसः पृथिव्या आपोऽपामोषधयः ओषधीनां पुष्पाणि पुष्पाणां फलानि फलानां पुरुषः पुरुषस्य रेतः ॥ १ ॥

स ह प्रजापतिरीक्षाञ्चक्रे हन्तास्मै प्रतिष्ठां कल्पयानीति स स्रियं ससृजे तां सृष्ट्वाऽध उपास्त तस्मात् स्त्रियमध उपासीत स एतं प्राञ्चं ग्रावाणमात्मन एव समुदपारयत्तेनैनामभ्यसृजन् ॥ २ ॥

तस्या वेदिरुपस्थो लोमानि बर्हिश्चर्माधिषवणो समिद्धो मध्यतस्तौ मुष्कौ स यावान् ह वै वाजपेयेन यजमानस्य लोको भवति तावानस्य लोको भवति य एवं विद्वानधोपहासं चरत्यासां स्त्रीणां सुकृतं वृंक्तेऽथ यदिदमविद्वानधोपहासं चरत्यस्य स्त्रियः सुकृतं वृंजते ॥ ३ ॥

एतद्ध स्म वै तद्विद्वानुद्दालक यामिच्छेद्दधीतेति तस्यामर्थं निष्ठाय मुखेन मुखं सन्धायापान्यभिप्राण्यादिंद्रियेण ते आरुणिराहैतद्ध स्म वै तद्विद्वान्नाको मौद्गल्य आहैतद्ध स्म वै तद्विद्वान् कुमार हारीत आह बहवो मर्या ब्राह्मणायना निरिंद्रिया विसुकृतोऽस्माल्लोकात् प्रयन्ति य इदमविद्वांसोऽधोपहासं चरन्तीति बहु वा इदं सुप्तस्य वा जाग्रतो वा रेतः स्कन्दति ॥ ४ ॥

तदभिमृशेदनु वा मंत्रयेत यन्मेऽद्य रेतः पृथिवीमस्कात्सीद्यदोषधीरप्यसरद्यदप इदमहं तद्रेत आददे पुनर्मा मैत्विंद्रियं पुनस्तेजः पुनर्भगः पुनरग्निर्धिष्ण्या यथास्थानं कल्पन्तामित्यनामिकांगुष्ठाभ्यामादायान्तरेण स्तनौ वा भ्रुवौ वा निमृज्यात् ॥ ५ ॥

अथ यद्युदक आत्मानं परिपश्येत् तदभिमंत्रयेत मयि तेज इंद्रियं यशो द्रविणं सुकृतमिति ॥ ६ ॥

[दम्पत्यो: अन्योन्यता]

श्रीर्ह वा एषा स्त्रीणां यन्मलोद्वासास्तस्मात् मलोद्वाससं यशस्विनीमभिक्रम्योपमंत्रयेत ॥ ७ ॥

सा चेदस्मै न दद्यात् काममेनामवक्रीणीयात् सा चेदस्मै नैव दद्यात् काममेनां यष्ट्या वा पाणिना वोपहत्यातिक्रामेदिंद्रियेण ते यशसा यश आदद इत्ययशा एव भवति ॥ ८ ॥

सा चेदस्मै दद्यादिंद्रियेण ते यशसा यश आदधामीति यशस्विनावेव भवतः ॥

स यामिच्छेत् कामयेत मेति तस्यामर्थं निष्ठाय मुखेन मुखं सन्धायोपस्थमस्या अभिमृश्य जपेत् ।

अङ्गादङ्गात् सम्भवसि हृदयादधिजायसे ॥

स त्वमंगकषायोऽसि दिग्धविद्धामिव मादयेमाममूं मयीति ॥ ९ ॥

अथ यामिच्छेन्न गर्भं दधीतेति तस्यामर्थं निष्ठाय मुखेन मुखं सन्धायाभिप्राण्यापान्यादिंद्रियेण ते रेतसा रेत आदद इत्यरेता एव भवति ॥ १० ॥

अथ यामिच्छेद् गर्भं दधीतेति तस्यामर्थं निष्ठाय मुखेन मुखं सन्धायापान्याभिप्राण्यादिंद्रियेण ते रेतसा रेत आदधामीति गर्भिण्येव भवति ॥ ११ ॥

अथ यस्य जायायै जारः स्यात् तं चेत् द्विष्यादामपात्रेऽग्निमुपसमाधाय प्रतिलोमं शरबर्हिस्तीर्त्वा तस्मिन्नेताः शरभृष्टीः प्रतिलोमाः सर्पिषाक्ता जुहुयान्मम समिद्धेऽहौषीः प्राणापानौ त आददेऽसाविति मम समिद्धेऽहौषीः पुत्रं पशूंस्त आददेऽसाविति मम समिद्धेऽहौषीरिष्टासुकृते त आददेऽसाविति मम समिद्धेऽहौषीराशा पराकाशौ त आददेऽसाविति स वा एष निरिंद्रियो विसुकृतोऽस्माल्लोकात् प्रैति यमेवं विद्वान् ब्राह्मणः शपति तस्मादेवं विच्छ्रोत्रियस्य दारेण नोपहासमिच्छेदुत ह्येवंवित् परो भवति ॥१२॥

अथ यस्य जायामार्तवं विन्देत् त्र्यहं कंसेन पिबेदहतवासा नैनां वृषलो न वृषल्युपहन्यात् त्रिरात्रान्त आप्लुत्य व्रीहीनवघातयेत् ॥१३॥

[अपेक्षितपुत्रप्राप्तौ उपायाः ]
स य इच्छेत् पुत्रो मे शुक्लो गौरो जायेत वेदमनुब्रवीत सर्वमायुरियादिति क्षीरौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातां ईश्वरौ जनयितवै ॥ १४ ॥

अथ य इच्छेत् पुत्रो मे कपिलः पिंगलो जायेत द्वौ वेदावनुब्रवीत सर्वमायुरियादिति दध्योदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै ॥ १५ ॥

अथ य इच्छेत् पुत्रो मे श्यामो लोहिताक्षो जायेत त्रीन् वेदाननुब्रवीत सर्वमायुरियादित्युदौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै ॥ १६ ॥

अथ य इच्छेद्दुहिता मे पंडिता जायेत सर्वमायुरियादिति तिलौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै ॥ १७ ॥

अथ य इच्छेत् पुत्रो मे पंडितो विजिगीथः समितिंगमः शुश्रूषितां वाचं भाषिता जायेत सर्वान् वेदाननुब्रवीत सर्वमायुरियादिति मांसौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयित्वा औक्षेण वार्षभेण वा ॥ १८ ॥

 [स्त्रीसङ्गविधिः ]

अथाभिप्रातरेव स्थालीपाकावृताज्यं वेष्टित्वा स्थालीपाकस्योपघातं जुहोत्यग्नये स्वाहाऽनुमतये स्वाहा देवाय सवित्रे सत्यप्रसवाय स्वाहेति हुत्वोद्धृत्य प्राश्नाति प्राश्येतरस्याः प्रयच्छति प्रक्षाल्य पाणी उदपात्रं पूरयित्वा तेनैनां त्रिरभ्युक्षत्युत्तिष्ठातो विश्वावसोऽन्यामिच्छ प्रपूर्व्यां सं जायां पत्या सहेति ॥ १९ ॥

अथैनामभिपद्यते - अमोऽहमस्मि सा त्वं, सा त्वमस्यमोहं, सामाहमस्मि ऋक् त्वं , द्यौरहं पृथिवी त्वं, तावेहि संरभावहै, सह रेतो दधावहै, पुंसे पुत्राय वित्तय इति ॥ २० ॥

अथास्या ऊरू विहापयति विजिहीथां द्यावापृथिवी इति तस्यामर्थं निष्ठाय मुखेन मुखं सन्धाय त्रिरेनामनुलोमामनुमार्ष्टि ।विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु ।आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥

गर्भं धेहि सिनीवालि गर्भं धेहि पृथुष्टुके ।गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजौ ॥ २१ ॥

हिरण्मयी अरणी याभ्यां निर्मन्थतामश्विनौ ।तं ते गर्भं हवामहे दशमे मासि सूतये ॥यथाग्निगर्भा पृथिवी यथा द्यौरिंद्रेण गर्भिणी ।वायुर्दिशां यथा गर्भ एवं गर्भं दधामि तेऽसाविति ॥ २२ ॥

[ पुत्रोत्पत्तिः, जातकर्मसंस्कारश्च ]

सोष्यन्तीमद्भिरभ्युक्षति । यथा वायुः पुष्करिणीं समिंगयति । सर्वत एवा ते गर्भं एजतु सहावैतु जरायुणा इंद्रस्यायं व्रजः कृतः सार्गलः सपरिश्रयस्तमिंद्र निर्जहि गर्भेण सावरं सहेति ॥ २३ ॥

जातोऽग्निमुपसमाधायांक आधाय कंसे पृषदाज्यं सन्नीय पृषदाज्यस्योपघातं जुहोति अस्मिन् सहस्रं पुष्यासमेधमानः स्वे गृहे । अस्योपसन्द्यां मा च्छैत्सीः प्रजया च पशुभिश्च स्वाहा मयि प्राणांस्त्वयि मनसा जुहोमि स्वाहा ।

यत्कर्मणात्यरीरिचं यद्वा न्यूनमिहाकरम् ।अग्निष्टस्त्विष्टकृद्विद्वान् स्विष्टं सुहुतं करोतु नः स्वाहेति ॥ २४ ॥

[रहस्यनामकरणम्, स्तन्यप्राशनं च]

अथास्य दक्षिणं कर्ममभिनिधाय वाग्वागिति त्रिरथ दधि मधु घृतं संनीयानन्तर्हितेन जातरूपेण प्राशयति भूस्ते दधामि भुवस्ते दधामि स्वस्ते दधामि भूर्भुवः स्वः त्वयि सर्वं दधामीति ॥ २५ ॥

अथास्य नाम करोति वेदोऽसीति तदस्य तद्गुह्यमेव नाम भवति ॥ २६ ॥

अथैनं मात्रे प्रदाय स्तनं प्रयच्छति , यस्ते स्तनः शशयो यो मयोभूर्यो रत्नधा वसुविद्यः सुदत्रः येन विश्वा पुष्यसि वार्याणि सरस्वति तमिह धातवे करिति ॥ २७ ॥

अथास्य मातरमभिमंत्रयत इलासि मैत्रावरुणी वीरे वीरमजीजनत् ।सा त्वं वीरवती भव याऽस्मान् वीरवतोऽकरदिति

तं वा एतमाहुरतिपिता बताभूरतिपितामहो बताभूः परमां बत काष्ठां प्रायच्छ्रिया यशसा ब्रह्मवर्चसेन य एवंविदो ब्राह्मणस्य पुत्रो जायत इति ॥ २८ ॥

इति चतुर्थं ब्राह्मणम्

भावबोधटिप्पणी

अनेनोपनिषदुक्तविधानेन जातः पुत्रः प्रायः स्वर्गापवर्गयोग्यो भवतीति प्रजातिकर्म वक्तुमिदं ब्राह्मणं प्रवर्तते । तत्रादौ तावत्पुत्रोत्पत्तिहेतुभूतं रेतः स्तोतुमाह- एषां भूतानामिति । एषां प्रसिद्धानां भूतानां चराचराणां पृथिवी रसः सारः सर्वगुणैर्वरा । पृथिव्या आपो वरुणो रसः । अपामोषधयः तदभिमानी सोमो रसः । ओषधीनां पुष्पाणि तदभिमानी रसः । पुष्पाणां फलानि तदभिमानी रसः । फलानां पुरुषः पुंस्त्वाभिमानी रुद्रः । पुरुषस्य रेतः तदभिमानिनी सरस्वती रसः । अनेन रेतसः उत्तमाभिमानिनीकत्वात् श्रैष्ठ्यमुक्तं भवति । यथोक्तं- 'पृथिवी सर्वभूतेभ्यः सदा सर्वैगुणैर्वरा । रसः सारो वरश्चेति शब्दा एकार्थवाचकाः । पृथिव्या वरुणः श्रेष्ठस्तस्मादोषधिदेवता । सोमस्तस्मात्तु पुरुषो रुद्रो यत्पौंस्यदेवता । तस्मात्सरस्वती वाग्धि श्रेष्ठा' इति । अत्र यद्यपि पुष्पाणां फलानां रेतसवाऽभिमानी नोक्तः तथापि तारतम्यप्रकरणात्पुष्पाभिमानिनो दक्षबृहस्पत्यादयः फलाभिमानीन्द्रः कामो वा ग्राह्यः । रेतोऽभिमानिनी च सरस्वत्येव रुद्रस्य पुंस्त्वदेवतात्वोक्तेरिति ज्ञेयम् ।। १ ।।

एवं रेतसः श्रेष्ठत्वादेव स प्रजापतिर्ब्रह्मेक्षां विचारं चक्रे । कथं हन्त अस्मा अस्य सर्वसारभूतस्य रेतसः प्रतिष्ठामाधारं कल्पयानीति । एवं विचार्य स प्रजापतिः स्त्रियं रेतसः प्रतिष्ठाभूतां संसृजे उत्पादितवान् । तां स्त्रियं सृष्ट्वा अध उपास्त मिथुनीभावाख्योपासनं कृतवान् । यस्मादेवं प्रजापतिः कृतवान् तस्मादद्यतनोऽपि स्त्रियमध उपासीत । स उपासकः उक्तोपासनेन एतं प्राञ्चं प्राक्कालीनम् । ग्रावाणं ग्रावनिभं रेतः आत्मन एव समुदपारयत् निष्कासयेत् । तेन निष्कासितेन रेतसैनां स्वस्त्रियमभ्यसृजत् संयोजयेदित्यर्थः ।। २ ।।

नन्ववश्यंभाविन्यर्थे कथमयं विधिरिति चेत् न । मिथुनीभावस्यापि यज्ञत्वभावनाय विधानादिति भावेन प्रसिद्धवाजपेयादियज्ञवदत्रापि वेद्यादिकमाह - तस्या इति ॥ तस्यास्त्रियः उपस्थो वेदिः तत्साम्यात् लोमानि तद्वृत्तीनि बर्हिः तद्वृत्ति चर्मैव चर्मकृष्णाजिनस्थानीयं यौ मध्यतो मध्यप्रदेशे विद्यमानौ मुष्कौ वृषणौ तावधिषवणे सोमाभिषवफलके इत्यन्वयः । मध्यतो योनिमध्यप्रदेशः समिद्धो दीप्तोऽग्निः तस्मिन्नग्नौ रेतो जुहुयादिति भावः । उक्तप्रकारेण मिथुनीभावस्य यज्ञभावनाकर्तुः फलमाहस इति ।। वाजपेयेन यजमानस्य स प्रसिद्धो यावान् लोको भवति तावान् लोकः अस्योक्तप्रकारेण मिथुनीभावोपासकस्य भवति । वाजपेयेन यजमानस्य परलोके यावत्सुखं तावत्सुखमपि स्यादिति भावः । फलान्तरमाह - य एवमिति । यः पुरुषः एवमुक्तप्रकारेण मिथुनीभावस्य यज्ञत्वं विद्वानधोपहासं स्त्रीसङ्गं चरति स आसां स्त्रीणां सुकृतं वृङ्क्ते च्छेदयति । स्त्रीभिः कृतं सर्वं सुकृतं स्वयमादाय तासां यथा सुकृतं नास्ति तथा करोतीत्यर्थः । मिथुनीभावस्य यज्ञत्वमविज्ञायैव तदनुष्ठातुरनर्थमाह- अथेति || अथ पुनर्यः पुरुष इदं मिथुनीभावस्य यज्ञत्वमविद्वानधोपहासं चरति अस्य पुरुषस्य सुकृतं स्त्रिय आवृञ्जते च्छेदयन्तीत्यर्थः ।। ३ ।

मिथुनीभावस्य यज्ञत्वमननुसन्धाय तदनुष्ठातुरनर्थफलं भवतीत्येतदनेकाचार्य- सम्मतमित्याहएतद्धस्मेति । तत् मिथुनीभावस्य यज्ञत्वं विद्वान्नुद्दालकनामा अरुणस्यापत्यमारुणिः एतद्वक्ष्यमाणमाह । ह स्म वा इति निपातत्रयं प्रसिद्धि- द्योतकम् । एवमुत्तरत्र | नाको नामतः मुद्गलस्यापत्यं मौद्गल्यः कुमारो नामतः हरीतस्यापत्यं हारीतः । उद्दालकादयः किमाहुरित्यत आह- बहवो मर्या इति ।। इदं मिथुन भावस्य यज्ञत्वमविद्वांसः अधोपहासं चरन्ति ते बहवो मर्याः मरणशीलाः ब्राह्मणायना ब्राह्मणाभासाः निरिन्द्रिया विनष्टेन्द्रियाः विसुकृतो विकृतपुण्याः सन्तोऽस्माल्लोकात्प्रयन्ति नरकादिकं प्रति गच्छन्तीत्यर्थः । इतिशब्दस्येत्याहेति प्रत्येकं सम्बन्धः ! उक्तप्रकारेणोपहासचरणं श्रेयस्साधनमित्युक्त्वा इदानीमुपहासं विना रेतःस्कन्दने प्रायश्चित्तमाह - वह्निति ॥ सुप्तस्य वा जाग्रतो वा पुरुषस्य यदीदं रेतो बहु वाशब्दादल्पं च स्कन्दति निःसरति ॥ ४ ॥

तदा तत् स्कन्नं रेतो हस्तेनाऽभिमृशेत् अनु पश्चात् मन्त्रयेत वा मन्त्रयेच्च । तं मन्त्रमाह-- यदिति || मे मम अद्याप्राप्तकाले यद्रेतः पृथिवीं प्रति अस्कांत्सीत् स्कन्नमासीत् यदोषधीः प्रति वाऽसरदगमत् यदपः प्रति वाऽसरत् तदिदं रेतः अहमाददे गृह्णामीति मन्त्रेणानामिकाङ्गुष्ठाभ्यामादाय रेतोरूपेण बहिर्निगतमिन्द्रियं पुनर्मा प्रत्येतु तेजःकान्तिः पुनरेतु । भग ऐश्वर्यं ज्ञानं वा पुनरेतु । धिष्ण्या होमस्थांनभूतोऽग्निः पुनर्मामेतु। आगतानीन्द्रियादीनि यथास्थानं कल्पन्तां तिष्ठन्तु इति मन्त्रेण स्तनौ भ्रुवौ वांन्तरेण स्तनयोर्भुवोर्वा मध्ये निमृजेत् लेपयेत् ॥ ५ ॥

प्रायश्चित्तप्रसङ्गादन्यस्यापि तदाह- अथेति । यद्वा यस्मिन्नुदके रेतस्सेकस्तस्मिन्नेवोदके स्वात्मदर्शने प्रायश्चित्तमाह-- अथेति । यद्युदके साधारणे रेतःसिक्ते वा आत्मानं परिपश्येत्तदा तदुदकं मन्त्रयीत । तं मन्त्रमाह - मयीति ॥ उदके स्वात्मपरिदर्शनेन गतं तेजः इन्द्रियं यशो द्रविणं दैवं मानुषं च सुकृतं पुण्यं च मय्यस्त्वित्यर्थः । यस्यां पुत्रो जनयितव्यस्तां स्त्रियं स्तुवन्नुपहासे इत्थम्भावमाहश्रीरिति ।। यद्यस्मात्कारणात् स्त्रीणां मध्ये मलोद्वासा उद्गतमलवद्वस्त्रा कृतरजस्वलास्नानेति यावत् । एषा पत्नी श्रीर्यशस्विनी पुत्रोत्पत्तिहेतुत्वात् ह वा इति प्रसिद्धिद्योतकं तस्मान्मलोद्वाससं यशस्विनीं कीर्तिमतीं प्रत्यभिक्रम्य गत्वोपमन्त्रयेत विशिष्टपुत्रोत्पादनं कर्तव्यमिति विचारं कुर्यात् ।। ६ ।।

सा चेदस्मै न दद्यात् मिथुनीभावानुकूला न स्यात् तर्हि एनां स्वभार्यां कामं यथाभिलषितभोगादिभिरवक्रीणीयात् वशं कुर्यात् । एवमपि सा चेतदमस्मै नैव दद्यात्तदा कामं स्वेच्छानुसारेणैतां स्त्रियं यष्ट्या दण्डेन वा पाणिना हस्तेन वोपहत्य ताडयित्वाऽतिक्रमेत् । अतिक्रम्य गच्छेत् गमनकाले वक्तव्यमाह- इन्द्रियेणेति ।। यशसा यशोहेतुभूतेनेन्द्रियेण गुह्येन्द्रियेण ते तव यशो यशोहेतुभूतपुत्रोत्पत्तिकरं रेतः आददे गृह्णामीति वदेत् । एवमुक्ता सा स्त्री अयशा एव यशोहेतुभूतपुत्रशून्यैव भवति ।। ७ ।।

सा चेदस्मै तदा दद्यात् । तदा यशसा इन्द्रियेण ते यश आदधानि प्रापयामीति वदेत् । तदा तौ स्त्रीपुरुषौ यशस्विनावेव भवतः ।। ८ ।।

अथ या भर्तुर्द्वेषिणी भवति तस्यास्तद्विषये प्रीतिसम्पत्त्युपायं वदन् उपहासे इत्थंभावान्तरमाहस यामिति । स पूर्वोक्तकामी इयं मा मां कामयेतेति यां स्वभार्यामिच्छेत् तस्यां तदीययोनौ अर्थं गुह्येन्द्रियं निष्ठाय निक्षिप्य स्त्रीमुखेन सह मुखं सन्धाय मेलयित्वा अस्या उपस्थमभिमृश्य मन्त्रं जपेत् । तन्मन्त्रमाह- अङ्गादिति ॥ हे रेतस्तदन्तर्गत भगवन् त्वं अङ्गादङ्गात्सर्वस्मादङ्गात्सम्भवसि समुत्पद्यसे । विशेषतश्च हृदयात्तत्स्थनाडीद्वारेणाधिजायसे प्रकटीभवसि । स त्वमङ्ग कषायोऽसि अङ्गानां रसोऽसि । अतो दिग्धविद्धामिवौषधलिप्तां स्त्रीमिवेमाममूं मद्भार्यां मयि विषये मादय हर्षयुक्तां कुरु । मद्वशां कुर्वित्यर्थः ॥ ९ ॥

अथ यां स्वभार्यां यौवनादिभ्रंशभयात् गर्भं न दधीत न धारयीतेतीच्छेत् तस्यामित्यादिपूर्ववत् | अभिप्राण्य श्वासं मुक्त्वा अपान्यात् तं गृह्णीयात् । एवं श्वासनिरोधं कृत्वा जप्यमन्त्रमाह- अरेता एवेति । पुत्रोत्पत्तिहेतुभूतरेतःशून्यैव भवतीत्यर्थः ।। १० ।।

अथ यां स्वभार्यां गर्भं दधीतेतीच्छेत् अपान्यश्वासमादाय अभिप्राण्यात् श्वासं मुश्चेत् ततो जप्यं मन्त्रमाह-- इन्द्रियेणेति || मदीयेन रेतसेन्द्रियेण ते त्वयि रेत आदधामीति जपेत् सति चैवं सा गर्भिण्येव भवति ॥ ११ ॥

एवं स्वभार्यंयैवोपहासः कर्तव्य इत्युक्तं इदानीं स्त्र्यन्तरेणोपहासकरणे अभिचार- माहअथेति || यस्य पुरुषस्य जायायै जायाया जार उपपतिः स्यात् तमुपपतिं चेद् द्विष्यात् निजपतिः स आमपात्रे अपक्कमृण्मयभाजने अग्निमुपसमाधाय प्रतिलोमं पश्चिमाग्रं दक्षिणाग्रं वा यथा स्यात्तथा शरमयं बर्हिस्तीर्त्वा आस्तीर्य तस्मिन्नग्रौ एताः शरभृष्टीः बाणैषिकाः प्रतिलोमाः विपरीताग्राः सर्पिषाक्ता घृताक्ता जुहुयात् । तन्मन्त्रमाह- ममेति || मम मदीये समिद्धे यौवनादिना समिद्धे योषानौ अहौषीः रेतो हुतवानसि । अतस्ते तव प्राणापानावादद इति मन्त्रमुच्चार्य प्रथमाहुतिं जुहुयात् । अनन्तरमसाविति शत्रोर्नाम गृह्णीयात् । एवमुत्तरत्रापि । पुत्रं पशूनित्युपलक्षणम् इष्टा सुकृते इष्टं यजनजनितं पुण्यं सुकृतं तदतिरिक्तकर्मजन्यं आशेच्छा पराकाश उत्तमतेजश्चेत्याशापराकाशौ । एवं हुते किं स्यादित्यत आह- स वा इति ॥ एवं विद्वानभिचारकर्मविद् ब्राह्मणो यं जायोपपतिं शपति स एव जारो निरिन्द्रियो

विसुकृतः गतः सुकृतः । अस्माल्लोकात्प्रैति मृतो भवतीत्यर्थः । तस्मादेवंवित्परदारगमने उक्ताऽनिष्टवित् श्रोत्रियस्य दारेण दारैः सह नोपहासमिच्छेत् न कुर्यादिति किमु वक्तव्यम् । किं तत इत्यत आह- उतेति । हि यस्मात्परदारहर्तुरेवंवित् अभिचारकर्मवेत्ता परः शत्रुर्भवति उत तस्मान्नेच्छेदित्यर्थः ॥ १२ ॥

स्त्रीणां ऋतुकालेऽनुष्ठेयं व्रतमाह - अथेति । यस्य पुरुषस्य जायां भार्यामार्तवं ऋतुभावो विन्देत्प्राप्नुयात् तदा तस्य भार्या तदारभ्य त्र्यहं दिवसत्रयं कंसे कांस्यपात्रे न पिबेत् नाश्नीयात् अहतवासा अधीतवासा भवेत् । एनां ऋतुमर्ती वृषलः शूद्रो नोपहन्यान्न स्पृशेत् वृषली शूद्री च न स्पृशेत् । त्रिरात्रान्ते चतुर्थेऽहनि प्रातःकाले आप्लुत्य स्नात्वा ब्रीहीनवघातयेत् ॥ १३ ॥

इदानीं पुत्रविशेषेच्छायां कर्तव्यविशेषमाह - स इति । स यः पुरुषो मे मम पुत्रः शुक्लः शुद्धो गौरो गौरवर्णो जायेत वेदमेकं वेदमनुब्रवीत सर्वमायुः शतवर्षपरिमितमायुरियात् प्राप्नुयादितीच्छेत् तदा क्षीरोदनं पाचयित्वा तेन होमं कृत्वा सर्पिष्मन्तं तच्छेषं तौ दम्पती अश्नीयाताम् । एवं सति जनयितवै तादृशं पुत्रं जनयितुमीश्वरौ समर्थौ भवत इत्यर्थः ।। १४ ।

एवमुत्तरत्र कपिलो लोहितः पिङ्गलः पिङ्गलाक्षः दध्योदनं पाचयित्वा दघ्ना चरुं श्रपयित्वा || १५ ॥

उदौदनं उदकेनौदनं पाचयित्वेति क्षीरादिव्यावृत्त्यर्थम् || १६ ||

 दुहिता कन्या पण्डिता स्वयोग्यतानुसारेणागमजज्ञानवती ॥ १७ ॥

विजिगीथो जयशीलः समितिगमी विद्वत्सभाप्रविष्टां शुश्रूषितां श्रोतुमीप्सिताम् । मांसमिश्रितौदनं मांसौदनं तन्मांस किमीयमित्यत आह- औक्षेणेति ॥ उक्षा गोवृषः तत्सम्बन्ध्यौक्षं वृषभो बलीवर्दः तत्सम्बन्धि वार्षभं तेन मांसेन युक्तमोदनमित्यन्वयः ।। १८ ।।

क्षीरौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामित्युक्तं तत्कदेत्यतो वक्ष्यमाण- होमानन्तरमेवेति भावेन सत्पुत्रोत्पत्त्युपयुक्तं होममाह- अथेति ।। अथ त्रिरात्रान्ते आप्लुतया स्त्रिया व्रीह्मवहननकरणानन्तरं चतुर्थेऽह्नि प्रातरेव स्थालीपाकावृताज्यं स्थालीपाकं चावृताज्यं च होमाज्यं चेति स्थालीपाकावृताज्यं तत् । अभिवेष्टित्वा सम्यक् कृत्वा स्थालीपाकस्याज्यसंस्कृतस्योपघातं भागं जुहोति जुहुयात् तन्मन्त्रमाहअग्नये स्वाहेति ।। अत्राग्र्यनुमतिसवितृशब्दास्तदन्तर्गतविष्णुपराः तस्यैव सकलयज्ञभोक्तृत्वात् । देवाय क्रीडादिगुणसम्पन्नाय । सवितृशब्दार्थमाह- सत्य्प्रसवायेति ।। सत्यभूतजगत्कारणायेत्यर्थः । सत्पुत्रप्रसवकारणायेति वा । इत्यनेन मन्त्रेण हुत्वा स्थालीपाकस्थं चरुशेषमुद्धृत्य प्राश्नाति भक्षयेत् । स्वयं प्राश्य इतरस्याः भार्यायाः तदेव प्रयच्छति दद्यात् । ततः पाणी प्रक्षाल्योदपात्रं पूरयित्वा तेनोदकेनैनां भार्यां त्रिरभ्युक्षति त्रिवारमभ्युक्षणं कुर्यात् तन्मन्त्रमाह- उत्तिष्ठेति । हे विश्वावसो गन्धर्व अतो मद्भार्यातः उत्तिष्ठ त्वमन्यां प्रभर्व्यां पीवरीं तरुणीमिति यावत् इच्छ इमां जायां तु पत्या मया सह संसृज संयोजयेत्यर्थः ॥ १९ ॥

अथैवं गन्धर्वोच्चाटनानन्तरं यथाकामं क्षीरोदनादिभोजनानन्तरं एनां स्वभार्या- मभिपद्यते प्राप्नुयात् । तदा वक्तव्यमाह - अमोहमिति || अहं मदन्तर्यामि- श्रीमन्नारायणः अमो निर्दोषत्वात् अम इति नामकोऽस्मि त्वं त्वदन्तर्गता श्रीर्लक्ष्मीः सारत्वात्सेति नामिका सा त्वमसि । अमोहमित्यभ्यासस्तात्पर्यार्थः । एवमुभयोर्मिलितत्वात् सामशब्दवाच्यत्वमुक्तं इदानीं ऋक्सामशब्दवाच्यत्वमाह- सामेति । अहं मदन्तर्यामी नारायणः सामाऽस्मि सामवेदप्रतिपाद्यत्वात्सामनामक इत्यर्थः । त्वं त्वदन्तर्गता श्रीलक्ष्मीः ऋक् ऋग्वेदाभिमानिनीत्यर्थः । अहं मदन्तर्यामिनारायणो द्योतनात् द्युशब्दवाच्यः त्वं त्वदन्तर्गता लक्ष्मीः प्रथितत्वात्पृथिवीनामिकेत्यर्थः । हे भार्ये त्वमेहि आगच्छ । तौ लक्ष्मी- नारायणाधिष्ठितावावां संरभाव है संरम्भं कुर्वः । कोऽसौ संरम्भः सह मिलित्वा रेतो दधावहै रेतो मिलितं कुर्व इति यावत् । किमर्थमयमारम्भ इत्यत उक्तम्पुंस इति ॥ चतुर्थी षष्ठ्यर्थे पुंस्त्वविशिष्टस्य पुत्रस्य पूतः छिद्रकर्मणस्त्राणनसमर्थस्य वित्तये लाभायेत्यर्थः ॥ २० ॥

अथैवं  वचनानन्तरं अस्यास्त्रियः ऊरू विहापयति विश्लेषयेत् । तन्मन्त्रमाह- विजिहाथामिति ॥ हे द्यावापृथिवी तत्स्थानीये ऊरू विजिहाथां विश्लिष्टे भवेतामिति मन्त्रेण विहापयतीति सम्बन्धः । अनन्तरं तस्यामर्थं निष्ठाय मुखेन मुखं सन्धाय एनां भार्यामनुलोमां मूर्धानमारभ्य पादान्तमिति यावत् । त्रिस्त्रिवारमनुमार्ष्टि मार्जनं कुर्यात् । तन्मन्त्रमाह-- विष्णुरिति || व्याप्तो विष्णुनामको वासुदेवो योनिं कल्पयतु पुत्रोत्पत्तिसमर्थां करोतु योनिशुद्धिं करोतु वा । त्वष्टा त्वेषात् त्वष्टृनामकः सङ्कर्षणो रूपाणि गर्भस्थपुत्रस्थाङ्गानि पिंशतु करोतु । प्रजापातनात्प्रजापतिनामकः प्रद्युम्नः आसिञ्चतु आसेकं करोतु । गर्भात्प्रजापातनं करोतु । धारणकर्तृत्वाद्धाता भगवाननिरुद्धस्ते गर्भं दधातु धारयत्वित्यर्थः । यथोक्तं-

योनिकृतिर्वासुदेवाद्रूपं सङ्कर्षणाद्भवेत् ।

आसेककर्म प्रद्युम्नात् अनिरुद्धाच्च धारणम् ।। इति ।।

व्याप्तेर्विष्णुर्वासुदेवस्त्वष्टा त्वेषात् द्वितीयकः ।

प्रजापतिः प्रजापातान्निषेकः पातनं ततः ।

प्रजापतिस्तु प्रद्युम्नो धाता धारणकर्मतः ।

अनिरुद्ध इति प्रोक्तः... ॥ इति च ॥

हे सिनीवालि चतुर्दशीमिश्रितामावास्यादेवते तदन्तर्गतभगवन् गर्भं धेहि धारय । हे पृथुष्टुके गर्भं धेहि । अत्र पृथुष्टुकाशब्देन पृथु विस्तीर्णा स्तुतिर्यस्याः सा पृथुष्टुति सरस्वत्युच्यते।गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति' इति शाखान्तरपाठात् । पुष्करस्रजौ पद्ममालावन्तौ देवौ क्रीडादिगुणसम्पन्नावश्विनावाशुगती कृष्णरामौ ते गर्भमाधत्ताम् ।कृष्णरामौ तथाश्विनौ' इति वचनात् ॥ २१ ॥

आवां हिरण्भयी अरणी याभ्यामरणीस्थानीयाभ्यामावाभ्यामश्विनौ कृष्ण- रामौ निर्मथतां मथनं कृतवन्तौ तं मथनोत्पन्नं गर्भं ते त्वयि हवामहे । दशमे मासि सूतवे प्रसवार्थमित्यर्थः । प्रकृतं गर्भं स्तौति - यथेति । यथा पृथिवी अग्नि- गर्भा यथा द्यौर्द्युलोक इन्द्रेण तत्पालकेन गर्भिणी यथा वायुर्दिशां गर्भः एवं तादृश-गर्भं ते त्वयि दधामि । असाविति स्वात्मनो गर्भे जायमानस्य वा नाम गृह्णाति ॥ २२ ॥

प्रसवावसरे कर्तव्यमाह सोष्यन्तीमिति || सोष्यन्तीं प्रसविष्यन्तीं भार्यामद्भिरभ्युक्षति तन्मन्त्रमाह- यथेति । यथा वायुः पुष्करणीं सर्वतः समिं जयति स्वरूपोपघातमकृत्वा चालयति । एवा एवमेव ते गर्भः सूचिकावायुना प्रेरित एजतु स्थानाच्चलतु । तदनन्तरं जरायुणोल्बेन सहावैतु निर्गच्छतु उत्तरत्रेन्द्रं प्रार्थयितुं तत्रादौ हेतुमाह- इन्द्रस्येति । इन्द्रस्येन्द्रेण परमैश्वर्यसम्पन्नेन भगवता । सार्गलः अर्गलया वायुनिरोधेन सहितः । सपरिश्रयः परिश्रयेण परिवेष्टनेन जरायुणा सहितः । अयं गर्भः । व्रजः आश्रयः । कृतः । गर्भमाश्रित्य तद्रक्षकतया भगवान् वर्तत इति यावत् । किं तत इत्यत आह- तमिति ॥ हे इन्द्र परमैश्वर्यसम्पन्न सावरमावरणसहितं तं गर्भं निर्जहि निर्गमय निर्गम्यमानेन गर्भेण सह तन्नियामकतया त्वमपि निर्जहि निर्गच्छेति मन्त्रेणाभ्युक्षतीति सम्बन्धः ।। २३ ।।

प्रसवानन्तरं कर्तव्यमाह - जात इति । पुत्रे जाते सति तम आधायाग्निमुपसमाधाय कंसे कांस्यपात्रे पृषदाज्यं संस्कृताज्यं सन्नीय सम्पाद्य पृषदाज्यस्योपघातं भागं जुहोति । होममन्त्रमाह- अस्मिन्निति ।। हि अग्न्यन्तर्गतभगवन्नमस्मिन् स्वे गृहे सहस्रं पुष्यासम् । एधमानो वर्धमानश्च भूयासमित्यर्थः । अस्मिन् पुत्रे निमित्ते सतीति वा । अस्य पुत्रस्योपसद्यां सन्ततिं प्रजया पशुभिश्च सह माच्छैत्सीः विच्छिन्नं मा कुरु । मयि स्थितान् प्राणान् मनसा सह त्वयि जुहोमि त्वद्विषयान् करोमि । इह कर्तव्यकर्मविषये कर्मणा यदत्यरीरिचमधिकमभवमधिकं कर्म कृतवानस्मीति यावत् । यद्वा न्यूनमकरमकरवं तत्सर्वं स्विष्टकृत् स्वभक्तिज्ञानादि - पूर्वकमिष्टं न्यूनाधिकमपि सम्यक्करोतीति स्विष्टकृन्नामा विद्वान् सर्वज्ञोऽग्निस्तदन्तर्गतो भगवान् स्विष्टं सुहुतं करोत्वित्यर्थः

।। २४ ।।

एतद्धोमानन्तरं कर्तव्यमाह - अथेति । अथ स्विष्टकृद्धोमानन्तरमस्य शिशोर्दक्षिणकर्णमभिनिधाय पिता स्वाभिमुखं निधाय त्रयीलक्षणा वाक् त्वयि प्रविशत्वित्यभिप्रायवान् वाग्वागिति त्रिर्जपेदिति शेषः । अथ त्रिर्जपानन्तरं दधि मधु घृतं सन्नीयानन्तर्हितेन व स्त्राद्यनावृतेन जातरूपेण सुवर्णेन प्राशयति । अन्नप्राशनमन्त्रं पठति - भूरिति ॥ हे भूः ते त्वयि दधामि इत्यर्थः ।। २५ ।।

अथ पूर्वोदाहृतैश्चतुर्मन्त्रैः प्रत्येकमन्नप्राशनानन्तरमस्य शिशोर्नाम करोति किमिति वेदोऽसि वेद इति नामकोऽसीति तदेतद्वेद इति नामास्य शिशोर्गुह्यं गोप्यमेव भवति । नतु प्रकटनीयम् । व्यवहारार्थं प्रसिद्धनाम तु स्वाभिप्रेतदेववाचकं कर्तव्यमिति भावः ।। २६ ।।

अथ नामकरणानन्तरमेनं शिशुं तन्मात्रे प्रदाय स्तनं प्रयच्छति दापयेत् । तन्मन्त्रमाह- यस्त इति || हे सरस्वति ते तव यत्स्तनः शशयः शं सुखं तस्य शयः आशयः शेसुं खे शेत इति वा शशयः यो मयो भूः । अवग्रहदर्शनाद्भिन्नं पदम् । मयः सर्वप्रधानो भूः पूर्णः यो रत्नान्याभरणरूपाणि धत्त इति रत्नधा वसु आभरणरूपमेव विन्दति प्राप्नोतीति वसुवित् । यः सुदत्रः सम्यक् दाता रक्षकश्च येन त्वदीयेन स्तनेन त्वं विश्वा विश्वानि वार्याणि वरणीयानि देवादीनि पुष्यसि तं स्तनं इह लोके धातवे शिशोः पानार्थं अकः अकार्षीरित्यर्थः । अनेन स्त्रीस्तने सरस्वतीस्तनसन्निधानमस्तीति गम्यते ॥ २७ ॥

अथ स्तनप्रदानानन्तरमस्य शिशोर्मातरमभिमन्त्रयते तन्मन्त्रमाह- इलासीति ॥ हे भार्ये त्वमिलासि स्तुत्यासि मैत्रावरुणी मित्रावरुणनामकभगवद्रूपाधिष्ठानभूतासि हे वीरे आरब्धान्तगामिनी या भवति वीरं पुत्रमजीजनत् सा त्वं पुनर्वीरवती पुत्रवती भव । एवमाशीर्वादकरणनिमित्तमाह- यास्मानिति । याऽस्मान्वीरवतः पुत्रवतोऽकरत् अकरोदिति । एवमुक्तप्रकारेण शिशोः संस्कारकरणे किं स्यादित्यत आह- तं वा एनमिति ।। एवंविदः पूर्वोक्तप्रकारेण भगवज्ज्ञानवतो ब्राह्मणस्य यः पुत्रो जायते तं वा एनं जनाः हे पुत्र त्वमतिपिता पितरमतिक्रान्तोऽभूः बतेत्याश्चर्ये । न केवलमेतावत् अतिपितामहः पितामहमतिक्रान्तोऽभूः कुतः अयं श्रिया यशसा ब्रह्मवर्चसेन परमां काष्ठामवधिं प्राप बह्वैश्वर्यादिसम्पन्न इत्याहुरिति सम्बन्धः ।।२८।। ॥ इति चतुर्थं ब्राह्मणम् ॥