यदेव ते कश्चिदब्रवीत् तच्छृणुवामेत्यब्रवीन्मे ..

[मनोनामकभगवदुपासना)

उपनिषत्

यदेव ते कश्चिदब्रवीत् तच्छृणुवामेत्यब्रवीन्मे सत्यकामो जाबालः मनो वै ब्रह्मेति यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तज्जाबालोऽब्रवीत् मनो वै ब्रह्मेत्यमनसो हि किं स्यादित्यब्रवीत् तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत् सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य मन एवायतनमाकाशः प्रतिष्ठाऽऽनन्द इत्येनदुपासीत का आनन्दता याज्ञवल्क्य मन एव सम्राडिति होवाच मनसा वै सम्राट् स्त्रियमभिहार्यते तस्यां प्रतिरूपः पुत्रो जायते स आनन्दो मनो वै सम्राट् परमं ब्रह्म नैनं मनोजहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥६॥

भाष्यम्

मनःस्थितस्य यद् विष्णोः सम्बन्धादेव कामतः ।

जातः सुतः सुखे हेतुः परानन्दो हरिः किमु । इति ब्रह्मतर्के ॥

भावबोधटिप्पणी-

ननु काऽनन्दतेति प्रश्ने मन एवेति मनोनामकस्य भगवतः आनन्दत्वं प्रतिज्ञाय मनसा वै सम्राडित्यादिना पुत्रस्याऽनन्दत्वमुच्यते । तदसङ्गतं,पुत्रस्यानन्दत्वमयुक्तं चेत्यत आह- मन इति । यत् यदा कैमुत्येन मनः स्थस्य भगवत आनन्दहेतुत्वमुपपादयितुं पुत्रस्याऽनन्दहेतुत्वमुच्यत इति नासङ्गतिरिति भावः ।। ६ ॥