यदेव ते कश्चिदब्रवीत् तच्छृणुवामेत्यब्रवीत् ..
[श्रोत्रनामकभगवदुपासना]
उपनिषत्
यदेव ते कश्चिदब्रवीत् तच्छृणुवामेत्यब्रवीत् मे गर्दभीविपीतो भारद्वाजः श्रोत्रं वै ब्रह्मेति यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तद्भारद्वाजोऽब्रवीत् श्रोत्रं वै ब्रह्मेत्यशृण्वतो हि किं स्यादित्यब्रवीत् तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत् सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य श्रोत्रमेवायतनमाकाशः प्रतिष्ठाऽनन्त इत्येनदुपासीत का अनन्ता याज्ञवल्क्य दिश एव सम्राडिति होवाच तस्माद् वै सम्राडपि यां कां च दिशं गच्छति नैवास्या अन्तं गच्छत्यनन्ता हि दिशः दिशो वै सम्राट् श्रोत्रं श्रोत्रं वै सम्राट् परमं ब्रह्म नैनं श्रोत्रं जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ५ ॥
भाष्यम्
सर्वव्यापी तु भगवाननन्त इति कीर्तितः ।
दिङ्नामा स तु विज्ञेयो दिक्षुस्थो नित्यदेशनात् ॥ इति च ॥
भावबोधटिप्पणी
ननु अनन्त इत्येतदुपासीतेति श्रोत्रनामकस्य भगवतोऽनन्तत्वमुक्त्तत्वा काऽनन्तता दिश इति होवाचेति दिशामनन्तत्वमुच्यते तदसङ्गतमित्यत आह- सर्वव्यापीति । दिक्षुस्थ इति सप्तम्या अलुक् ।। ५ ।।