इदं वैतन्मधु दध्यङ्ग्ङाथर्वणोऽश्विभ्यामुवाच
[सर्वजीवाः भगवतः प्रतिबिम्बा: ]
उपनिषत्
इदं वैतन्मधु दध्यङ्ग्ङाथर्वणोऽश्विभ्यामुवाच ।
तदेतदृषिः पश्यन्नवोचत् ।
रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय । इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दश ॥
इत्ययं वै हरयोऽयं वै दश च सहस्राणि बहूनि चानन्तानि च तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूरित्यनुशासनम् ॥ १९ ॥
॥ इति मधुब्राह्मणम् ॥
भाष्यम्
भगवतो रूपं रूपं प्रति जीवाख्यः प्रतिबिम्बो बभूव ।
बभूवेति 'सदेव सोम्येदमग्र आसीत्' इतिवदनादित्वार्थे ।
'सुखदा सर्वभूतानां पृथ्वी मधुवदुच्यते ।
पृथिव्याश्चैव भूतानि तथा सर्वाश्च देवताः ।।
पृथिव्यादिषु देवेषु शरीरादिषु च स्थितः ।
एक एव परो विष्णुर्हयशीर्षस्वरूपधृक् ॥
अनन्ततेजा नित्यश्च स एव ब्रह्म सर्वगः ।
तदेव गुणपूर्णत्वाद् ब्रह्म सर्वमनूनतः ॥
भावबोधटिप्पणी
अथ भाष्यार्थः
स्वहृदिस्थोपासनमेव मोक्षसाधनं न बहिष्ठोपासनमित्युक्त्या प्राप्तां तयो रूपयोर्वैलक्षण्यशङ्कां तयोरभेदोक्त्या परिहरन्नस्य महतो भूतस्येत्युक्तहयग्रीवस्य महिमान्तरमाह- इयं पृथिवीत्यादिना ॥ स ईश्वरो रूपं रूपं देहं देहं प्रतिरूपो रूपान्तरं प्रतिबिम्बो बभूवेति रूपं रूपमित्यस्य परकीयव्याख्यानमसत् । ब्रह्मणो जीवरूपेण प्रतिबिम्बभवनस्य जीवब्रह्मैक्यनिरासेनैव निरस्तत्वादिति भावेन तद्व्याचष्टे– भगवत इति । शृण्वे वीर इति पूर्वं त्रिविधजीवानां प्रस्तुतत्वात् जीवाख्य इत्युक्तम् । प्रतिबिम्ब: । तदधीनत्वे सति तत्सदृश इत्यर्थः । बभूवेत्युक्त्या जीवस्य भगवत्प्रतिबिम्बत्वमिदानीं नास्तीति प्रतीयते तां निवारयति - बभूवेतीति ।। व्याख्यातप्रायमेतत् । इयं पृथिवी सर्वेषां भूतानां ब्रह्मादीनां मधु कार्यम् । पृथिव्याश्च सर्वाणि भूतानि मधु कार्यम् । शरीराणां पृथिवीजन्यत्वादिति व्याख्यानमसत् । परमते विद्युत्स्तनयित्नुमानुषा- दिशब्दानां प्रसिद्धार्थत्वेन तेषां भूतकार्यत्वस्य भूतानां तत्कार्यत्वस्य चाभावात् । मधुशब्दस्य कार्ये प्रयोगाभावाच्च प्रमाणविरुद्धत्वाचेति भावेन ब्राह्मणं प्रमाणेन व्याचष्टे– सुखदेति ।। मधुवदित्युक्तवत्यर्थसादृश्यं वक्तुं सुखदेत्युक्तम् । यथा प्रसिद्धं मधु सुखदं तथाऽऽश्रयत्वादिना पृथिवीभूतानां सुखदा । भूतानि च पृथिव्याः शुश्रूषादिना सुखप्रदानीत्यर्थः । परोक्तकार्यत्वव्यावृत्त्यर्थं सुखदैवेत्येवकारसम्बन्धः । नन्वेवं व्याख्यानेऽपि पृथिव्यादीनां भूतसुखदत्वसम्भवेऽपि भूतानां पृथिव्यादिसुखदत्वं नोपपद्यते । पृथिव्यादीनां जडत्वेन सुखाभावादित्याशङ्कां परिहरन् कृतं व्याख्यानं इमा आप इत्यादावतिदिशति - तथेति । सर्वा देवता अबाद्यभिमानिन्यो भूतानां सुखदाः । चशब्देन भूतानि तासां देवतानां सुखदानीति समुच्चिनोति । तथाच पृथिवीशब्देनापि देवतैव ग्राह्येति भावः । यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं शारीरः तेजोमयः अमृतमयः पुरुषोऽयमेव सः । योऽयमात्मेत्यादिचतुर्दशखण्डगतं वाक्यजातं व्याचष्टे - पृथिव्यादिष्विति ।। तेजोमयोऽमृतमय इत्येतत् जीवपरमिति प्रतीतिनिरासाय व्याचष्टे— अनन्तेति ॥ इदं ब्रह्मेदं सर्वमिति पूर्वप्रकृतस्यात्मनो जीवस्य ब्रह्मत्वादिकमुच्यते इति प्रतीतिनिरासायाऽह - ब्रह्मेति ॥ तदेव हह्यशीर्षस्वरूपमेव । न जीवतत्त्वमित्यर्थः । तत्कुतो ब्रह्मेत्यत आह- गुणेति ॥ सर्वमित्यस्य सर्वगमिति व्याख्यानमुपपादयति- सर्वमिति ॥ अनूनो देशतोऽनूनत्वात् ॥