विद्युद्ब्रह्मेत्याहुर्विदानाद् विद्युत् ..
[ भगवत: विद्युदिति नाम]
उपनिषत्
विद्युद्ब्रह्मेत्याहुर्विदानाद् विद्युत् विद्यत्येनं पाप्मनो य एवं वेद विद्युद्ब्रह्मेति विद्युद्ध्येव ब्रह्म ॥
इति नवमं ब्राह्मणम्
भाष्यम्
....................विद्युत्सर्वस्य वेदनात् ॥
य एनं वेद वेत्तारं सर्वस्य परमेश्वरम् ॥
पापेभ्यो मोचयित्वैनं स्वात्मानं वेदयेद्धरिः ॥
इति माहात्म्ये ॥
भावबोधटिप्पणी
भगवद्विषयं विद्यान्तरमुपदिशति - विद्युदिति ब्राह्मणेन ॥ तद्व्याचष्टे - विद्युदिति ॥ विष्णुरित्यत्रापि सम्बद्ध्यते विदानाद्विद्युदिति विद्युच्छब्दनिर्वचनं कृतम् । तत्र विदानादित्यस्यार्थमाह- सर्वस्य वेदनादिति ।। य एवं वेद विद्युतीत्यत्र एवंशब्दो व्यर्थः । व्याख्यानव्याख्येयभावश्चाऽगतिका गतिरित्याशङ्कापरिहाराय तद्वयाचष्टे - य एनमिति । एनं वेत्तारमिति विद्युद्ब्रह्मेतीत्यर्थः । एवंशब्दार्थः सर्वस्य परमेश्वरमिति । ततश्च पूर्वब्राह्मणोक्त- परामर्शकतया न तस्य वैयर्थ्यमिति भावः । ततश्च पूर्वब्राह्मणोक्तप्रकारेण भगवज्ज्ञानिनोऽपि इदमेव फलम् । अत एव पूर्वब्राह्मणे फलानुक्तिः । विद्यत्येनं पाप्मन इति वाक्यं व्याचष्टे - पापेभ्य इति ॥
खण्डार्थः
विद्युद्ब्रह्मेत्याहुर्विद्वांसः । तत्र निमित्तमाह - विदानादिति । सर्व वेदनात्खण्डनाद्वा विद्युत् । उपासकस्य तदनुरूपं फलमाह- विद्यत्येनमिति ।। योऽधिकारी एवं पूर्वब्राह्मणोक्तप्रकारेण विद्युद्ब्रह्मेति च वेद एनं वेत्तारं तेन ज्ञातो हरिः पाप्मनो विद्यति मोचयति । न केवलमेतावत् । किन्तु एनं स्वात्मानं विद्यति वेदयतीत्यर्थः ।।
इति नवमं ब्राह्मणम् || ७.९ ॥